Tuesday, September 24, 2013

वल्ली - 1(VALLI -1)


।। कठोपनिषत् ।।

श्रीमच्छंकर-भगवत्पाद-विरचितेन भाष्येण सहिता ।

ॐ स॒ह ना॑-ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । ते॒ज॒स्विना॒वधी॑त-मस्तु॒ मा वि॑द्विषा॒वहै ।
ॐ शान्ति॒ शान्तिः॒ शान्तिः॑ ॥
ॐ नमो भगवते वैवस्वताय मृत्यवे ब्रह्मविद्याचार्याय नचिकेतसे च ।
अथ काठकोपनिषद्वल्लीनाम् सुखार्थ-प्रबोधनार्थम् अल्पग्रन्था वृत्तिरारभ्यते ।
उपनिषद्-शब्द-अर्थ-निरुक्तिः
सदेर्धातोः विशरण,गति,अवसादन-अर्थस्य, उप,नि- पूर्वस्य, ‘क्विप्-प्रत्यय-अन्तस्य रूपम्-उपनिषद् इति । उपनिषच्छब्देन च व्याचिख्यासित-ग्रन्थ-प्रतिपाद्य-वेद्यवस्तु-विषया विद्योच्यते । केन पुनरर्थ-योगेन उपनिषच्छब्देन विद्योच्यत इत्युच्यते ।
ये मुमुक्षवो दृष्टानुश्रविक-विषय-वितृष्णाः सन्त उपनिषच्छब्द-वाच्यां वक्ष्यमाण-लक्षणां विद्याम् उपसद्योपगम्य तन्निष्ठतया निश्चयेन शीलयन्ति तेषामविद्यादेः संसार-बीजस्य विशरणाद्धिंसनाद् विनाशनादित्यनेनार्थ-योगेन विद्या उपनिषदित्युच्यते । तथा च वक्ष्यति --- निचाय्य तं मृत्युमुखात्प्रमुच्यते  ( क. उ. १ ।३ ।१५ ) इति ।
पूर्वोक्त-विशेषणान्मुमुक्षून् वा परं ब्रह्म गमयतीति ब्रह्म-गमयितृत्वेन योगाद्-ब्रह्मविद्योपनिषत् । तथा च वक्ष्यति --- ब्रह्मप्राप्तो विरजोऽभूद्विमृत्युः ( क. उ. २।३ ।१८)  इति ।
लोकादिर्ब्रह्मजज्ञो योऽग्निस्तद्विषयाया विद्याया द्वितीयेन वरेण प्रार्त्थ्यमानायाः स्वर्ग-लोक-फल-प्राप्ति-हेतुत्वेन गर्भवास-जन्म,जराद्युपद्रव-वृन्दस्य लोकान्तरे पौनः पुन्येन प्रवृत्तस्यावसादयितृत्वेन शैथिल्यापादनेन धात्वर्थ-योगादग्नि-विद्याप्युपनिषदित्युच्यते । तथा च वक्ष्यति --- स्वर्गलोका अमृतत्वं भजन्ते ( क. उ. १ ।१ ।१३ ) इत्यादि ।
ननु चोपनिषच्छब्देनाध्येतारो ग्रन्थमप्यभिलपन्ति । उपनिषदमधीमहेऽध्यापयाम इति च ।
एवं नैष दोषोऽविद्यादि-संसारहेतु-विशरणादेः सदि-धात्वर्थस्य-ग्रन्थमात्रेऽसम्भवाद्विद्यायां च सम्भवात् ।   ग्रन्थस्यापि तादर्थ्येन तच्छब्दत्वोपपत्तेः आयुर्वै घृतम् इत्यादिवत् ।  तस्माद्विद्यायां मुख्यया वृत्त्योपनिषच्छब्दो वर्तते, ग्रन्थे तु भक्त्येति ।
एवमुपनिषन्निर्वचनेनैव विशिष्टोऽधिकारी विद्यायामुक्तः । विषयश्च विशिष्ट उक्तो विद्यायाः परं ब्रह्म प्रत्यगात्मभूतम् ।  प्रयोजनं चास्या उपनिषद आत्यन्तिकी संसार-निवृत्तिर्ब्रह्मप्राप्ति-लक्षणा ।
सम्बन्धश्चैवं भूत-प्रयोजनेनोक्तः । अतो यथोक्ताधिकारि, विषय, प्रयोजन, सम्बन्धाया विद्यायाः करतलन्यस्तामलकवत्  प्रकाशकत्वेन विशिष्टाधिकारि, विषय, प्रयोजन, सम्बन्धा एता वल्ल्यो भवन्ति इत्यतस्ता यथाप्रतिभानं व्याचक्ष्महे 

।। प्रथमोऽध्यायः ।।

।। प्रथमा वल्ली ।

ॐ उशन् ह वै वाजश्रवसः सर्ववेदसं ददौ  ।
तस्य ह नचिकेता नाम पुत्र आस  ।। १. १. १ ।।
तत्राख्यायिका विद्या-स्तुत्यर्था । उशन् कामयमानः । ह वा इति वृत्तार्थ-स्मरणार्थौ निपातौ । वाजम् अन्नम्, तद्दानादि-निमित्तं श्रवो यशो यस्य स वाजश्रवाः, रूढितो वा । तस्यापत्यं वाजश्रवसः । स वाजश्रवसः[1] किल विश्वजिता सर्वमेधेनेजे तत्फलं कामयमानः । सः तस्मिन्क्रतौ सर्ववेदसं सर्वस्वं धनं ददौ दत्तवान् । तस्य यजमानस्य ह नचिकेता नाम पुत्रः किल आस बभूव ।। १. १. १ ।।
