Saturday, October 19, 2013

॥काठकोपनिषत् – वल्ली - 3॥ ॥ प्रथमोऽध्यायः ॥ ॥ तृतीया वल्ली ॥


॥काठकोपनिषत् – वल्ली - 3॥
श्रीमच्छंकरभगवत्पादविरचितेन भाष्येण सहिता।

॥ प्रथमोऽध्यायः ॥

॥ तृतीया वल्ली ॥

ऋतं पिबन्तावित्यस्या वल्ल्याः संबन्धः ---
विद्याविद्ये नाना विरुद्ध-फले इत्युपन्यस्ते, न तु सफले ते यथावन्निर्णीते । तन्निर्णयार्था रथ-रूपक-कल्पना, तथा च प्रतिपत्ति-सौकर्यम् । एवं च प्राप्तृ-प्राप्य-गन्तृ-गन्तव्य-विवेकार्थं रथ-रूपक-द्वारा[1] द्वावात्मानावुपन्यस्येते ---
ऋतं पिबन्तौ सुकृतस्य लोके
गुहां प्रविष्टौ परमे परार्धे[2]
छायातपौ ब्रह्मविदो वदन्ति
पञ्चाग्नयो ये त्रिणाचिकेताः ..१ ॥
ऋतं = सत्यम् = अवश्यंभावित्वात्कर्मफलं पिबन्तौ । एकस्तत्र कर्म-फलं पिबति = भुङ्क्ते नेतरः, तथापि पातृ-संबन्धात्पिबन्तावित्युच्येते छत्रि-न्यायेन । सुकृतस्य = स्वयंकृतस्य कर्मणः ऋतमिति पूर्वेण संबन्धः । लोके = अस्मिञ्शरीरे, गुहां = गुहायां = बुद्धौ प्रविष्टौ, परमे = बाह्य-पुरुषाकाश-संस्थानापेक्षया परमम्, परार्धे[3] = परस्य ब्रह्मणोऽर्धं स्थानं परार्धं[4] = हार्दाकाशम्[5] । तस्मिन्हि परं ब्रह्मोपलभ्यते । ततः[6] तस्मिन्परमे परार्धे हार्दाकाशे प्रविष्टावित्यर्थः । तौ च छायातपौ इव विलक्षणौ संसारित्वासंसारित्वेन ब्रह्मविदो वदन्ति = कथयन्ति । न केवलमकर्मिण एव वदन्ति । पञ्चाग्नयो गृहस्थाः । ये च त्रिणाचिकेताः, त्रिः कृत्वो नाचिकेतोऽग्निश्चितो यैस्ते त्रिणाचिकेताः ॥ १.३.१ ॥
यः सेतुरीजानानामक्षरं ब्रह्म यत् परम् ।
अभयं तितीर्षतां पारं नाचिकेतँ शकेमहि ॥ १..
यः [7]सेतुः = सेतुरिव सेतुः ईजानानां = यजमानानां कर्मिणाम्, दुःख-संतरणार्थत्वात् । [8]नाचिकेतं = नाचिकेतोऽग्निः तम्, वयं ज्ञातुं चेतुं च शकेमहि = [9]शक्तवन्तः । किं च, यच्च अभयं = भयशून्यं [10]संसारस्य पारं तितीर्षतां = तरितुमिच्छतां ब्रह्मविदां यत्परम् आश्रयम् अक्षरम् आत्माख्यं ब्रह्म, तच्च ज्ञातुं [11]शकेमहि । परापरे ब्रह्मणी [12]कर्मिब्रह्मविदाश्रये वेदितव्ये इति वाक्यार्थः; एतयोरेव ह्युपन्यासः कृतः'ऋतं पिबन्तौ' इति ॥१.३.२॥
तत्र य उपाधिकृतः संसारी विद्याविद्ययोरधिकृतो मोक्ष-गमनाय संसार-गमनाय च, तस्य तदुभय-गमने साधनो रथः कल्प्यते ---
आत्मानँ रथितं विद्धि शरीरँ रथमेव तु ।
बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥ १..
