Saturday, October 19, 2013

॥काठकोपनिषत् – वल्ली - 2॥॥ प्रथमोऽध्यायः ॥ ॥ द्वितीया वल्ली ॥


॥काठकोपनिषत् – वल्ली - 2॥
श्रीमच्छंकरभगवत्पादविरचितेन भाष्येण सहिता।

॥ प्रथमोऽध्यायः ॥

॥ द्वितीया वल्ली ॥

परीक्ष्य शिष्यं विद्या-योग्यतां चावगम्याह ---
अन्यच्छ्रेयोऽन्यदुतैव प्रेयस्ते उभे नानार्थे पुरुषँ सिनीतः ।
तयोः श्रेय आददानस्य साधु भवति
हीयतेऽर्थाद्य उ प्रेयो वृणीते ..
अन्यत् = पृथगेव श्रेयः = निःश्रेयसं [1]तथा अन्यत् उतैव अपि च प्रेयः = प्रियतरमपि । ते = श्रेयःप्रेयसी उभे नानार्थे = भिन्नप्रयोजने सती पुरुषम् = अधिकृतं वर्णाश्रमादि-विशिष्टं सिनीतः = बध्नीतः । ताभ्यां [2]विद्याविद्याभ्याम् आत्म-कर्तव्यतया प्रयुज्यते सर्वः पुरुषः । प्रेयःश्रेयसोर्हि अभ्युदयामृतत्वार्थी पुरुषः प्रवर्तते । अतः श्रेयःप्रेयःप्रयोजन-कर्तव्यतया ताभ्यां बद्ध इत्युच्यते सर्वः पुरुषः ।
ते यद्यप्येकैक-पुरुषार्थ-संबन्धिनी विद्याविद्या-रूपत्वाद्विरुद्धे इत्यन्यतरापरित्यागेनैकेन पुरुषेण सहानुष्ठातुमशक्यत्वात्तयोः हित्वा अविद्यारूपं प्रेयः, श्रेय एव केवलम् आददानस्य = उपादानं कुवर्तः साधु = शोभनं = शिवं भवति । यस्त्वदूरदर्शी विमूढो हीयते = वियुज्यते [3]अर्थात् पुरुषार्थात्
प्रयोजनान्नित्यात् प्रच्यवत इत्यर्थः । कोऽसौ ? य उ प्रेयः वृणीते = उपादत्त इत्येतत् ॥ १.२.१ ॥
यद्युभे अपि कर्तुं स्वायत्ते पुरुषेण, किमर्थं प्रेय एवादत्ते बाहुल्येन लोक इति, उच्यते ---
श्रेयश्च प्रेयश्च मनुष्यमेतस्तौ सम्परीत्य विविनक्ति धीरः ।
श्रेयो हि धीरोऽभि प्रेयसो वृणीते
 प्रेयो मन्दो योगक्षेमाद्वृणीते ॥ ..
सत्यं स्वायत्ते तथापि साधनतः, फलतश्च मन्द-बुद्धीनां दुर्विवेक-रूपे सती, व्यामिश्रीभूते इव मनुष्यं = पुरुषम् आ इतः = एतः = [4]प्राप्नुतः श्रेयश्च प्रेयश्च । अतो हंस इवाम्भसः पयः, तौ = श्रेयः-प्रेय-पदार्थौ संपरीत्य = सम्यक्परिगम्य = मनसा आलोच्य गुरुलाघवं विविनक्ति = पृथक्करोति धीरः = धीमान् । विविच्य च श्रेयो हि श्रेय एव अभिवृणीते [5]प्रेयसोऽभ्यर्हितत्वाच्छ्रेयसः । कोऽसौ ? धीरः
यस्तु मन्दः = अल्प-बुद्धिः स [6]सदसद्विवेकासामर्थ्यात् योग-क्षेमात् = योग-क्षेम-निमित्तं शरीराद्युपचय-रक्षण-निमित्तमित्येतत् । प्रेयः = पशु-पुत्रादि-लक्षणं वृणीते ॥ १.२. २ ॥
स त्वं प्रियान्प्रियरूपाóèश्च कामान्
अभिध्यायन्नचिकेतोऽत्यस्राक्षीः ।
नैतां सृङ्कां वित्तमयीमवाप्तो
यस्यां मज्जन्ति बहवो मनुष्याः ॥ ..३ ॥
स त्वं पुनः पुनः मया प्रलोभ्यमानोऽपि प्रियान् = पुत्रादीन् प्रियरूपांश्च अप्सरःप्रभृति-लक्षणान् कामान् अभिध्यायन् = चिन्तयन् तेषाम् अनित्यत्व-असारत्वादि-दोषान् हे नचिकेतः, अत्यस्राक्षीः = अतिसृष्टवान् = परित्यक्तवानसि; अहो बुद्धिमत्ता तव । न एताम् अवाप्तवानसि सृङ्कां सृतिं कुत्सितां मूढ-जन-प्रवृत्तां वित्तमयीं = धन-प्रायाम् । यस्यां = सृतौ मज्जन्ति = सीदन्ति बहवः = अनेके मूढा मनुष्याः॥ १.२.३ ॥
'तयोः श्रेय आददानस्य साधु भवति हीयतेऽर्थाद्य उ प्रेयो वृणीते' इति [7]ह्युक्तम्; तत्कस्मात्? यतः ---
दूरमेते विपरीते विषूची अविद्या या च विद्येति ज्ञाता ।