तँ ह कुमारँ सन्तं दक्षिणासु
नीयमानासु श्रद्धाविवेश सोऽमन्यत  ।। १. १. २ ।।
तं ह नचिकेतसं कुमारं प्रथमवयसं सन्तम् अप्राप्त-प्रजनन[2]-शक्तिं बालमेव श्रद्धा आस्तिक्य-बुद्धिः पितुर्हितकाम-प्रयुक्ता आविवेश प्रविष्टवती । कस्मिन्काल इति आह --- ऋत्विग्भ्यः सदस्येभ्यश्च दक्षिणासु नीयमानासु विभागेनोपनीयमानासु दक्षिणार्थासु गोषु, सः आविष्टश्रद्धो नचिकेताः अमन्यत । ।। १. १. २ । ।
कथमिति उच्यते ---
पीतोदका जग्धतृणा दुग्धदोहा निरिन्द्रियाः  ।
अनन्दा नाम ते लोकास्तान् स गच्छति ता ददत्  ।। १. १. ३ ।।
पीतोदका इत्यादिना दक्षिणार्था गावो विशेष्यन्ते[3]पीतमुदकं याभिस्ता पीतोदकाःजग्धं भक्षितं तृणं याभिस्ता जग्धतृणाःदुग्धो दोहः क्षीराख्यो यासां ता दुग्धदोहाःनिरिन्द्रिया प्रजननासमर्था[4] जीर्णा निष्फला गाव इत्यर्थः । यास्ता एवंभूता गा ऋत्विग्भ्यो दक्षिणाबुद्ध्या ददत् प्रयच्छन् अनन्दा अनानन्दा असुखा नामेत्येतत् । ये ते लोकास्तान् स यजमानो गच्छति । ।। १. १. ३ । ।
स होवाच पितरं तत कस्मै मां दास्यसीति  ।
द्वितीयं तृतीयं तँ होवाच मृत्यवे त्वा ददामीति  । । १. १. ४ । ।
तदेवं क्रत्वसंपत्ति-निमित्तं पितुरनिष्टं फलं पुत्रेण सता निवारणीयं मया आत्म-प्रदानेनापि[5] क्रतु-संपत्तिं कृत्वेत्येवं मन्यमानः[6] पितरमुपगम्य स होवाच पितरम्, हे तत = तात कस्मै ऋत्विग्विशेषाय दक्षिणार्थं मां दास्यसीति = प्रयच्छसीत्येतत् । स एवमुक्तेन पित्रा उपेक्ष्यमाणोऽपि द्वितीयं तृतीयमपि उवाच --- कस्मै मां दास्यसि, कस्मै मां दास्यसीति । नायं कुमार-स्वभाव इति क्रुद्धः सन्, पिता तं ह = पुत्रं किल उवाच, मृत्यवे = वैवस्वताय त्वा = त्वां ददामीति । ।। १. १. ४ । ।
स एवमुक्तः पुत्र एकान्ते परिदेवयांचकार । कथम्? इत्युच्यते ---
बहूनामेमि प्रथमो बहूनामेमि मध्यमः  ।
किóèस्विद्यमस्य कर्तव्यं यन्मयाऽद्य करिष्यति  । । १. १. ५ । ।
बुहूनां शिष्याणां पुत्राणां वा एमि = गच्छामि प्रथमः सन् मुख्यया शिष्यादिवृत्त्येत्यर्थः । मध्यमानां च बहूनां मध्यमः = मध्यमयैव वृत्त्यैमि । नाधमया कदाचिदपि । तमेवं विशिष्ट-गुणमपि पुत्रं माम्, 'मृत्यवे त्वा ददामि' इत्युक्तवान् पिता । स किंस्वित् यमस्य कर्तव्यं = प्रयोजनं मया प्रदत्तेन[7] करिष्यति यत्-कर्तव्यम् अद्य? नूनं प्रयोजनमनपेक्ष्यैव क्रोधवशादुक्तवान् पिता । तथापि तत्पितुर्वचो मृषा मा भूदिति एवं मत्वा परिदेवनापूर्वकमाह पितरं शोकाविष्टं किं मयोक्तमिति ।।१.१.५।।
सन्मार्गः सदैव सेवनीयः
अनुपश्य यथा पूर्वे प्रतिपश्य तथाऽपरे  ।
सस्यमिव मर्त्यः पच्यते सस्यमिवाजायते पुनः  । ।  १. १. ६ । ।
अनुपश्य = आलोचय = विभावय[8] अनुक्रमेण यथा = येन प्रकारेण वृत्ताः पूर्वे = अतिक्रान्ताः = पितृ-पितामहादयस्तव । तान्दृष्ट्वा च तेषां वृत्तमास्थातुमर्हसि । वर्तमानाश्च अपरे साधवो यथा वर्तन्ते तांश्च तथा प्रतिपश्य = आलोचय[9] । न च तेषां[10] मृषाकरणं वृत्तं वर्तमानं वा अस्ति । तद्विपरीतमसतां च वृत्तं मृषाकरणम् । न च मृषाभूतं[11] कृत्वा कश्चिदजरामरो भवति । यतः सस्यमिव मर्त्यः = मनुष्यः पच्यते = जीर्णो = म्रियते, मृत्वा च सस्यमिव आजायते = आविर्भवति पुनरेवमनित्ये जीवलोके किं मृषाकरणेन ? पालयात्मनः सत्यम् । प्रेषय मां यमायेत्यभिप्रायः । ।  १. १. ६ । ।
