Saturday, October 19, 2013


।।काठकोपनिषत् – वल्ली - 4।।
श्रीमच्छंकरभगवत्पादविरचितेन भाष्येण सहिता।

॥ द्वितीयोऽध्यायः ॥

॥ प्रथमावल्ली ॥

'एष सर्वेषु भूतेषु गुढोऽत्मा न प्रकाशते, दृश्यते त्वग्‍र्यया बुद्ध्या' इत्युक्तम् । कः पुनः [1]प्रतिबन्धोऽग्‍र्यया बुद्धेः, येन तदभावादात्मा न दृश्यत इति तददर्शन-कारण-प्रदर्शनार्था वल्ली आरभ्यते; विज्ञाते हि श्रेयःप्रतिबन्ध-कारणे तदपनयनाय यत्न आरब्धुं शक्यते, नान्यथेति –
पराञ्चि खानि व्यतृणत् स्वयम्भूस्तस्मात्पराङ्पश्यति नान्तरात्मन् ।
कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन् ।। २..१ ।।
पराञ्चि = परागञ्चन्ति गच्छन्तीति, खानि = [2]खोपलक्षितानि श्रोत्रादीनीन्द्रियाणि खानीत्युच्यन्ते । तानि पराञ्च्येव शब्दादि-विषय-प्रकाशनाय प्रवर्तन्ते । यस्मादेवं [3]स्वभावकानि तानि व्यतृणत् = हिंसितवान् = हननं कृतवानित्यर्थः । कोऽसौ? स्वयंभूः = परमेश्वरः, स्वयमेव स्वतन्त्रो भवति सर्वदा न परतन्त्र इति । तस्मात् पराङ् = पराग्रूपाननात्मभूताञ्शब्दादीन् पश्यति = उपलभते = उपलब्धा नान्तरात्मन् = नान्तरात्मानमित्यर्थः । एवं स्वभावेऽपि सति लोकस्य कश्चित् नद्याः प्रतिस्रोतःप्रवर्तनमिव धीरः = धीमान्विवेकी प्रत्यगात्मानं = प्रत्यक् चासावात्मा चेति प्रत्यगात्मा । प्रतीच्येवात्म-शब्दो रूढो लोके, [4]नान्यत्र । व्युत्पत्ति-पक्षेऽपि तत्रैवात्म-शब्दो वर्तते;
'यच्चाप्नोति यदादत्ते यच्चात्ति विषयानिह ।
यच्चास्य संततो भावस्तस्मादात्मेति कीर्त्यते ॥' (लिङ्ग॰ १॰७०॰९६) इत्यात्म-शब्द-व्युत्पत्ति-स्मरणात् ।
तं प्रत्यगात्मानं [5]स्वस्वभावम् ऐक्षत् = अपश्यत् पश्यतीत्यर्थः, छन्दसि कालानियमात् । कथं पश्यतीति, उच्यते --- आवृत्तचक्षुः = आवृत्तं व्यावृत्तं चक्षुः श्रोत्रादिकमिन्द्रिय-जातमशेष-विषयात् यस्य स आवृत्तचक्षुः । स एवं संस्कृतः प्रत्यगात्मानं पश्यति । न हि बाह्य-विषयालोचन-परत्वं प्रत्यगात्मेक्षणं चैकस्य संभवति । [6]किमिच्छन्पुनरित्थं महता प्रयासेन स्वभाव-प्रवृत्ति-निरोधं कृत्वा धीरः प्रत्यगात्मानं पश्यतीति, उच्यते । अमृतत्वम् = अमरण-धर्मत्वं नित्य-स्वभावताम् इच्छन् अत्मन इत्यर्थः ।। २..१ ।।