विद्याभीप्सिनं नचिकेतसं मन्ये
न त्वा कामा बहवोऽलोलुपन्त ॥ ..४ ॥
दूरं = दूरेण महतान्तरेण ते विपरीते = अन्योन्य-व्यावृत्त-रूपे विवेकाविवेकात्मकत्वात् तमः-प्रकाशाविव विषूची = विषूच्यौ = नानागती = भिन्नफले संसार-मोक्ष-हेतुत्वेनेत्येतत् । के ते इति, उच्यते । या च अविद्या = प्रेयोविषया विद्येति= श्रेयोविषया ज्ञाता = निर्ज्ञाता = अवगता पण्डितैः । तत्र विद्याभीप्सिनं = विद्यार्थिनं नचिकेतसं त्वामहं मन्ये । कस्मात्? यस्मादविद्वद्बुद्धि-प्रलोभिनः कामाः = अप्सरःप्रभृतयः बहवोऽपि त्वा = त्वां न अलोलुपन्त = न विच्छेदं कृतवन्तः श्रेयोमार्गादात्मोपभोगाभिवाञ्छा-संपादनेन। अतो विद्यार्थिनं श्रेयोभाजनं मन्ये इत्यभिप्रायः ॥ १.२.४ ॥
ये तु [8]संसारभाजो जनाः ---
अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितंमन्यमानाः ।
दन्द्रम्यमाणाः परियन्ति मूढा
अन्धेनैव नीयमाना यथान्धाः ॥ १..५ ॥
अविद्यायाम् अन्तरे = मध्ये घनीभूत इव तमसि वर्तमानाः = वेष्ट्यमानाः पुत्र-पश्वादि-तृष्णा-पाश-शतैः । स्वयं धीराः = प्रज्ञावन्तः पण्डिताः = शास्त्रकुशलाश्चेति मन्यमानाः ते दन्द्रम्यमाणाः = अत्यर्थं कुटिलामनेक-रूपां गतिं गच्छन्तो जरा-मरण-रोगादि-दुःखैः परियन्ति = परिगच्छन्ति मूढाः = अविवेकिनः अन्धेनैव = [9]दृष्टि-विकलेनैव नीयमाना विषमे पथि यथा बहवः अन्धा महान्तमनर्थमृच्छन्ति, तद्वत् ॥ १.२.५॥
अत एव मूढत्वात् ---
न साम्परायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम् ।
अयं लोको नास्ति पर इति मानी पुनः पुनर्वशमापद्यते मे ॥ १..६ ॥
न साम्परायः प्रतिभाति सम्परेयत इति सम्परायः = पर-लोकः, तत्प्राप्ति-प्रयोजनः साधन-विशेषः शास्त्रीयः साम्परायः । स च बालम् = अविवेकिनं प्रति न प्रतिभाति = न प्रकाशते = नोपतिष्ठत इत्येतत् ।
प्रमाद्यन्तं = प्रमादं कुर्वन्तं पुत्र-पश्वादि-प्रयोजनेष्वासक्त-मनसं तथा वित्तमोहेन = वित्त-निमित्तेनाविवेकेन मूढं = [10]तमसाच्छन्नम् । [11]स तु अयमेव लोकः योऽयं दृश्यमानः स्त्र्यन्न-पानादि-विशिष्टः नास्ति परः = अदृष्टो लोक इत्येवं मनन-शीलः = मानी पुनः पुनः जनित्वा वशम् = [12]अधीनताम् आपद्यते मे = मृत्योर्मम। जनन-मरणादि-लक्षण-दुःख-प्रबन्धारूढ एव भवतीत्यर्थः । [13]प्रायेण ह्येवंविध एव लोकः ॥ १.२.६ ॥
यस्तु श्रेयोर्थी [14]स सहस्रेषु कश्चिदेवात्मविद्भवति त्वद्विधो यस्मात् ---
श्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तोऽपि बहवो यं न विद्युः ।
आश्चर्यो वक्ता कुशलोऽस्य लब्धा
आश्चर्यो ज्ञाता कुशलानुशिष्टः ॥ १..७ ॥
श्रवणायापि = श्रवणार्थं श्रोतुमपि यः न लभ्य आत्मा बहुभिः = अनेकैः, श्रृण्वन्तोऽपि बहवः = अनेके अन्ये यम् = आत्मानं न विद्युः = न विदन्ति = अभागिनः असंस्कृतात्मानो न विजानीयुः । किं च, अस्य वक्तापि आश्चर्यः = अद्भुतवदेव, अनेकेषु कश्चिदेव भवति। तथा श्रुत्वापि अस्य = आत्मनः कुशलः = निपुण एवानेकेषु लब्धा कश्चिदेव भवति । यस्मात् आश्चर्यो ज्ञाता कश्चिदेव कुशलानुशिष्टः = कुशलेन निपुणेनाचार्येणानुशिष्टः सन् ॥ १.२.७ ॥
कस्मात् ? ---
न नरेणावरेण प्रोक्त एष सुविज्ञेयो बहुधा चिन्त्यमानः ।