स एवमुक्तः पिता आत्मनः सत्यतायै प्रेषयामास । स च यम-भवनं गत्वा तिस्रो रात्रीरुवास यमे प्रोषिते । प्रोष्यागतं यमम् अमात्या भार्या वा ऊचुर्बोधयन्तः ---
वैश्वानरः प्रविशत्यतिथिर्ब्राह्मणो गृहान्  ।
तस्यैताóè शान्तिं कुर्वन्ति हर वैवस्वतोदकम्  । ।  १. १. ७ । ।
वैश्वानरो अग्निरेव साक्षात् प्रविशति अतिथिः सन् ब्राह्मणो गृहान् दहन्निव । तस्य दाहं शमयन्त इवाग्नेरेतां पाद्यासनादि-दान-लक्षणां शान्तिं कुर्वन्ति सन्तोऽतिथेर्यतः, अतः हर आहर हे वैवस्वत, उदकं नचिकेतसे पाद्यार्थम् यतश्चाकरणे प्रत्यवायः श्रूयते।  १. १. ७ । ।
अथित्युपेक्षणे दोषाः
आशाप्रतीक्षे संगतँ सूनृतां चेष्टापूर्ते पुत्रपशूँश्च सर्वान्  ।
एतद्वृङ्क्ते पुरुषस्याल्पमेधसो यस्यानश्नन्वसति ब्राह्मणो गृहे ।।१.१.८।।
आशा-प्रतीक्षे = अनिर्ज्ञात-प्राप्येष्टार्थ-प्रार्थना = आशा, निर्ज्ञात-प्राप्यार्थ-प्रतीक्षणं = प्रतीक्षा, ते आशा-प्रतीक्षे, संगतं = सत्संयोगजं फलम्, सूनृतां च = सूनृता हि = प्रिया वाक्, तन्निमित्तं च, इष्टापूर्ते = इष्टं = यागजं फलं[12], पूर्तम् = आरामादि-क्रियाजं फलम्, पुत्रपशूंश्च = पुत्रांश्च पशूंश्च सर्वान्, एतत् सर्वं यथोक्तं वृङ्क्ते = वर्जयति[13] = विनाशयतीत्येतत् । पुरुषस्य अल्प-मेधसः = अल्प-प्रज्ञस्य, यस्य अनश्नन् = अभुञ्जानो ब्राह्मणो गृहे वसति । तस्मादनुपेक्षणीयः सर्वावस्थास्वप्यतिथिरित्यर्थः ।।१.१.८।।
एवमुक्तो मृत्युरुवाच नचिकेतसमुपगम्य पूजा-पुरःसरम् ---
तिस्रो रात्रीर्यदवात्सीर्गृहे मेऽनश्नन् ब्रह्मन्नतिथिर्नमस्यः  ।
नमस्तेऽस्तु ब्रह्मन् स्वस्ति मेऽस्तु तस्मात्प्रति त्रीन्वरान्वृणीष्व
।।१.१.९।।
तिस्रो[14] रात्रीः यत् = यस्मात् अवात्सीः = उषितवानसि, गृहे मे = मम अनश्नन् हे ब्रह्मन् अतिथिः[15] सन् नमस्यः = नमस्कारार्हश्च, तस्मात्[16] नमः ते[17] = तुभ्यम् अस्तु = भवतु । हे ब्रह्मन् स्वस्ति = भद्रं मे अस्तु[18]तस्मात् भवतोऽनशनेन[19] मद्गृहवास-निमित्ताद्दोषात् तत्प्राप्त्युपशमेन । यद्यपि भवदनुग्रहेण सर्वं मम स्वस्ति स्यात्, तथापि त्वदधिक-संप्रसादनार्थमनशनेनोषितामेकैकां रात्रिं प्रति त्रीन् वरान् वृणीष्व अभिप्रेतार्थ-विषयान्[20] प्रार्थयस्व मत्तः । ।१.१.९।।
नचिकेतास्त्वाह -- यदि दित्सुर्वरान् ---
शान्तसंकल्पः सुमना यथा स्याद् वीतमन्युर्गौतमो माऽभि मृत्यो  ।
त्वत्प्रसृष्टम् माऽभिवदेत्प्रतीत एतत् त्रयाणां प्रथमं वरं वृणे  । । १.१.१० । ।
शान्तसंकल्प उपशान्तः संकल्पो यस्य मां प्रति 'यमं प्राप्य किं नु करिष्यति मम पुत्रः' इति, [21] शान्तसंकल्पः सुमनाः प्रसन्नचित्तश्च[22] यथा स्यात् वीतमन्युः विगतरोषश्च गौतमः मम पिता मा अभि मां प्रति हे मृत्यो, किञ्च, त्वत्प्रसृष्टं त्वया विनिर्मुक्तं प्रेषितं गृहं प्रति मा माम् अभिवदेत् प्रतीतः लब्ध-स्मृतिः, 'स एवायं पुत्रो ममागतः' इत्येवं प्रत्यभिजानन्नित्यर्थः15एतत् प्रयोजनं त्रयाणां वराणां[23] प्रथमम् आद्यं वरं वृणे प्रार्थये यत्पितुः परितोषणम् । । १.१.१० । ।
मृत्युरुवाच
यथा पुरस्ताद् भविता प्रतीत
औद्दालकिरारुणिर्मत्प्रसृष्टः  ।
सुखँ रात्रीः शयिता वीतमन्युः