यत्तावत्स्वाभाविकं परागेवानात्म-दर्शनं तदात्म-दर्शनस्य प्रतिबन्ध-कारणमविद्या तत्प्रतिकूलत्वाद्या च [7]परागेवाविद्योपप्रदर्शितेषु दृष्टादृष्टेषु भोगेषु तृष्णा ताभ्यामविद्या-तृष्णाभ्यां प्रतिबद्धात्म-दर्शनाः ---
पराचः कामाननुयन्ति बालास्ते मृत्योर्यन्ति विततस्य पाशम् ।
अथ धीरा अमृतत्वं विदित्वा ध्रुवमध्रुवेष्विह न प्रार्थयन्ते ।। २..२ ।।
पराचः = बहिर्गतानेव कामान् = काम्यान्विषयान् अनुयन्ति = अनुगच्छन्ति बालाः = अल्प-प्रज्ञाः ते तेन कारणेन मृत्योः अविद्या-काम-कर्म-समुदायस्य यन्ति = गच्छन्ति विततस्य = विस्तीर्णस्य सर्वतो व्याप्तस्य पाशं = पाश्यते बध्यते येन तं पाशं देहिन्द्रियादि-संयोग-वियोग-लक्षणम् । अनवरतं जन्म-मरण-जरा-रोगाद्यनेकानर्थ-व्रातं प्रतिपद्यन्त इत्यर्थः ।
यत एवम् अथ = तस्मात् धीराः = विवेकिनः प्रत्यगात्म-स्वरूपावस्थान-लक्षणम् अमृतत्वं = ध्रुवं विदित्वा । देवाद्यमृतत्वं ह्यध्रुवम्, इदं तु प्रत्यगात्म-स्वरूपावस्थान-लक्षणं ध्रुवम्, 'न कर्मणा वर्धते नो कनीयान्' (बृ॰उ॰ ४॰४॰२३) इति [8]श्रुतेः । तदेवम्भूतं कूटस्थमविचाल्यममृतत्वं विदित्वा अध्रुवेषु = सर्व-पदार्थेषु अनित्येषु निर्धार्य, ब्राह्मणा इह = संसारेऽनर्थप्राये न प्रार्थयन्ते किंचिदपि प्रत्यगात्म-दर्शन-प्रतिकूलत्वात् । पुत्र-वित्त-लोकैषणाभ्यो [9]व्युत्तिष्ठन्त्येवेत्यभिप्रायः ।। २..२ ।।
यद्विज्ञानान्न किंचिदन्यत्प्रार्थयन्ते ब्राह्मणाः, कथं तदधिगम इति, उच्यते ---
येन रूपं रसं गन्धं शब्दान् स्पर्शाँ श्च मैथुनान् ।
एतेनैव विजानाति किमत्र परिशिष्यते । एतद्वै तत् ।। २..३।।
येन = विज्ञान-स्वभावेनात्मना रूपं रसं गन्धं शब्दान् स्पर्शांश्च मैथुनान्  = [10]मैथुन-निमित्तान्सुख-प्रत्ययान् विजानाति = विस्पष्टं जानाति सर्वो लोकः ।
ननु नैवं प्रसिद्धिर्लोकस्य आत्मना देहादि-विलक्षणेनाहं विजानामीति । देहादि-संघातोऽहं विजानामीति तु सर्वो लोकोऽवगच्छति ।
दृग्दृश्यविवेचनम्
[11]ननु देहादि-संघातस्यापि शब्दादि-स्वरूपत्वाविशेषाद्विज्ञेयत्वाविशेषाच्च न युक्तं विज्ञातृत्वम् । यदि हि देहादि-संघातो रूपाद्यात्मकः सन् रूपादीन्विजानीयात्, [12]तर्हि बाह्या अपि रूपादयोऽन्योन्यं स्वं स्वं रूपं च विजानीयुः । न चैतदस्ति । तस्माद्देहादि-लक्षणांश्च रूपादीन् एतेनैव = देहादि-व्यतिरिक्तेनैव विज्ञान-स्वभावेनात्मना विजानाति लोकः । यथा येन लोहो दहति सोऽग्निरिति तद्वत् ।