तत्र [13]आत्मानम् = ऋतपं = संसारिणं रथिनं = रथ-स्वामिनं विद्धि = विजानीहि; शरीरं रथम् एव तु रथ-बद्ध-हय-स्थानीयैरिन्द्रियैराकृष्यमाणत्वात् शरीरस्य । बुद्धिं तु अध्यवसाय-लक्षणां सारथिं विद्धि; बुद्धि-नेतृप्रधानत्वात् शरीरस्य, सारथि-नेतृ-प्रधान इव रथः। सर्वं हि देहगतं कार्यं बुद्धिकर्तव्यमेव प्रायेण । मनः = संकल्प-विकल्पादि-लक्षणं [14]प्रग्रहमेव च = रशनामेव विद्धि । मनसा हि प्रगृहीतानि श्रोत्रादीनि करणानि प्रवर्तन्ते रशनयेवाश्वाः ॥ १.३.३ ॥
इन्द्रियाणि हयानाहुर्विषयाँ स्तेषु गोचरान् ।
आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ॥ १..
इन्द्रियाणि = चक्षुरादीनि हयानाहुः रथ-कल्पना-कुशलाः, शरीर-रथाकर्षण-सामान्यात् । [15]तेषु = इन्द्रियेषु हयत्वेन परिकल्पितेषु गोचरान् = मार्गान् रूपादीन् विषयान् विद्धि । [16]आत्मेन्द्रियमनोयुक्तं = शरीरेन्द्रिय-मनोभिः सहितं [17]संयुतमात्मानं भोक्तेति = संसारीति आहुः मनीषिणः = विवेकिनः ।
न हि केवलस्यात्मनो भोक्तृत्वमस्ति; बुद्ध्याद्युपाधिकृतमेव तस्य भोक्तृत्वम् । तथा च श्रुत्यन्तरं केवलस्याभोक्तृत्वमेव दर्शयति --- 'ध्यायतीव लेलायतीव' (बृ.उ. ४॰३॰७) इत्यादि । एवं च सति वक्ष्यमाण-रथ-कल्पनया वैष्णवस्य पदस्यात्मतया प्रतिपत्तिरुपपद्यते, नान्यथा, स्वभावानतिक्रमात् ॥ १.३.४ ॥
यस्त्वविज्ञानवान्भवत्ययुक्तेन मनसा सदा ।
तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः ॥ १..
तत्रैवं सति [18]यस्तु = बुद्ध्याख्यः सारथिः अविज्ञानवान् = अनिपुणोऽविवेकी प्रवृत्तौ च निवृत्तौ च भवति यथेतरो रथ-चर्यायाम् अयुक्तेन अप्रगृहीतेन असमाहितेन मनसा = प्रग्रह-स्थानीयेन सदा युक्तो भवति, तस्य = अकुशलस्य बुद्धि-सारथेः इन्द्रियाणि = अश्व-स्थानीयानि अवश्यानि = [19]अशक्य-निवारणानि दुष्टाश्वाः = अदान्ताश्वा इव इतर सारथेः भवन्ति ॥ १. ३.५ ॥
यस्तु पुनः पूर्वोक्त-विपरीत-सारथिर्भवति [20]तस्य फलमाह ---
यस्तु विज्ञानवान्भवति युक्तेन मनसा सदा ।
तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः ॥ १..६॥
[21]यस्तु विज्ञानवान् = [22]निपुणः = विवेकवान् युक्तेन मनसा = प्रगृहीतमनाः = समाहितचित्तः सदा, तस्य अश्वस्थानीयानि इन्द्रियाणि प्रवर्तयितुं निवर्तयितुं वा शक्यानि वश्यानि दान्ताः सदश्वा इव इतर सारथेः ॥ १. ३.६ ॥
[23]तत्र पूर्वोक्तस्याविज्ञानवतो बुद्धि-सारथेरिदं फलमाह ---
यस्त्वविज्ञानवान्भवत्यमनस्कः सदाशुचिः ।
न स तत्पदमाप्नोति संसारं चाधिगच्छति ॥ १..