 त्वां ददृशिवान्मृत्युमुखात् प्रमुक्तम्  । । । । १.१.११ । ।
यथा बुद्धिः त्वयि पुरस्तात् = पूर्वम् आसीत्स्नेहसमन्विता पितुस्तव, भविता प्रीतिसमन्वितस्तव पिता तथैव प्रतीतः = प्रतीतवान्सन् । औद्दालकिः = उद्दालक व औद्दालकिः, अरुणस्यापत्यम् = आरुणिः द्व्यामुष्यायणो वा । मत्प्रसृष्टः = मयानुज्ञातः सन् उत्तरा[24] अपि रात्रीः सुखं = प्रसन्नमनाः शयिता = स्वप्ता वीतमन्युः = विगतमन्युश्च भविता स्यात्, त्वां = पुत्रं ददृशिवान् = दृष्टवान् सन् मृत्यु-मुखात् = मृत्यु-गोचरात् प्रमुक्तं सन्तम् । ।१.१.११ । ।
नचिकेता उवाच
स्वर्गे लोके न भयं किंचनास्ति न तत्र त्वं न जरया बिभेति  ।
उभे तीर्त्वाऽशनायापिपासे शोकातिगो मोदते स्वर्गलोके  । । १.१.१२ । । 
स्वर्गे लोके रोगादि-निमित्तं भयं किंचन = किंचिदपि नास्तितत्र त्वं मृत्यो सहसा प्रभवसि, अतो जरया युक्त इह लोक इव[25] त्वत्तो न बिभेति कश्चित्तत्र[26] । किं च उभे अशनाया,पिपासे तीर्त्वा = अतिक्रम्य शोकमतीत्य गच्छतीति शोकातिगः सन् मानसेन दुःखेन वर्जितः मोदते हृष्यति स्वर्गलोके दिवि[27] ।।१.१.१२ । ।
स त्वमग्निóè स्वर्ग्यमध्येषि मृत्यो
प्रब्रूहि त्वóè श्रद्दधानाय मह्यम् ।
स्वर्गलोका अमृतत्वं भजन्त
एतद् द्वितीयेन वृणे वरेण ।। १.१.१३।।
एवंगुण-विशिष्टस्य स्वर्ग-लोकस्य प्राप्ति-साधन-भूतम् अग्निं स्वर्ग्यं स त्वं मृत्युः अध्येषि = स्मरसि = जानासीत्यर्थः । हे मृत्यो, यतः तं प्रब्रूहि = कथय श्रद्दधानाय = श्रद्धावते मह्यं स्वर्गार्थिने । येनाग्निना चितेन स्वर्गलोकाः स्वर्गो लोको येषां ते स्वर्गलोकाः = यजमानाः अमृतत्वम् = अमरणतां = देवत्वं भजन्ते = प्राप्नुवन्ति, तत् एतत् अग्निविज्ञानं द्वितीयेन वरेण वृणे । ।।। १.१.१३।।
मृत्योः प्रतिज्ञेयम् ---
प्र ते ब्रवीमि तदु मे निबोध
स्वर्ग्यमग्निं नचिकेतः प्रजानन् ।
अनन्तलोकाप्तिमथो प्रतिष्ठां
विद्धि त्वमेतं निहितं गुहायाम् ।। १.१.१४।।
ते[28] = तुभ्यं प्रब्रवीमि; यत्त्वया प्रार्थितं तत् उ मे = मम वचसः निबोध = बुध्यस्व एकाग्रमनाः सन् । स्वर्ग्यं = स्वर्गाय हितं = स्वर्ग-साधनम् अग्निं हे नचिकेतः प्रजानन् = विज्ञातवान्सन्नहमित्यर्थः[29] । प्रब्रवीमि तन्निबोधेति च शिष्य-बुद्धि-समाधानार्थं वचनम् ।
अधुनाग्निं स्तौति -- अनन्तलोकाप्तिं = स्वर्ग-लोक-फल-प्राप्ति-साधनमित्येतत्, अथो अपि प्रतिष्ठाम् = आश्रयं जगतो विराट्स्वरूपेण[30], तम् एतम् अग्निं मयोच्यमानं विद्धि = विजानीहि[31] त्वं निहितं = स्थितं गुहायाम् । विदुषां बुद्धौ निविष्टमित्यर्थः । ।।। १.१.१४।।
इदं श्रुतेर्वचनम् ---
लोकादिमग्निं तमुवाच तस्मै
या इष्टका यावतीर्वा यथा वा ।
स चापि तत्प्रत्यवदद्यथोक्तं
अथास्य मृत्युः पुनरेवाह तुष्टः ।।१.१.१५।।
लोकादिं = लोकानामादिं प्रथम-शरीरित्वात् = अग्निं तं प्रकृतं नचिकेतसा प्रार्थितम् उवाच = उक्तवान्मृत्युः तस्मै = नचिकेतसे । किं च, याः इष्टकाः चेतव्याः स्वरूपेण यावतीर्वा संख्यया यथा वा चीयतेऽग्निर्येन प्रकारेण सर्वमेतदुक्तवानित्यर्थः । स चापि नचिकेताः तत् मृत्युनोक्तं प्रत्यवदत्[32] यथावत्प्रत्ययेनावदत् प्रत्युच्चारितवान् । अथ अस्य प्रत्युच्चारणेन तुष्टः सन् मृत्युः पुनरेवाह वर-त्रय-व्यतिरेकेणान्यं वरं दित्सुः । ।१.१.१५।।
कथम् ?