आत्मनोऽविज्ञेयम् । किम् अत्र = अस्मिँल्लोके परिशिष्यते न किंचित्परिशिष्यते । सर्वमेव त्वात्मना विज्ञेयम्, यस्यात्मनोऽविज्ञेयं न किंचित्परिशिष्यते, स आत्मा सर्वज्ञः । एतद्वै तत् । किं तत् यन्नचिकेतसा पृष्टं देवादिभिरपि विचिकित्सितं धर्मादिभ्योऽन्यत् विष्णोः परमं पदं यस्मात्परं नास्ति तद्वा एतत् अधिगतमित्यर्थः ।। २..३।।
अतिसूक्ष्मत्वाद्दुर्विज्ञेयमिति मत्वैतमेवार्थं पुनः पुनराह ---
स्वप्नान्तं जागरितान्तं चोभौ येनानुपश्यति ।
महान्तं विभुमात्मानं मत्वा धीरो न शोचति ।। २..४।।
स्वप्नान्तं = स्वप्न-मध्यं = [13]स्वप्न-विज्ञेयमित्येतत् । तथा जागरितान्तं = जागरित-मध्यं = जागरित-विज्ञेयं उभौ स्वप्न-जागरितान्तौ येन आत्मना अनुपश्यति लोक इति सर्वं पूर्ववत् । तं महान्तं विभुमात्मानं मत्वा = अवगम्यात्मभावेन साक्षादहमस्मि परमात्मेति धीरः न शोचति ।। २..४।।
किं च,
य इमं मध्वदं वेद आत्मानं जीवमन्तिकात् ।
ईशानं भूतभव्यस्य न ततो विजुगुप्सते । एतद्वै तत् ।। २..५।।
यः कश्चित् इमं मध्वदं = कर्म-फल-भुजं जीवं = प्राणादि-कलापस्य धारयितारम् आत्मानं वेद = विजानाति अन्तिकात् = अन्तिके = समीपे ईशानम् = ईशितारं भूत-भव्यस्य = काल-त्रयस्य, ततः तद्विज्ञानादूर्ध्वमात्मानं न विजुगुप्सते = न गोपायितुमिच्छति, अभय-प्राप्तत्वात् ।
यावद्धि भय-मध्यस्थोऽनित्यमात्मानं मन्यते तावद्गोपायितुमिच्छत्यात्मानम् । यदा तु नित्यमद्वैतमात्मानं विजानाति, तदा [14]कः, किं, कुतो वा गोपायितुमिच्छेत् । एतद्वै तद् इति पूर्ववत् ।। २..५।।
यः प्रत्यगात्मेश्वर-भावेन निर्दिष्टः, स सर्वात्मेत्येतद्दर्शयति ---
यः पूर्वं तपसो जातमद्भ्यः पूर्वमजायत ।
गुहां प्रविश्य तिष्ठन्तं यो भूतेभिर्व्यपश्यत । एतद्वै तत् ।। २..६।।
यः = कश्चिन्मुमुक्षुः पूर्वं = प्रथमं तपसः = ज्ञानादि-लक्षणाद्ब्रह्मण इत्येतत्; जातम् = उत्पन्नं = हिरण्य-गर्भम् । किमपेक्ष्य पूर्वमिति, आह --- अद्भ्यः पूर्वम् अप्सहितेभ्यः पञ्च-भूतेभ्यः, न केवलाभ्योऽद्भ्य इत्यभिप्रायः । अजायत उत्पन्नः यस्तं प्रथमजं देवादि-शरीराण्युत्पाद्य सर्व-प्राणि-गुहां हृदयाकाशं प्रविश्य तिष्ठन्तं शब्दादीनुपलभमानं भूतेभिः भूतैः कार्य-करण-लक्षणैः सह तिष्ठन्तं यो व्यपश्यत यः पश्यतीत्येतत्; य एवं पश्यति, स एतदेव पश्यति --- यत्तत्प्रकृतं ब्रह्म ।। २..६।।