यस्त्वविज्ञानवान्भवति अमनस्कः = अप्रगृहीतमनस्कः सः तत एव अशुचिः सदा एव । न सः रथी तत् = पूर्वोक्तमक्षरं यत्परं पदम् आप्नोति तेन सारथिना । न केवलं [24]तन्नाप्नोति, संसारं च = जन्म-मरण-लक्षणम् अधिगच्छति ॥ १. ३.७ ॥
यस्तु विज्ञानवान्भवति समनस्कः सदा शुचिः ।
स तु तत्पदमाप्नोति यस्माद्भूयो न जायते ॥ १..
यस्तु द्वितीयो विज्ञानवान् भवति = विज्ञानवत्सारथ्युपेतो रथी, विद्वानित्येतत् । युक्तमनाः = समनस्कः स तत एव सदा शुचिःस तु तत्पदमाप्नोति, यस्माद् आप्तात्पदादप्रच्युतः सन् भूयः = पुनः न जायते संसारे ॥ १. ३.८ ॥
किं तत्पदमित्याह ---
विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः ।
सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् ॥ १..
विज्ञान-सारथिः यस्तु यो विवेक-बुद्धि-सारथिः पूर्वोक्तः मनःप्रग्रहवान् = प्रगृहीतमनाः = समाहित-चित्तः सन् शुचिः नरः = विद्वान्, स अध्वनः = संसार-गतेः पारं = परमेव, अधिगन्तव्यमित्येतत्, आप्नोति = मुच्यते सर्व-संसार-बन्धनैः । तत् विष्णोः = व्यापन-शीलस्य = ब्रह्मणः = परमात्मनः = वासुदेवाख्यस्य परमं = प्रकृष्टं पदं = स्थानम्, सतत्त्वमित्येतत्, यत् असावाप्नोति विद्वान् ॥ १.३.९ ॥
अधुना यत्पदं गन्तव्यं तस्येन्द्रियाणि स्थूलान्यारभ्य सूक्ष्म-तारतम्य-क्रमेण प्रत्यगात्मतयाधिगमः कर्तव्य इत्येवमर्थमिदमारभ्यते ।
इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः ।
मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ॥ १..१०
स्थूलानि तावदिन्द्रियाणि, तानि [25]यैः परैरर्थैरात्मप्रकाशनायारब्धानि तेभ्य इन्द्रियेभ्यः स्वकार्येभ्यः ते परा हि अर्थाः = सूक्ष्माः = महान्तश्च = प्रत्यगात्मभूताश्च । तेभ्योऽपि अर्थेभ्यश्च परं = सूक्ष्मतरं महत्प्रत्यगात्मभूतं च मनः । मनःशब्द-वाच्यं मनस आरम्भकं भूत-सूक्ष्मम्, संकल्प-विकल्पाद्यारम्भकत्वात् । मनसोऽपि परा = सूक्ष्मतरा =  महत्तरा = प्रत्यगात्मभूता च बुद्धिः, बुद्धि-शब्द-वाच्यमध्यवसायाद्यारम्भकं भूत-सूक्ष्मम् । बुद्धेरात्मा सर्व-प्राणि-बुद्धीनां प्रत्यगात्मभूतत्वादात्मा महान् = सर्व-महत्त्वात् अव्यक्ताद्यत्प्रथमं जातं हैरण्य-गर्भं तत्त्वं बोधाबोधात्मकं महानात्मा बुद्धेः पर इत्युच्यते ॥ १.३.१० ॥
महतः परमव्यक्तमव्यक्तात्पुरुषः परः ।
पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः ॥ १..११
महतोऽपि परं = सूक्ष्मतरं = प्रत्यगात्मभूतं = सर्व-महत्तरं च अव्यक्तं = सर्वस्य जगतो बीज-भूतमव्याकृत-नाम-रूपं सतत्त्वं सर्व-कार्य-कारण-शक्ति-समाहार-रूपम् [26]अव्यक्तम् अव्याकृताकाशादि-नाम-वाच्यं परमात्मन्योत-प्रोत-भावेन समाश्रितं वट-कणिकायामिव वट-वृक्ष-शक्तिः । तस्माद् अव्यक्तात् परः = सूक्ष्मतरः [27]सर्व-कारण-कारणत्वात् प्रत्यगात्मत्वाच्च महांश्च, अत एव पुरुषः = सर्व-पूरणात् । ततोऽन्यस्य परस्य प्रसङ्गं निवारयन्नाह --- पुरुषान्न परं किंचिद् इति । यस्मान्नास्ति पुरुषाच्चिन्मात्रघनात्परं किञ्चिदपि वस्त्वन्तरम्, तस्मात्सूक्ष्मत्व-महत्त्व-प्रत्यगात्मत्वानां सा काष्ठा = निष्ठा पर्यवसानम् । अत्र हि इन्द्रियेभ्य आरभ्य सूक्ष्मत्वादि [28]परिसमाप्तम् । अत एव च गन्तॄणां सर्व-गतिमतां संसारिणां सा परा = प्रकृष्टा गतिः, 'यद्गत्वा न निवर्तन्ते' (गीता १५॰६) इति स्मृतेः ॥ १.३.११ ॥
ननु गतिश्चेदागत्यापि भवितव्यम्, कथम् 'यस्माद्भूयो न जायते' इति?