अनन्यप्रोक्ते गतिरत्र नास्ति
अणीयान् ह्यतर्क्यमणुप्रमाणात् ॥ १..८॥
हि नरेण = मनुष्येण अवरेण प्रोक्तः अवरेण = हीनेन प्राकृतबुद्धिनेत्येतत्  उक्तः एष आत्मा यं त्वं मां पृच्छसि । न हि सुष्ठु सम्यक् विज्ञेयः = विज्ञातुं शक्यो यस्मात् बहुधा अस्ति-नास्ति, कर्ताकर्ता, शुद्धोऽशुद्ध इत्याद्यनेकधा चिन्त्यमानो वादिभिः ।
विद्योपलब्धौ दैशिकादेशस्य प्राधान्यम्
कथं पुनः सुविज्ञेय इति, उच्यते --- अनन्यप्रोक्ते = अनन्येन अपृथग्दर्शिनाचार्येण प्रतिपाद्य-ब्रह्मात्मभूतेन प्रोक्त उक्त आत्मनि गतिः = अनेकधा अस्ति-नास्तीत्यादि-लक्षणा चिन्ता गतिः, अत्र = अस्मिन्नात्मनि नास्ति = न विद्यते सर्व-विकल्प-गति-[15]प्रत्यस्तमित-रूपत्वादात्मनः ।
अथवा स्वात्मभूते अनन्यस्मिन् आत्मनि प्रोक्ते अनन्यप्रोक्ते गतिः अत्र अन्यावगतिर्नास्ति ज्ञेयस्यान्यस्याभावात् । ज्ञानस्य ह्येषा परा निष्ठा यदात्मैकत्व-विज्ञानम् । अतः [16]गन्तव्याभावान्न गतिरत्रावशिष्यते । संसार-गतिर्वात्र नास्त्यनन्य आत्मनि प्रोक्ते नान्तरीयकत्वात्तद्विज्ञान-फलस्य मोक्षस्य ।
अथवा प्रोच्यमान-ब्रह्मात्म-भूतेनाचार्येण [17]अनन्यतया प्रोक्त आत्मनि अगतिः अनवबोधोऽपरिज्ञानमत्र नास्ति । भवत्येवावगतिस्तद्विषया [18]श्रोतुस्तदनन्योऽहमित्याचार्यस्येवेत्यर्थः ।
एवं सुविज्ञेय आत्मा आगमवताचार्येणानन्यतया प्रोक्तः । इतरथा अणीयान् = अणुतरः [19]अणुप्रमाणादपि संपद्यत आत्मा । अतर्क्यम् = अतर्क्यः, अणुप्रमाणो न [20]तर्क्यः, स्वबुद्ध्यभ्यूहेन केवलेन तर्केण । तर्क्यमाणेऽणुपरिमाणे केनचित्स्थापित आत्मनि [21]ततोऽणुतरमन्योऽभ्यूहति [22]ततोऽप्यन्योऽणुतरमिति । न हि [23]तर्कस्य निष्ठा क्वचिद्विद्यते ॥ १.२.८ ॥
नैषा तर्केण मतिरापनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ ।
यां त्वमापः सत्यधृतिर्बतासि
 त्वादृङ्नो भूयान्नचिकेतः प्रष्टा ॥ १..९॥
अतोऽनन्यप्रोक्त आत्मन्युत्पन्ना येयमागम-प्रभवा मतिः, [24]नैषा तर्केण = स्वबुद्ध्यभ्यूहमात्रेण आपनेया = [25]नापनीया = न प्रापणीयेत्यर्थः; = नापनेतव्या वा; = [26]नोपहन्तव्या । तार्किको ह्यनागमज्ञः स्वबुद्धि-परिकल्पितं यत्किञ्चिदेव [27]कल्पयति । अत एव च येयमागम-प्रभूता मतिः अन्येनैव = आगमाभिज्ञेनाचार्येणैव तार्किकात्, प्रोक्ता सती सुज्ञानाय भवति हे प्रेष्ठ = प्रियतम ।
का पुनः? सा तर्कागम्या मतिः इति, उच्यते ---
यां त्वं मतिं मद्वर-प्रदानेन आपः = प्राप्तवानसि । सत्या अवितथ-विषया धृतिर्यस्य तव स त्वं सत्यधृतिः
बतासीत्यनुकम्यन्नाह मृत्युर्नचिकेतसं वक्ष्यमाण-विज्ञानस्तुतये । त्वादृक् = त्वत्तुल्यः नः = अस्मभ्यं भूयात् भवतात् । भवत्वन्यः पुत्रः, शिष्यो वा प्रष्टा । कीदृक्? यादृक्त्वं हे नचिकेतः प्रष्टा ॥ १.२.९॥
पुनरपि तुष्ट आह ---
जानाम्यहóè शेवधिरित्यनित्यं न ह्यध्रुवैः प्राप्यते हि ध्रुवं तत् ।
ततो मया नाचिकेतश्चितोऽग्निः
अनित्यैर्द्रव्यैः प्राप्तवानस्मि नित्यम् ॥ १..१०॥
जानाम्यहं शेवधिः = निधिः कर्म-फल-लक्षणः निधिरिव प्रार्थ्यत इति । असौ अनित्यम् = अनित्य इति जानामि । न हि यस्मात् अनित्यैः = अध्रुवैः [28]यत् नित्यं = ध्रुवं, तत् प्राप्यते परमात्माख्यः शेवधिः । यस्त्वनित्य-सुखात्मकः शेवधिः, स एवानित्यैर्द्रव्यैः प्राप्यते ।