तमब्रवीत् प्रीयमाणो महात्मा
वरं तवेहाद्य ददामि भूयः ।
तवैव नाम्ना भवितायमग्निः
सृङ्कां चेमामनेकरूपां गृहाण ।।१.१.१६।।
तं = नचिकेतसम् अब्रवीत् प्रीयमाणः शिष्यस्य योग्यतां[33] पश्यन्प्रीयमाणः = प्रीतिमनुभवन् महात्मा अक्षुद्र-बुद्धिः वरं तव चतुर्थम् इह प्रीतिनिमित्तम् अद्य = इदानीं ददामि भूयः = पुनः प्रयच्छामि । तवैव नचिकेतसः नाम्ना = अभिधानेन प्रसिद्धः भविता मयोच्यमानः अयम् अग्निः । किञ्च, सृङ्कां = शब्दवतीं रत्नमयीं मालाम् इमाम् अनेकरूपां = विचित्रां गृहाण = स्वीकुरु । यद्वा, सृङ्काम् अकुत्सितां गतिं कर्ममयीं गृहाण । अन्यदपि कर्म-विज्ञानमनेक-फल-हेतुत्वात्स्वीकुर्वित्यर्थः । ।१.१.१६।।
पुनरपि कर्मस्तुतिमेवाह --
त्रिणाचिकेतस्त्रिभिरेत्य सन्धिं
त्रिकर्मकृत्तरति जन्ममृत्यू ।
ब्रह्मजज्ञं देवमीड्यं विदित्वा
निचाय्येमाóè शान्तिमत्यन्तमेति ।।१.१.१७।।
त्रिणाचिकेतः त्रिः कृत्वा नाचिकेतोऽग्निश्चितो[34] येन स त्रिणाचिकेतः; तद्विज्ञानवान्वा[35]त्रिभिः मातृपित्राचार्यैः एत्य प्राप्य सन्धिं = सन्धानं = सम्बन्धम्, मात्राद्यनुशासनं यथावत्प्राप्येत्येतत् । तद्धि प्रामाण्य-कारणं श्रुत्यन्तरादवगम्यते । 'यथा मातृमान्पितृमानाचार्यवान्ब्रूयात्' (बृ.उ. ४।१।२) इत्यादेः । वेद-स्मृति-शिष्टैर्वा प्रत्यक्षानुमानागमैर्वा । तेभ्यो हि विशुद्धिः प्रत्यक्षा । त्रिकर्मकृत् इज्याध्ययन-दानानां कर्ता तरति अतिक्रामति जन्म-मृत्यू । किंच, ब्रह्मजज्ञम्, ब्रह्मणो = हिरण्यगर्भाज्जातो ब्रह्मजः ब्रह्मजश्चासौ ज्ञश्चेति ब्रह्मजज्ञः । सर्वज्ञो ह्यसौ । तं देवं = द्योतनाज्ज्ञानादि-गुणवन्तम्, ईड्यं = स्तुत्यं विदित्वा शास्त्रतः, निचाय्य = दृष्ट्वा चात्मभावेन इमां = स्वबुद्धिप्रत्यक्षां शान्तिम् = उपरतिम् अत्यन्तम् एति = अतिशयेनैति । वैराजं पदं ज्ञान-कर्म-समुच्चयानुष्ठानेन प्राप्नोतीत्यर्थः । ।१.१.१७।।
इदानीमग्नि-विज्ञान-चयन-फलमुपसंहरति, प्रकरणं च ---
त्रिणाचिकेतस्त्रयमेतद्विदित्वा
य एवं विद्वाóèश्चिनुते नाचिकेतम् ।
स मृत्युपाशान् पुरतः प्रणोद्य
शोकातिगो मोदते स्वर्गलोके ।। १.१.१८।।
त्रिणाचिकेतः त्रयं यथोक्तम् 'या इष्टका यावतीर्वा यथा वा' इति । एतत् विदित्वा = अवगम्य यः एवम् आत्म-स्वरूपेण[36] अग्निं विद्वान् चिनुते = निर्वर्तयति नाचिकेतम् अग्निं क्रतुम्, स मृत्यु-पाशान् अधर्माज्ञान-राग-द्वेषादि-लक्षणान् पुरतः = अग्रतः, पूर्वमेव शरीर-पातादित्यर्थः, प्रणोद्य = अपहाय, शोकातिगः मानसैर्दुःखैर्विगत[37] इत्येतत्, मोदते स्वर्ग-लोके वैराजे विराडात्म-स्वरूप-प्रतिपत्त्या ।। १.१.१८।।
एष तेऽग्निर्नचिकेतः स्वर्ग्यो
यमवृणीथा द्वितीयेन वरेण ।
एतमग्निं तवैव प्रवक्ष्यन्ति जनासः
तृतीयं वरं नचिकेतो वृणीष्व ।। १.१.१९ ।।
एष ते तुभ्यम् अग्निः वरः हे नचिकेतः, स्वर्ग्यः स्वर्ग-साधनः, यम् अग्निं वरम् अवृणीथाः = वृतवान्[38] = प्रार्थितवानसि द्वितीयेन वरेण, सोऽग्निर्वरो दत्त इत्युक्तोपसंहारः । किञ्च, एतम् अग्निं तवैव नाम्ना प्रवक्ष्यन्ति जनासः = जना इत्येतत् । एष वरो दत्तो मया चतुर्थस्तुष्टेन । तृतीयं वरं नचिकेतः वृणीष्व । तस्मिन्ह्यदत्त ऋणवानेवाहमित्यभिप्रायः[39] । ।१.१.१९।।
एतावद्ध्यतिक्रान्तेन विधि-प्रतिषेधार्थेन मन्त्र-ब्राह्मणेनावगन्तव्यं यद्वरद्वय-सूचितं वस्तु । नात्म-तत्त्व-विषय-याथात्म्य-विज्ञानम् । अतो विधि-प्रतिषेधार्थ-विषयस्य आत्मनि क्रिया-कारक-फलाध्यारोपण-लक्षणस्य स्वाभाविकस्याज्ञानस्य संसार-बीजस्य निवृत्त्यर्थं तद्विपरीत-ब्रह्मात्मैकत्व-विज्ञानं क्रिया-कारक-फलाध्यारोपण[40]-शून्यमात्यन्तिक-निःश्रेयस-प्रयोजनं वक्तव्यमित्युत्तरो ग्रन्थ आरभ्यते । तमेतमर्थं द्वितीय-वर-प्राप्त्याप्यकृतार्थत्वं तृतीय-वर-गोचरम् आत्मज्ञानम् अन्तरेण इत्याख्यायिकया प्रपञ्चयति । यतः पूर्वस्मात् कर्म-गोचरात् साध्य-साधन-लक्षणात् अनित्यात् विरक्तस्यात्मज्ञानेऽधिकार इति तन्निन्दार्थं पुत्राद्युपन्यासेन प्रलोभनं क्रियते ।