नैष दोषः । सर्वस्य प्रत्यगात्मत्वादवगतिरेव गतिरित्युपचर्यते । प्रत्यगात्मत्वं च दर्शितम् इन्द्रिय-मनोबुद्धि-परत्वेन । यो हि गन्ता [29]सोऽयमप्रत्यग्रूपं [30]पुरुषं गच्छति अनात्मभूतं [31]न विन्दति स्वरूपेण । तथा च श्रुतिः'अनध्वगा अध्वसु पारयिष्णवः' इत्याद्या । तथा च दर्शयति प्रत्यगात्मत्वं सर्वस्य ---
एष सर्वेषु भूतेषु गूढोऽऽत्मा न प्रकाशते ।
दृश्यते त्वग्‍र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥ १..१२
एष = पुरुषः सर्वेषु = ब्रह्मादि-स्तम्ब-पर्यन्तेषु भूतेषु गूढः = संवृतः दर्शन-श्रवणादि-कर्मा अविद्या-मायाच्छन्नः अत एव आत्मा न प्रकाशते आत्मत्वेन कस्यचित् । अहो! अतिगम्भीरा दुरवगाह्या [32]विचित्रा चेयं माया, यदयं सर्वो जन्तुः परमार्थतः परमार्थ-सतत्त्वोऽप्येवं बोध्यमानोऽहं परमात्मेति न गृह्णाति, अनात्मानं देहेन्द्रियादि-संघातमात्मनो दृश्यमानमपि घटादिवदात्मत्वेनाहममुष्य पुत्र इत्यनुच्यमानोऽपि गृह्णाति । नूनं परस्यैव मायया मोमुह्यमानः सर्वो [33]लोकोऽयं बम्भ्रमीति । तथा च स्मरणम् -- 'नाहं प्रकाशः सर्वस्य योगमायासमावृतः' (गीता ७॰२५) इत्यादि ।
ननु विरुद्धमिदमुच्यते --- मत्वा धीरो न शोचति (क॰उ॰ २॰१॰४), न प्रकाशते (क॰उ॰ १॰३॰१२) इति च ।
नैतदेवम् । असंस्कृत-बुद्धेरविज्ञेयत्वान्न प्रकाशत इत्युक्तम् । दृश्यते तु संस्कृतया अग्‌र्यया = अग्रमिवाग्‍र्यया तया, एकाग्रतयोपेतयेत्येतत्; सूक्ष्मया = सूक्ष्म-वस्तु-निरूपण-परया । कैः? सूक्ष्म-दर्शिभिः 'इन्द्रियेभ्यः परा ह्यर्थाः' इत्यादि-प्रकारेण सूक्ष्मता-पारम्पर्य-दर्शनेन परं सूक्ष्मं द्रष्टुं शीलं येषां ते सूक्ष्म-दर्शिनः, तैः सूक्ष्मदर्शिभिः = पण्डितैरित्येतत्  ॥ १.३.१२ ॥
तत्प्रतित्त्युपायमाह ---
यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि ।
ज्ञानमात्मनि महति नियच्छेत्तद्यच्छेच्छान्त आत्मनि ॥ १..१३
यच्छेत् = नियच्छेदुपसंहरेत् प्राज्ञः = विवेकी । किम्? वाक् = वाचम्; वागत्रोपलक्षणार्था सर्वेषामिन्द्रियाणाम् । क्व? मनसी = मनसि । छान्दसं दैर्घ्यम् । तच्च = मनः यच्छेत् ज्ञाने = प्रकाश-स्वरूपे बुद्धौ = आत्मनि । बुद्धिर्हि मनआदिकरणान्याप्नोतीत्यात्मा प्रत्यक् [34]च तेषाम् । ज्ञानं = बुद्धिम् आत्मनि महति = प्रथमजे नियच्छेत् । प्रथमजवत्स्वच्छ-स्वभावकमात्मनो विज्ञानमापादयेदित्यर्थः । तं च = महान्तमात्मानं यच्छेत् शान्ते = सर्व-विशेष-प्रत्यस्तमित-रूपे = अविक्रिये = सर्वान्तरे सर्व-बुद्धि-प्रत्यय-साक्षिणि मुख्ये आत्मनि ॥ १.३.१३ ॥