हि यतः, ततः = तस्मात् मया जानतापि नित्यमनित्यसाधनैः [29]प्राप्यत इति नाचिकेतश्चितोअग्निः, अनित्यैः द्रव्यैः = पश्वादिभिः स्वर्ग-सुख-साधन-भूतोऽग्निः निर्वर्तित इत्यर्थः । तेनाहमधिकारापन्नो नित्यं = याम्यं स्थानं = स्वर्गाख्यं, नित्यमापेक्षिकं, प्राप्तवानस्मि ॥ १.२.१०॥
कामस्याप्तिं जगतः प्रतिष्ठां क्रतोरानन्त्यमभयस्य पारम् ।
स्तोममहदुरुगायं प्रतिष्ठां दृष्ट्वा
धृत्या धीरो नचिकेतोऽत्यस्राक्षीः ॥ १..११॥
त्वं तु कामस्य आप्तिं = समाप्तिम्, [30]अत्र हि सर्वे कामाः परिसमाप्ताः, जगतः साध्यात्माधिभूताधिदैवादेः प्रतिष्ठाम् = आश्रयं सर्वात्मकत्वात्, क्रतोः = [31]उपासनायाः फलं हैरण्यगर्भं पदम्, अनन्त्यम् = आनन्त्यम्, अभयस्यपारं = परां निष्ठाम्, स्तोमं = स्तुत्यं महत् = अणिमाद्यैश्वर्याद्यनेकगुणसंहतम्, स्तोमं च तन्महच्च निरतिशयत्वात् स्तोममहत्, उरुगायं = विस्तीर्णां गतिम्, प्रतिष्ठां = स्थितिमात्मनोऽनुत्तमामपि दृष्ट्वा धृत्या = धैर्येण धीरः = नचिकेतः, = धीमान् = बुद्धिमान्सन् [32]अत्यस्राक्षीः = परमेवाकाङ्क्षन्नतिसृष्टवानसि सर्वमेतत्संसार-भोग-जातम् । अहो बतानुत्तम-गुणोऽसि ॥ १.२.११॥
यं त्वं ज्ञातुमिच्छस्यात्मानं ---
तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम् ।
अध्यात्मयोगाधिगमेन देवं
मत्वा धीरो हर्षशोकौ जहाति ॥ १..१२॥
तं दुर्दर्शं = दुःखेन दर्शनमस्येति दुर्दर्शः अतिसूक्ष्मत्वात् तम्, गूढं = गहनम्, अनुप्रविष्टं = [33]प्राकृत-विषय-विज्ञानैः प्रच्छन्नमित्येतत् । गुहाहितं = गुहायां = बुद्धौ हितं = [34]निहितं = स्थितं [35]तन्नोपलभ्यमानत्वात् । गह्वरेष्ठं = गह्वरे = विषमे = अनेकानर्थ-संकटे तिष्ठतीति गह्वरेष्ठम् । यत एवं गूढमनुप्रविष्टो गुहाहितश्च, अतोऽसौ गह्वरेष्ठः; अतो दुर्दर्शः ।
तं पुराणं = पुरातनम् अध्यात्म-योगाधिगमेन विषयेभ्यः प्रतिसंहृत्य चेतस आत्मनि समाधानमध्यात्मयोगः [36]तस्याधिगमः = प्राप्तिः तेन मत्वा देवम् = आत्मानं धीरः हर्षशोकौ आत्मन उत्कर्षापकर्षयोरभावात् जहाति ॥ १.२.१२॥
किं च ---
एतच्छ्रुत्वा सम्परिगृह्य मर्त्यः प्रवृह्य धर्म्यमणुमेतमाप्य ।
स मोदते मोदनीयóè हि लब्ध्वा
विवृतóè सद्म नचिकेतसं मन्ये ॥ १..१३॥
एतदात्म-तत्त्वं यदहं वक्ष्यामि, तच्छ्रुत्वा [37]आचार्यसकाशात् सम्यगात्मभावेन परिगृह्य = उपादाय मर्त्यः = मरणधर्मा धर्मादनपेतं = धर्म्यं प्रवृह्य = उद्यम्य = पृथक्कृत्य शरीरादेः अणुं = सूक्ष्मम् एतम् = आत्मानम् आप्य = प्राप्य सः = मर्त्यः विद्वान् मोदते मोदनीयं हि = हर्षणीयमात्मानं लब्ध्वा । तदेतदेवंविधं ब्रह्म सद्म = भवनं नचिकेतसं = त्वां प्रत्यपावृत-द्वारं = विवृतम् = अभिमुखीभूतं मन्ये, मोक्षार्हं त्वां मन्य इत्यभिप्रायः ॥ १.२.१३॥
[38]एतच्छ्रुत्वा नचिकेताः पुनराह। यद्यहं योग्यः प्रसन्नश्चासि भगवन्, मां प्रति
अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात् ।
अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद ॥ १..१४॥