नचिकेता उवाच 'तृतीयं वरं नचिकेतो वृणीष्व' इत्युक्तः सन् ---
येयं प्रेते विचिकित्सा मनुष्ये-
ऽस्तीत्येके नायमस्तीति चैके ।
एतद्विद्यामनुशिष्टस्त्वयाऽहं
वराणामेष वरस्तृतीयः ।।१.१.२०।।
येयं विचिकित्सा = संशयः प्रेते = मृते मनुष्ये, अस्ति इत्येके अस्ति शरीरेन्द्रिय-मनोबुद्धि-व्यतिरिक्तो देहान्तर-संबन्ध्यात्मा इत्येके मन्यन्ते[41], नायमस्ति इति चैके नायमेवंविधोऽस्तीति चैके । अत्र[42] चास्माकं न प्रत्यक्षेण, नाप्यनुमानेन[43] निर्णयविज्ञानम् । एतद्विज्ञानाधीनो हि परः पुरुषार्थ इत्यतः एतत् विद्यां विजानीयाम् अहम् अनुशिष्टः = ज्ञापितः त्वयावराणामेष वरस्तृतीयोऽवशिष्टः । ।१.१.२०।।
किमयमेकान्ततो निःश्रेयस-साधनात्मज्ञानार्हो न वेत्येतत्परीक्षणार्थमाह ---
देवैरत्रापि विचिकित्सितं पुरा
न हि सुविज्ञेयमणुरेष धर्मः ।
अन्यं वरं नचिकेतो वृणीष्व
मा मोपरोत्सीरति मा सृजैनम् ।। १.१.२१।।
देवैरपि अत्र = एतस्मिन्वस्तुनि विचिकित्सितं = संशयितं पुरा = पूर्वम् । न हि सुविज्ञेयं = सुष्ठु विज्ञेयम्[44] असकृच्छ्रुतमपि[45] प्राकृतैर्जनैः, यतः अणुः = सूक्ष्म एष आत्माख्यः धर्मः । अतः अन्यम् = असंदिग्धफलं वरं नचिकेतः, वृणीष्वमा = मां मा उपरोत्सीः = उपरोधं मा कार्षीः = अधमर्णमिवोत्तमर्णः । अतिसृज = विमुञ्च एनं = वरं मा = मां प्रति ।। १.१.२१।।
एवमुक्तो नचिकेता आह[46]
देवैरत्रापि विचिकित्सितं किल
त्वं च मृत्यो यन्न सुज्ञेयमात्थ ।
वक्ता चास्य त्वादृगन्यो न लभ्यो
नान्यो वरस्तुल्य एतस्य कश्चित् ।। १.१.२२।।
देवैरत्रापि[47] विचिकित्सितं किल इति भवत एव नः श्रुतम् । त्वं च मृत्यो, यत् = यस्मात् न सुज्ञेयम् आत्मतत्त्वम् आत्थ = कथयसि । अतः पण्डितैरप्यवेदनीयत्वात् वक्ता च अस्य = धर्मस्य त्वादृक् = त्वत्तुल्यः अन्यः पण्डितश्च न लभ्यः अन्विष्यमाणोऽपि । अयं तु वरो निःश्रेयस-प्राप्ति-हेतुः । अतः न अन्यः वरः तुल्यः सदृशः अस्ति एतस्य कश्चित् अपि । अनित्य-फलत्वादन्यस्य सर्वस्यैवेत्यभिप्रायः । ।१.१.२२।।
एवमुक्तोऽपि पुनः प्रलोभयन्नुवाच मृत्युः ---
शतायुषः पुत्रपौत्रान्वृणीष्व
बहून्पशून् हस्तिहिरण्यमश्वान् ।
भूमेर्महदायतनं वृणीष्व
स्वयं च जीव शरदो यावदिच्छसि ।। १.१.२३।।
शतायुषः = शतं वर्षाणि आयूंषि येषां तान् शतायुषः पुत्र-पौत्रान् वृणीष्व । किंच, गवादि-लक्षणान् बहून् पशून् हस्ति-हिरण्यम्, हस्ती च हिरण्यं च हस्ति-हिरण्यम्, अश्वान् च । किञ्च, भूमेः = पृथिव्याः महत् = विस्तीर्णम् आयतनम् = आश्रयं = मण्डलं = साम्राज्यं[48] वृणीष्व । किञ्च, सर्वमप्येतदनर्थकं स्वयं चेदल्पायुरित्यत आह -- स्वयं च त्वं जीव = धारय शरीरं समग्रेन्द्रियकलापं शरदः = वर्षाणि यावत् इच्छसि जीवितुम् ।। १.१.२३।।
एतत्तुल्यं यदि मन्यसे वरं
वृणीष्व वित्तं चिरजीविकां च ।
महाभूमौ नचिकेतस्त्वमेधि
कामानां त्वा कामभाजं करोमि ।। १.१.२४।।
एतत्तुल्यम् = एतेन = यथोपदिष्टेन सदृशम् अन्यमपि यदि मन्यसे वरम्, तमपि वृणीष्व । किंच, वित्तं = प्रभूतं हिरण्य-रत्नादि चिरजीविकां च सह वित्तेन वृणीष्वेत्येतत् । किं बहुना? महाभूमौ = महत्यां भूमौ राजा नचिकेतः त्वम् एधि = भव । किञ्चान्यत्, कामानां दिव्यानां, मानुषाणां च त्वा = त्वां काम-भाजं = काम-भागिनं = कामार्हं करोमि, सत्य-संकल्पो ह्यहं देवः ।। १.१.२४।।
ये ये कामा दुर्लभा मर्त्यलोके
सर्वान् कामाóèश्छन्दतः प्रार्थयस्व ।
इमा रामाः सरथाः सतूर्या
न हीदृशा लम्भनीया[49] मनुष्यैः ।
आभिर्मत्प्रत्ताभिः परिचारयस्व
नचिकेतो मरणं माऽनुप्राक्षीः ।। १.१.२५।।