एवं पुरुष आत्मनि सर्वं प्रविलाप्य नाम-रूप-कर्म-त्रयं यन्मिथ्या-ज्ञान-विजृम्भितं क्रिया-कारक-फल-लक्षणं स्वात्म-याथात्म्य-ज्ञानेन मरीच्युदक-रज्जु-सर्प-गगन-मलानीव मरीचि-रज्जु-गगन-स्वरूप-दर्शनेनैव स्वस्थः [35]प्रशान्तः कृतकृत्यो भवति यतः, अतस्तद्दर्शनार्थम् ---
उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत ।
क्षुरस्य धारा निशिता दुरत्यया दुर्गं पथस्तत्कवयो वदन्ति ॥ १..१४
अनाद्यविद्याप्रसुप्ताः उत्तिष्ठत = हे जन्तवः, आत्मज्ञानाभिमुखा भवत; जाग्रत = अज्ञान-निद्राया घोर-रूपायाः सर्वानर्थ-बीज-भूतायाः क्षयं कुरुत । कथम्? प्राप्य = उपगम्य वरान् = प्रकृष्टानाचार्यांस्तत्त्वविदः, तदुपदिष्टं सर्वान्तरमात्मानमहमस्मीति निबोधत = अवगच्छत; न ह्युपेक्षितव्यमिति श्रुतिरनुकम्पया आह मातृवत्, अतिसूक्ष्म-बुद्धिविषयत्वाज्ज्ञेयस्य। किमिव सूक्ष्म-बुद्धिरिति, उच्यते --- क्षुरस्य धारा = अग्रं निशिता = तीक्ष्णीकृता दुरत्यया = दुःखेनात्ययो यस्याः सा दुरत्ययायथा सा पद्भ्यां दुर्गमनीया तथा दुर्गं = दुःसम्पाद्यमित्येतत्; पथः = पन्थानं [36]तत् = तं ज्ञानलक्षणं मार्गं कवयः = मेधाविनो वदन्ति । ज्ञेयस्यातिसूक्ष्मत्वात्तद्विषयस्य ज्ञान-मार्गस्य दुःसम्पाद्यत्वं वदन्तीत्यभिप्रायः ॥ १..१४ ॥
तत्कथमतिसूक्ष्मत्वं ज्ञेयस्येति, उच्यते । स्थूला तावदियं मेदिनी शब्द-स्पर्श-रूप-रस-गन्धोपचिता सर्वेन्द्रिय-विषयभूता तथा शरीरम् । तत्रैकैक-गुणापकर्षेण गन्धादीनां सूक्ष्मत्व-महत्त्व-विशुद्धत्व-नित्यत्वादि-तारतम्यं दृष्टमबादिषु यावदाकाशमिति । ते गन्धादयः सर्व एव [37]स्थूलत्वाद्विकाराः शब्दान्ता यत्र न सन्ति, किमु तस्य सूक्ष्मत्वादि-निरतिशयत्वं वक्तव्यमित्येतद्दर्शयति श्रुतिः ---
अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत् ।
अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तन्मृत्युमुखात् प्रमुच्यते ॥ १..१५