अन्यत्र धर्मात् = शास्त्रीयात् धर्मानुष्ठानात् तत्फलात् तत्कारकेभ्यश्च पृथग्भूतम् इत्यर्थः । तथा अन्यत्र अधर्मात् = विहिताकरण-रूपात् पापात्[39], तथा अन्यत्रास्मात्कृताकृतात्, कृतं = कार्यमकृतं = कारणमस्मादन्यत्र । किं च, अन्यत्र भूताच्च = अतिक्रान्तात् कालात् भव्याच्च = भविष्यतश्च तथा अन्यत्र[40] वर्तमानात् । काल-त्रयेण यन्न परिच्छिद्यत इत्यर्थः । दीदृशं वस्तु सर्व-व्यवहार-गोचरातीतं पश्यसि = जानासि तद्वद मह्यम् ॥ १.२.१४॥
इत्येवं पृष्टवते मृत्युरुवाच, पृष्टं वस्तु विशेषणान्तरं च विवक्षन् ---
सर्वे वेदा यत्पदमामनन्ति तपाóèसि सर्वाणि च यद्वदन्ति ।
यदिच्छन्तो ब्रह्मचर्यं चरन्ति
तत्ते पदóè संग्रहेण ब्रवीम्योमित्येतत् ॥ १..१५॥
सर्वे वेदा यत्पदं = पदनीयं = गमनीयम् अविभागेन अविरोधेन[41] आमनन्ति = प्रतिपादयन्ति, तपांसि सर्वाणि च यद्वदन्ति = यत्प्राप्त्यर्थानीत्यर्थः । यदिच्छन्तो ब्रह्मचर्यं = गुरु-कुल-वास-लक्षणमन्यद्वा = ब्रह्म-प्राप्त्यर्थं चरन्ति, तत् ते = तुभ्यं पदं यज्ज्ञातुमिच्छसि संग्रहेण = संक्षेपतो ब्रवीमि । ॐ इत्येतत् । तदेतत्पदं यद्बुभुत्सितं त्वया तदेतदोमिति[42] ओं-शब्द-वाच्यमों-शब्द-प्रतीकं च ॥ १.२.१५॥
अतः---
एतद्ध्येवाक्षरं ब्रह्म एतद्ध्येवाक्षरं परम् ।
एतद्ध्येवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् ॥ १..१६॥
एतद्ध्येवाक्षरं ब्रह्म अपरम् एतद्ध्येवाक्षरं परं च । तयोर्हि प्रतीकमेतदक्षरम् । एतद्ध्येवाक्षरं ज्ञात्वा = उपास्य ब्रह्मेति यो यदिच्छति परमपरं वा तस्य तत् भवति । परं चेत् ज्ञातव्यम्, अपरं चेत् प्राप्तव्यम् ॥ १.२.१६॥
यत एवम्, अत एव[43] ---
एतदालम्बनóèश्रेष्ठमेतदालम्बनं परम् ।
एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते ॥ १..१७॥
एतद्[44] ब्रह्मप्राप्त्यालम्बनानां श्रेष्ठं = प्रशस्यतमम् । एतदालम्बनं परम् अपरं च, परापर-ब्रह्म-विषयत्वात् । एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते । परस्मिन्ब्रह्मण्यपरस्मिंश्च ब्रह्मभूतो ब्रह्मवदुपास्यो भवतीत्यर्थः ॥ १.२.१७॥
अन्यत्र धर्मादित्यादिना पृष्टस्यात्मनोऽशेष-विशेष-रहितस्यालम्बनत्वेन प्रतीकत्वेन चोंकारो निर्दिष्टः, अपरस्य च ब्रह्मणो मन्द-मध्यम-प्रतिपत्तॄन्प्रति । अथेदानीं तस्योंकारालम्बनस्यात्मनः साक्षात्स्वरूप-निर्दिधारयिषयेदमुच्यते ---
न जायते म्रियते वा विपश्चिन् नायं कुतश्चिन्न बभूव कश्चित् ।
अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥ १..१८॥
न जायते = नोत्पद्यते म्रियते वा = न म्रियते च उत्पत्तिमतो वस्तुनोऽनित्यस्यानेका विक्रियाः, तासामाद्यन्ते जन्म-विनाश-लक्षणे विक्रिये इहात्मनि प्रतिषिध्येते प्रथमं सर्व-विक्रिया-प्रतिषेधार्थं न जायते म्रियते वेति । विपश्चित् = मेधावी अपरिलुप्त-चैतन्य-स्वभावत्वात्[45] । किं च, नायमात्मा कुतश्चित् कारणान्तरात् बभूव = न प्रभूतः[46] । अस्माच्चात्मनो[47] न बभूव कश्चिदर्थान्तरभूतः । अतोऽयमात्मा अजो नित्यः शाश्वतः = अपक्षय-विवर्जितः । यो ह्यशाश्वतः, सोऽपक्षीयते; अयं तु शाश्वतः, अत एव पुराणः = पुरापि नव एवेति । यो ह्यवयवोपचय-द्वारेणाभिनिर्वर्त्यते, स इदानीं नवः, यथा कुड्यादिः[48]; तद्विपरीतस्त्वात्मा पुराणो वृद्धि-विवर्जित इत्यर्थः । यत एवम्, अतः न हन्यते = न हिंस्यते हन्यमाने शस्त्रादिभिः शरीरे । तत्स्थोऽप्याकाशवदेव ॥ १.२.१८॥