ये ये कामाः = प्रार्थनीया दुर्लभाः च मर्त्यलोके, सर्वान् तान् कामान् छन्दतः = इच्छातः प्रार्थयस्व । किञ्च, इमाः = दिव्या अप्सरसः, रमयन्ति पुरुषानिति रामाः, सह रथैर्वर्तन्त इति = सरथाः, सतूर्याः = सवादित्राः, ताश्च न हि लम्भनीयाः = प्रापणीयाः ईदृशाः = एवंविधा मनुष्यैः = मर्त्यैः अस्मदादि-प्रसादमन्तरेण । आभिः मत्प्रत्ताभिः = मया प्रदत्ताभिः = परिचारिकाभिः[50] परिचारयस्व आत्मानम्, पाद-प्रक्षालनादि-शुश्रूषां कारयात्मन इत्यर्थः । हे नचिकेतः, मरणं = मरण-संबद्धं प्रश्नं प्रेत्यास्ति[51] नास्तीति काक-दन्त-परीक्षारूपं मा अनुप्राक्षीः मैवं प्रष्टुमर्हसि । ।१.१.२५।।
मृत्युना[52] एवं प्रलोभ्यमानोऽपि नचिकेता महाह्रदवदक्षोभ्य आह ---
श्वोभावा मर्त्यस्य यदन्तकैतत्
सर्वेन्द्रियाणां जरयन्ति तेजः ।
अपि सर्वं जीवितमल्पमेव
तवैव वाहास्तव नृत्यगीते  ।। १.१.२६।।
श्वो भविष्यन्ति, न वेति[53] संदिह्यमान एव येषां भावो भवनं त्वयोपन्यस्तानां भोगानां ते श्वोभावाः । किञ्च, मर्त्यस्य = मनुष्यस्य अन्तक = हे मृत्यो, यत् एतत् सर्वेन्द्रियाणां तेजः तत् जरयन्ति = अपक्षपयन्ति[54] । अप्सरःप्रभृतयो भोगा अनर्थायैवैते, धर्म-वीर्य-प्रज्ञा-तेजो-यशः-प्रभृतीनां क्षपयितृत्वात् । यां चापि दीर्घ-जीविकां त्वं दित्ससि तत्रापि श्रृणु । सर्वं यद्ब्रह्मणोऽपि जीवितम् आयुः अल्पमेव, किमुतास्मदादि-दीर्घ-जीविका । अतः तवैव तिष्ठन्तु वाहा रथादयः, तथा तव नृत्यगीते च । ।१.१.२६।।
किञ्च ---
न वित्तेन तर्पणीयो मनुष्यो
लप्स्यामहे वित्तमद्राक्ष्म चेत्त्वा ।
जीविष्यामो यावदीशिष्यसि त्वं
वरस्तु मे वरणीयः स एव ।। १.१.२७।।
प्रभूतेन वित्तेन तर्पणीयो मनुष्यः । न हि लोके वित्तलाभः कस्यचित्तृप्तिकारो[55] दृष्टः । यदि नामास्माकं वित्त-तृष्णा स्यात्, लप्स्यामहे = प्राप्स्यामहे[56] वित्तम्, अद्राक्ष्म = दृष्टवन्तो वयं चेत् त्वा = त्वाम् । जीवितमपि[57] तथैव -- जीविष्यामः यावत् याम्ये पदे त्वम् ईशिष्यसि = ईशिष्यसे प्रभुः स्याः । कथं हि मर्त्यस्त्वया समेत्याल्पधनायुर्भवेत्? वरस्तु मे वरणीयः स व यदात्मविज्ञानम् ।। १.१.२७।।
यतश्च ---
अजीर्यताममृतानामुपेत्य
जीर्यन्मर्त्यः क्वधःस्थः प्रजानन् ।
अभिध्यायन् वर्णरतिप्रमोदान्
अतिदीर्घे जीविते को रमेत ।। ।। १.१.२८।।
अजीर्यतां = वयोहानिमप्राप्नुवताम् अमृतानां सकाशम् उपेत्य = उपगम्य आत्मन उत्कृष्टं प्रयोजनान्तरं प्राप्तव्यं तेभ्यः प्रजानन् उपलभमानः स्वयं तु जीर्यन् मर्त्यः जरा-मरणवान् क्वधःस्थः कुः = पृथिवी अधश्चासौ[58] अन्तरिक्षादि-लोकापेक्षया तस्यां तिष्ठतीति क्वधःस्थः सन् कथमेवमविवेकिभिः प्रार्थनीयं पुत्र-वित्ताद्यस्थिरं वृणीते ।
'क्व तदास्थः' इति वा पाठान्तरम् । अस्मिन्पक्षे चैवम्[59] अक्षरयोजना । तेषु पुत्रादिषु आस्था आस्थितिः तात्पर्येण वर्तनं यस्य स तदास्थः । ततोऽधिकतरं पुरुषार्थं दुष्प्रापमपि अभिप्रेप्सुः क्व तदास्थो भवेत्? न कश्चित्तदसारज्ञस्तदर्थी स्यादित्यर्थः । सर्वो ह्युपर्युपर्येव बुभूषति लोकः । तस्मान्न पुत्र-वित्तादि-लोभैः प्रलोभ्योऽहम् । किं च, अप्सरःप्रमुखान् वर्णरतिप्रमोदान् अनवस्थितरूपतया अभिध्यायन् = निरूपयन् यथावत् अतिदीर्घे जीविते कः विवेकी रमेत । ।१.१.२८।।
अतो विहायानित्यैः कामैः प्रलोभनम्, यन्मया प्रार्थितं ---
यस्मिन्निदं विचिकित्सन्ति मृत्यो
यत्साम्पराये महति ब्रूहि नस्तत् ।
योऽयं वरो गूढमनुप्रविष्टो
नान्यं तस्मान्नचिकेता वृणीते ।। ।। १.१.२९।।
यस्मिन् प्रेते इदं विचिकित्सनं = विचिकित्सन्ति अस्ति नास्तीत्येवं-प्रकारं हे मृत्यो, साम्पराये = परलोकविषये महति = महत्प्रयोजन-निमित्ते आत्मनो निर्णय-विज्ञानं यत्, तत् ब्रूहि = कथय नः अस्मभ्यम् । किं बहुना, योऽयं प्रकृत आत्मविषयः वरः गूढं = गहनं दुर्विवेचनं प्राप्तः अनुप्रविष्टः, तस्मात् वरात् अन्यम् अविवेकिभिः प्रार्थनीयमनित्य-विषयं वरं नचिकेताः न वृणीते मनसापि इति श्रुतेर्वचनमिति ।।१.१.२९।।