अशब्दमस्पर्शमरूपमव्ययं तथारसं नित्यमगन्धवच्च यत् । एतद् व्याख्यातं ब्रह्म अव्ययम् । यद्धि शब्दादिमत्, तद् व्येति; इदं त्वशब्दादिमत्त्वादव्ययं = न व्येति = न क्षीयते; अत एव च नित्यम्; यद्धि व्येति, तदनित्यम्; इदं तु न व्येति; अतो नित्यम् । इतश्च नित्यम् --- अनादि = अविद्यमान आदिः कारणमस्य तदिदमनादि[38]यच्चादिमत्, तत्कार्यत्वादनित्यं कारणे प्रलीयते यथा पृथिव्यादि; इदं तु सर्व-कारणत्वादकार्यम्, अकार्यत्वान्नित्यम्; न तस्य कारणमस्ति [39]यस्मिन्प्रलीयेत । तथा अनन्तम् = अविद्यमानोऽन्तः कार्यमस्य तदनन्तम् । यथा कदल्यादेः फलादि-कार्योत्पादनेनाप्यनित्यत्वं दृष्टम्, न च तथाप्यन्तवत्त्वं ब्रह्मणः; अतोऽपि नित्यम् । महतः = महत्तत्त्वाद्बुद्ध्याख्यात् परं = विलक्षणं नित्य-विज्ञप्ति-स्वरूपत्वात्; सर्व-साक्षि हि सर्व-भूतात्मत्वाद् ब्रह्म । उक्तं हि --- 'एष सर्वेषु भूतेषु' (क॰उ॰ १॰३॰१२) इत्यादि । ध्रुवं= कूटस्थं = नित्यं न पृथिव्यादिवदापेक्षिकं नित्यत्वम् । तत् एवम्भूतं ब्रह्म आत्मानं निचाय्य = अवगम्य तम् आत्मानं मृत्यु-मुखात् = मृत्यु-गोचरादविद्या-काम-कर्म-लक्षणात् प्रमुच्यते = [40]वियुज्यते ॥ १.३.१५ ॥
प्रस्तुत-विज्ञान-स्तुत्यर्थमाह श्रुतिः ---
नाचिकेतमुपाख्यानं मृत्युप्रोक्तँसनातनम् ।
उक्त्वा श्रुत्वा च मेधावी ब्रह्मलोके महीयते ॥ १..१६
नाचिकेतं = नचिकेतसा प्राप्तं नाचिकेतं मृत्युना प्रोक्तं = मृत्यु-प्रोक्तम् इदमाख्यानमुपाख्यानं वल्ली-त्रय-लक्षणं सनातनं = चिरन्तनं वैदिकत्वात् उक्त्वा ब्राह्मणेभ्यः श्रुत्वा च आचार्येभ्यः मेधावी ब्रह्मैव लोको ब्रह्मलोकः तस्मिन् ब्रह्मलोके महीयते = आत्मभूत उपास्यो [41]भवतीत्यभिप्रायः ॥ १.३.१६ ॥
य इमं परमं गुह्यं श्रावयेद् ब्रह्मसंसदि ।
प्रयतः श्राद्धकाले वा तदानन्त्याय कल्पते ।
तदानन्त्याय कल्पत इति ॥ १..१७
यः कश्चिद् इमं = ग्रन्थं परमं = प्रकृष्टं गुह्यं = गोप्यं श्रावयेत् ग्रन्थतोऽर्थतश्च ब्राह्मणानां संसदि = ब्रह्मसंसदि प्रयतः = शुचिर्भूत्वा श्राद्धकाले वा श्रावयेत् [42]भुञ्जानानां, तत् = श्राद्धम् अस्य आनन्त्याय = अनन्तफलाय कल्पते = [43]समर्थ्यते ॥ द्विर्वचनमध्याय-परिसमाप्त्यर्थम् ॥ १.३.१७ ॥