हन्ता चेन्मन्यते हन्तुóè हतश्चेन्मन्यते हतम् ।
उभौ तौ न विजानीतो नायóè हन्ति न हन्यते ॥ १..१९॥
एवंभूतमप्यात्मानं शरीर-मात्रात्म-दृष्टिः हन्ता चेत् यदि मन्यते = चिन्तयति = इच्छति[49] हन्तुं = हनिष्याम्येनमिति योऽप्यन्यो हतः सोऽपि चेन्मन्यते हतमात्मानं हतोऽहमिति उभावपि तौ न विजानीतः स्वमात्मानम् । यतो नायं हन्ति अविक्रियत्वादात्मनः, तथा न हन्यत आकाशवदविक्रियत्वादेव । अतोऽनात्मज्ञ-विषय एव धर्माधर्मादि-लक्षणः संसारो नात्मज्ञस्य[50] । श्रुति-प्रामाण्यान्न्यायाच्च धर्माधर्माद्यनुपपत्तेः ॥ १.२.१९ ॥
कथं पुनरात्मानं जानातीति, उच्यते ---
अणोरणीयान्महतो महीयानात्माऽस्य जन्तोर्निहितो गुहायाम् ।
तमक्रतुः पश्यति वीतशोको
धातुप्रसादान्महिमानमात्मनः ॥ १..२०॥
अणोः = सूक्ष्मात् अणीयान् = श्यामाकादेरणुतरः । महतो = महत्परिमाणात् महीयान् = महत्तरः पृथिव्यादेः । अणु महद्वा यदस्ति लोके वस्तु, तत्तेनैवात्मना नित्येनात्मवत्सम्भवति । तदात्मना विनिर्मुक्तमसत्सम्पद्यते ।
तस्मादसावेवात्मा अणोरणीयान्महतो महीयान्, सर्व-नाम-रूप-वस्तु-उपाधिकत्वात् । स च आत्मा अस्य जन्तोः = ब्रह्मादि-स्तम्ब-पर्यन्तस्य प्राणि-जातस्य गुहायां = हृदये निहितः = आत्मभूतः स्थित इत्यर्थः ।
तम् = आत्मानं दर्शन-श्रवण-मनन-विज्ञान-लिङ्गम् अक्रतुः = अकामः, दृष्टादृष्ट-बाह्य-विषयेभ्य उपरत-बुद्धिरित्यर्थः[51] । यदा चैवं तदा मनआदीनि करणानि धातवः शरीरस्य धारणात्प्रसीदन्तीत्येषां धातूनां प्रसादादात्मनो महिमानं कर्म-निमित्त-वृद्धि-क्षय-रहितं पश्यति = अयमहमस्मीति साक्षाद्विजानाति; ततो विगत-शोको[52] भवति ॥ १.२.२०॥
अन्यथा दुर्विज्ञेयोऽयमात्मा कामिभिः प्राकृत-पुरुषैः, यस्मात्[53]
आसीनो दूरं व्रजति शयानो याति सर्वतः ।
कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति ॥ १..२१॥
आसीनः = अवस्थितोऽचल एव सन् दूरं व्रजति । शयानो याति सर्वतः, एवमसावात्मा देवो मदामदः समदोऽमदश्च सहर्षोऽहर्षश्च विरुद्धधर्मवानतोऽशक्यत्वाज्ज्ञातुं कः तं मदामदं देवं मदन्यो ज्ञातुमर्हति
अस्मदादेरेव सूक्ष्मबुद्धेः पण्डितस्य विज्ञेयोऽयमात्मा[54] स्थिति-गति-नित्यानित्यादि-विरुद्धानेक-धर्मोपाधिकत्वाद्विरुद्धधर्मवान्[55] विश्वरूप इव चिन्तामणिवत् कस्यचिदवभासते[56] । अतो दुर्विज्ञेयत्वं दर्शयति -- कस्तं मदन्यो ज्ञातुमर्हतीति ।
करणानामुपशमः शयनं करण-जनितस्यैकदेश-विज्ञानस्योपशमः शयानस्य भवति । यदा चैवं केवल-सामान्य-विज्ञानत्वात्सर्वतो यातीव यदा विशेष-विज्ञानस्थः स्वेन रूपेण स्थित एव सन् मनआदि-गतिषु तदुपाधिकत्वाद्दूरं व्रजतीव । स चेहैव वर्तते ॥ १.२.२१ ॥
तद्विज्ञानाच्च शोकात्यय इत्यपि दर्शयति ---
अशरीरóè शरीरेष्वनवस्थेष्ववस्थितम् ।
महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥ १..२२