इति श्रीमत्परमहंस-परिव्राजकाचार्य-गोविन्द-भगवत्पूज्यपाद-शिष्य-श्रीमदाचार्य-श्रीशङ्कर-भगवतः कृतौ कठोपनिषद्भाष्ये प्रथमाध्याये प्रथमवल्लीभाष्यम् समाप्तम् ।।



[1] सः वाजश्रवसः – केनचित् पाठे नास्ति ।
[2] जनन - इत्यपि पाठः ।
[3] पीतोदकाः इत्यादिना - केनचित् पाठे नास्ति ।
[4] अप्रजननसमर्ता – इत्यपि पाठः ।
[5] मया पुत्रेण सता निवारणीयमात्मप्रदानेनापि – इत्यपि पाठम् ।
[6] मत्वा – इत्यपि पाठम् ।
[7] प्रत्तेन – इत्यपि पाठम् । एतत् रूपम् - अच उपसर्गात्तः । 7.4.47. प्रदत्तेन इति महाभाष्ये प्रयोगमस्ति । कृदन्त-रूपमालायाम् (830. दाञ् – दाने) एतत् सङ्खेतम् (पृष्ठसङ्ख्या 732, टिप्पणि 11) अस्ति ।
[8] निभालय – इत्यपि पाठम् ।
[9] तांश्च प्रतिपश्यालोचय तथा – इत्यपि पाठम् ।
[10] तेषु – इत्यपि पाठम् ।
[11] मृषा – इत्यपि पाठम् ।
[12] फलम् – इति केचन पाठे नास्ति ।
[13] आवर्जयति – इत्यपि पाठम् ।
[14] स सजुषोः रुः । 8.2.66 + हशि च । 6.1.114 + आत् गुणः । 6.1.87.
[15] ङमो ह्रस्वात् ङमुण्नित्यम् । 8.3.32.
[16] झलाञ्जशोऽन्ते । 8.2.39 +  यरोऽनुनासिकेऽनुनासिके वा । 8.4.45.
[17] स सजुषोः रुः । 8.2.66 + स्तोः श्चुना श्चुः । 8.4.40
[18] एङः पदान्तादति । 6.1.109.
[19] स सजुषोः रुः । 8.2.66 + अतो रोः अप्लुतात् अप्लुते । 6.1.113 + आत् गुणः । 6.1.87 + एङः पदान्तादति । 6.1.109
[20] विशेषान् – इत्यपि पाठम् ।
[21] एतत्तदोः सुलोपः अकोः अनञ्समासे हलि । 6.1.132.
[22] प्रसन्नमनाश्च – इति पाठान्तरम् ।
[23] वराणाम् – इति केचन पाठे नास्ति ।
[24] इतरा – इत्यपि पाठम् ।
[25] लोकवत् – इति पाठान्तरम् ।
[26] कुतश्चित्तत्र – इति पाठभेदः ।
[27] दिव्ये – इत्यपि पाठम् ।
[28] प्र ते – इत्यपि पाठम् ।
[29] विज्ञातवानहं सन्नित्यर्थः – इत्यपि पाठम् ।
[30] विराड् रूपेण – इति पाठान्तरम् ।
[31] जानीहि – इति पाठभेदम् ।
[32] प्रत्यवदत् – इति केचन पाठे नास्ति ।
[33] शिष्ययोग्यताम् – इति पाठान्तरम् ।
[34] कृत्वाग्निषश्चितो/ कृत्वो नाचिकेतोग्निश्चितो – इत्यपि पाठानि ।
[35] तत्विज्ञातस्तदध्ययनस्तदनुष्ठानवान्वा – इत्यपि पाठम् ।
[36] आत्मरूपेण –इत्यपि पाठम् ।
[37] वर्जित – इत्यपि पाठम् ।
[38] वृतवान् – इति अन्यपाठे नास्ति ।
[39] ऋणवानहमित्यभिप्रायः – इत्यपि पाठम् ।
[40] अध्यारोपणलक्षण – इति पाठान्तरम् ।
[41] मन्यन्ते – इति अन्यत्रपाठे नास्ति ।
[42] अतः – इति पाठान्तरम् ।
[43] नापि वानुमानेन – इति पाठान्तरम् ।
[44] सुज्ञेयं सुष्ठु ज्ञेयं – इति पाठान्तरम् ।
[45] असकृत् - इति अन्यत्रपाठे नास्ति ।
[46] एतत् अन्यत्रपाठे नास्ति ।
[47] देवैरत्राप्येतस्मिन्वस्तुनि - इति पाठान्तरम् ।
[48] राज्यम् – इत्यपि पाठम् अस्ति ।
[49] लभ्यनीया – इति पाठान्तरम् ।
[50] परिचारिणीभिः – इति पाठान्तरम् ।
[51] प्रेतेऽस्ति – इति पाठान्तरम् ।
[52] मृत्युना – इति केचन पाठे नास्ति ।
[53] भविष्यन्ति वेति – इति पाठान्तरम् ।
[54] अपक्षयन्ति – इति पाठान्तरम् ।
[55] तृप्तिकरो – इति पाठान्तरम् ।
[56] प्राप्स्यामहे इत्येतत् – इत्यपि पाठम् ।
[57] जीवितेऽपि – इत्यपि पाठम् ।
[58] अधश्च – इति पाठान्तरम् ।
[59] च – इति पाठान्तरम् ।

2 comments:

  1. Thank you very much Swamiji for typing up the Bhashyam for Kathopanishad.

    ReplyDelete
  2. thank youji for visiting and going through. We make a pardon for some mistakes. Eventually we will try to correct it.

    ReplyDelete