॥ इति श्रीमत्परमहंस-परिव्राजकाचार्य-गोविन्द-भगवत्पूज्यपाद-शिष्य-श्रीमदाचार्य-श्रीशङ्कर-भगवतः कृतौ कठोपनिषद्भाष्ये प्रथमाध्याये तृतीयवल्लीभाष्यम् समाप्तम् ॥
॥ इति काठकोपनिषदि प्रथमोऽध्यायः समाप्तः ॥


[1] रथरूपकद्वारा – इति अन्यपाठे नास्ति ।
[2] परार्ध्ये – इत्यपि पाठम् ।
[3] परार्धे – इति अन्यपाठे नास्ति ।
[4] परार्ध्य(र्ध्य)म् । – इत्यपि पाठम्
[5] हार्दाकाशम् – इति अन्यपाठे नास्ति ।
[6] अतः –इत्यपि पाठम् ।
[7] सेतुः – इति अन्यपाठे नास्ति ।
[8] नाचिकेतं – इति अन्यपाठे नास्ति ।
[9] शक्नुवन्तः – इत्यपि पाठम् ।
[10] संसारपारं – इत्यपि पाठमस्ति ।
[11] शकेमहि शक्नुवन्तः – इत्यपि पाठम् ।
[12] कर्मब्रम्हविदाश्रये – इति अन्यपाठे ।
[13] तमात्मानं – इत्यपि पाठम् ।
[14] प्रग्रहं रसनां विद्धि – इति पाठान्तरम् ।
[15] तेष्वेव – इति पाठान्तरम् ।
[16] आत्मेन्द्रियमनोयुक्तः – इति पाठान्तरम् ।
[17] संयुक्तमात्मानम् – इति अन्यपाठे ।
[18] वस्तु – इति पाठान्तरम् ।
[19] अशक्यान्यनिवारणीयानि – इत्यपि पाठम् ।
[20] तस्य फलमाह – इति एतदन्यपाठे नास्ति ।
[21] यस्तु – इति अन्यपाठे नास्ति ।
[22] निपुणो विवेकवान्युक्तेन मनसा – इति अन्यपाठे नास्ति ।
[23]तस्य – इति पाठान्तरम् ।
[24] कैवल्यं नाप्नोति । - इति पाठभेदम् ।
[25] यैरर्थैरात्मप्रकाशनायारब्धानि – इत्यपि पाठम् ।
[26] अव्यक्ताव्याकृताकाशादिनामवाच्यं / अव्याकृताकाशादिनामवाच्यं – इति पाठान्तरे ।
[27] सर्वकारणत्वात् – इति पाठान्तरम् ।
[28] परिसमाप्तिः – इति पाठान्तरम् ।
[29] सोऽगतंप्रत्यग्रूपं – इति पाठान्तरम् ।
[30] पुरुषं – इति अन्यपाठे नास्ति ।
[31] न विपर्ययेण – इति पाठान्तरे ।
[32] विचित्रा माया चेयम् – इत्यपि पाठम् ।
[33] लोको बम्भ्रमीति – इति पाठान्तरे ।
[34] च – इति अन्यपाठे नास्ति ।
[35] प्रशान्तात्मा – इति पाठान्तरे ।
[36] तत्त्वज्ञानलक्षणं – इति पाठान्तरे ।
[37] स्थूलत्वादिकारणाः – इति पाठान्तरम् ।
[38] यद्ध्यादिमत्तत्कार्यत्वादनित्यं – इति पाठान्तरे ।
[39] यस्मिन्प्रलीयते – इति पाठान्तरम् ।
[40] विमुच्यते – इत्यपि पाठम् ।
[41] भवतीत्यर्थः – इति पाठान्तरे ।
[42] भुञ्जानानां – इति पाठान्तरे ।
[43] सम्पद्यते – इति पाठान्तरे ।

No comments:

Post a Comment