अशरीरः[57] स्वेन रूपेणाकाशकल्प आत्मा तम् अशरीरं शरीरेषु = देव-पितृ-मनुष्यादि-शरीरेषु अनवस्थेषु = अवस्थिति-रहितेष्वनित्येषु[58] अवस्थितं = नित्यम् अविकृतमित्येतत् । महान्तम् = महत्त्वस्यापेक्षिकत्व-शङ्कायामाह --- विभुं = व्यापिनम् आत्मानम्; आत्म-ग्रहणं स्वतोऽनन्यत्व-प्रदर्शनार्थम् । आत्म-शब्दः प्रत्यगात्म-विषय एव मुख्यस्तमीदृशमात्मानं मत्वा अयमहमिति, धीरः = धीमान् न शोचति । न ह्येवंविधस्वात्मविदः[59] शोकोपपत्तिः ॥ १.२.२२ ॥
यद्यपि दुर्विज्ञेयोऽयमात्मा तथाप्युपायेन सुविज्ञेय एवेत्याह ---
नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन ।
यमेवैष वृणुते तेन लभ्यः
 तस्यैष आत्मा विवृणुते तनूó èस्वाम् ॥ १..२३॥
न अयम् आत्मा प्रवचनेन = अनेक-वेद-स्वीकरणेन लभ्यः = ज्ञेयः; अपि मेधया = ग्रन्थार्थ-धारण-शक्त्या; न बहुना श्रुतेन = न बाहुश्रुत्येन[60] केवलेन । केन तर्हि लभ्य इति, उच्यते ---
यमेव स्वमात्मानम् एषः = साधको वृणुते=  प्रार्थयते, तेन एवात्मना वरित्रा स्वयमात्मा लभ्यः = ज्ञायत इत्येतत्[61] । निष्कामश्चात्मानमेव[62] प्रार्थयते । आत्मनैवात्मा लभ्यत इत्यर्थः ।
कथं लभ्यत इति, उच्यते --- तस्य = आत्मकामस्य एष आत्मा विवृणुते = प्रकाशयति पारमार्थिकीं स्वां तनूं = स्वकीयं याथात्म्यमित्यर्थः[63] ॥ १.२.२३॥
किं चान्यत् ---
नाविरतो दुश्चरितान्नाशान्तो नासमाहितः ।
नाशान्तमानसो वाऽपि प्रज्ञानेनैनमाप्नुयात् ॥ १..२४॥
न दुश्चरितात् = प्रतिषिद्धाच्छ्रुति-स्मृत्यविहितात्पाप-कर्मणः अविरतः = अनुपरतः । नापि इन्द्रिय-लौल्यात् अशान्तः = अनुपरतः । अपि असमाहितः = अनेकाग्रमनाः=  विक्षिप्त-चित्तः । समाहित-चित्तोऽपि सन्समाधान-फलार्थित्वात् नापि अशान्तमानसः = व्यापृत-चित्तो वा[64] प्रज्ञानेन = ब्रह्मविज्ञानेन एनं = प्रकृतमात्मानम् आप्नुयात् । यस्तु दुश्चरिताद्विरत इन्द्रिय-लौल्याच्च, समाहित-चित्तः समाधान-फलादप्युपशान्त-मानसश्चाचार्यवान् प्रज्ञानेन एनं[65] यथोक्तमात्मानं प्राप्नोतीत्यर्थः ॥ १.२.२४॥
यस्त्वनेवम्भूतः ---
यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः ।
मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः ॥ १..२५॥
यस्य = आत्मनः ब्रह्म च क्षत्रं च[66] = ब्रह्म-क्षत्रे सर्व-धर्म-विधारके अपि सर्व-प्राण-भूते[67] उभे ओदनः अशनं भवतः स्याताम्, सर्व-हरोऽपि मृत्युः यस्य उपसेचनम् इवौदनस्य, अशनत्वेऽप्यपर्याप्तः, तं प्राकृत-बुद्धिर्यथोक्त-साधनानभियुक्तः[68] सन् क इत्था = इत्थमेवं यथोक्त-साधनवानिवेत्यर्थः, वेद = विजानाति यत्र स आत्मेति ॥ १.२.२५ ॥
इति श्रीमत्परमहंस-परिव्राजकाचार्य-गोविन्द-भगवत्पूज्यपाद-शिष्य-श्रीमदाचार्य-श्रीशङ्कर-भगवतः कृतौ कठोपनिषद्भाष्ये प्रथमाध्याये द्वितीयवल्लीभाष्यम् समाप्तम् ॥


[1] तथान्यदुताप्येव – इति पाठान्तरम् ।
[2] विद्याविद्याभ्याम् – इति पाठान्तरे नास्ति ।
[3] अस्मादर्थात् / कस्मात् ? अर्थात् – इति पाठान्तरे ।
[4] मनुष्यमेतं पुरुषमा इतः प्रप्नुतः / मनुष्यं पुरुषमा इतः प्राप्नुतः – इति पाठान्तरे ।
[5] प्रेयसोऽभ्यर्हितत्वात् - इति पाठान्तरम् ।
[6]  विवेकसामर्थ्यात् – इति पाठान्तरम् ।
[7] इत्युक्तम् – इति पाठान्तरम् ।
[8] संसारभाजनाः – इत्यपि पाठम् ।
[9] दृष्टिविहीनेनैव – इति पाठान्तरम् ।
[10] तमसाच्छन्नं सन्तम् – इति पाठान्तरम् ।
[11] स तु – इति पाठान्तरे नास्ति ।
[12] मदधीनताम् – इति पाठान्तरम् ।
[13] एवंविध – इत्यपि पाठम् ।
[14] स – इति केचन पाठे नास्ति ।
[15] सर्वविकल्पगतिप्रत्यस्तमितत्वादात्मनः – इति पाठान्तरम् ।
[16] अवगन्तव्यभावान्न – इत्यपि पाठम् ।
[17] अनन्यतया – इति अन्यपाठे नास्ति ।
[18] श्रोतुस्तदस्म्यहमित्याचार्यस्येवेत्यर्थः – इति पाठान्तरम् ।
[19] ह्यणीयानणुप्रमाणादपि – इत्यपि पाठम् ।
[20] अणुप्रमाणो न तर्क्यः – इति केचन पाठे नास्ति ।
[21] ततो ह्यणुतरमन्योभ्यूहति – इति पाठान्तरम् ।
[22] ततोऽप्यन्योऽणुतममिति – इत्यपि पाठम् ।
[23] कुतर्कस्य – इति पाठान्तरम् ।
[24] येयमागमप्रतिपाद्यात्ममतिर्नैषा – इति पाठान्तरम् ।
[25] येयमागमप्रतिपाद्यात्ममतिर्नैषा – इति पाठान्तरम् ।
[26] न हातव्या – इत्यपि पाठम् ।
[27] कथयति – इत्यपि पाठम् ।
[28] यत् इति केचन पाठे नास्ति ।
[29] न प्राप्यते - इति पाठान्तरम् ।
[30] अत्रैवेहैव – इत्यपि पाठम् ।
[31] उपासनायाः – इति केचन पाठे नास्ति ।
[32] धीमान्सन्नचिकेतोऽत्यस्रक्षीः –इत्यपि पाठम् ।
[33] प्राकृतविषयविकारविज्ञानैः – इत्यपि पाठम् ।
[34] हितं निहितम् – इति केचन पाठे नास्ति ।
[35] तत्रोपलभ्यमानत्वात् – इति पाठान्तरम् ।
[36] तस्याधिगमस्तेन – इति पाठान्तरम् ।
[37] आचार्यप्रसादात् – इत्यपि पाठम् ।
[38] एतत् वाक्यम् अन्यपाठे नास्ति ।
[39] विहिताकरणरूपात्पापात् – इति अन्यपाठे नास्ति ।
[40] अन्यत्र – इति अन्यपाठे नास्ति ।
[41] अविरोधेन – इति अन्यपाठे नास्ति ।
[42] यदेतदोमिति – इति पाठभेदः अस्ति ।
[43] एव – इति अन्यपाठे नास्ति ।
[44] एतदालम्बनमेतत् – इत्यपि पाठम् ।
[45] अविपरिलुप्तचैतन्यस्वभावात् / अविपरिलुप्तचैतन्यस्वभावात्– इति पाठान्तरे ।
[46] न प्रभुतः – इति पाठान्तरे नास्ति ।
[47] स्वस्माच्चात्मनो – इति पाठान्तरम् ।
[48] कुण्भदिः – इत्यपि पाठम् ।
[49] इच्छति - इति अन्यत्रपाठे नास्ति ।
[50] ब्रम्हज्ञस्य – इति पाठान्तरम् ।
[51] दृष्टादृष्टबाह्यविषयोपरतबुद्धिरित्यर्थः – इत्यपि पाठः ।
[52] वीतशोको – इत्यपि पाठम् ।
[53] अन्यथा दुर्वुज्ञेयोऽयमात्मा कामिभिः प्राकृतपुरुषैः, यस्मात् – इति केचनपाठे नास्ति ।
[54] सुविज्ञेयोऽयमात्मा – इत्यपि पाठम् ।
[55] धर्मवत्वात् – इति पाठान्तरम् ।
[56] केवलम् - अवभासते – इत्यपि पाठम् ।
[57] अशरीरम् – इत्यपि पाठम् ।
[58] अनित्येषु – इति केचनपाठे नास्ति ।
[59] ह्येवंविधस्यात्मविदः – इत्यपि पाठम् ।
[60] न बाहुश्रुत्येन – इति अन्यपाठे नास्ति ।
[61] एवमित्येतत् – इत्यपि पाठम् ।
[62] एवं निष्कामस्याऽऽत्मानमेव/ निष्कामस्यात्मानमेव – इति पाठान्तरे ।
[63] तनूं स्वां स्वकीयां स्वयाथात्म्यमित्यर्थः – इति पाठान्तरम् ।
[64] वा इति अन्यपाठे नास्ति ।
[65] एनम् – इति अन्यत्रपाठे नास्ति ।
[66] ब्रम्ह च क्षत्रं च – इति अन्यपाठे नास्ति ।
[67] त्राणभूते – इत्यपि पाठम् ।
[68] साधनरहित –इत्यपि पाठम् ।

No comments:

Post a Comment