किं च,
या प्राणेन संभवत्यदितिर्देवतामयी ।
गुहां प्रविश्य तिष्ठन्तीं या भूतेभिर्व्यजायत ।
 एतद्वै तत् ।। २..७।।
या सर्व-देवतामयी = सर्व-देवतात्मिका प्राणेन = हिरण्य-गर्भ-रूपेण परस्माद्ब्रह्मणः संभवति शब्दादीनामदनात् = अदितिः तां पूर्ववद् गुहां प्रविश्य तिष्ठन्तीम् अदितिम् । तामेव विशिनष्टि --- या भूतेभिः भूतैः समन्विता व्यजायत = उत्पन्नेत्येतत् ।। २..७ ।।
किं च,
अरण्योर्निहितो जातवेदा गर्भ इव सुभृतो गर्भिणीभिः ।
दिवे दिवे ईड्यो जागृवद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः ।
एतद्वै तत् ।।२..८।।
[15]यः अधियज्ञम् उत्तराधरारण्योर्निहितः = स्थितः जातवेदा = अग्निः पुनः सर्व-हविषां भोक्ता अध्यात्मं च योगिभिः, गर्भ इव गर्भिणीभिः [16]अन्तर्वत्नीभिः अगर्हितान्नभोजनादिना यथा गर्भः सुभृतः = सुष्ठु सम्यग्भृतो [17]लोके, इत्थमेव ऋत्विग्भिर्योगिभिश्च सुभृत इत्येतत् । किं च, दिवे दिवे  = अहन्यहनि ईड्यः  = स्तुत्यो = वन्द्यश्च कर्मिभिर्योभिश्चाध्वरे हृदये च जागृवद्भिः = [18]जागरण-शीलैः = अप्रमत्तैरित्येतत् । हविष्मद्भिः = आज्यादिमद्भिः ध्यान-भावनावद्भिश्च मनुष्येभिः = मनुष्यैः अग्निः; एतद्वै तत् तदेव प्रकृतं ब्रह्म ।। २..८ ।।
किं च,
यतश्चोदेति सूर्योऽस्तं यत्र च गच्छति ।
तं देवाः सर्वेऽर्पितास्तदु नात्येति कश्चन । एतद्वै तत् ।। २..९ ।।
यतश्च = यस्मात्प्राणात् उदेति = उत्तिष्ठति सूर्यः, अस्तं = निम्लोचनं = [19]तिरोधानं यत्र = यस्मिन्नेव प्राणे अहन्यहनि गच्छति, तं = प्राणमात्मानं देवाः [20]सर्वे = अग्न्यादयः अधिदैवं, वागादयश्चाध्यात्मं, सर्वे विश्वे अरा इव रथनाभौ अर्पिताः = संप्रवेशिताः स्थिति-काले । सोऽपि ब्रह्मैव । तत् = एतत्सर्वात्मकं ब्रह्म, [21] नात्येति नातीत्य तदात्मकतां तदन्यत्वं गच्छति, कश्चन = कश्चिदपि एतद्वै तत् ।। २..९ ।।
यद्ब्रह्मादि-स्थावरान्तेषु वर्तमानं [22]तत्तदुपाधित्वादब्रह्मवदवभासमानं संसार्यन्यत्परस्माद्ब्रह्मण इति मा भूत्कस्यचिदाशङ्केतीदमाह ---
यदेवेह तदमुत्र यदमुत्र तदन्विह ।
मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ।। २..१० ।।
यदेवेह कार्य-कारणोपाधि-समन्वितं संसार-धर्मवदवभासमानमविवेकिनाम्, तद् एव स्वात्मस्थम् अमुत्र = नित्य-विज्ञान-घन-स्वभावं सर्व-संसार-धर्म-वर्जितं ब्रह्म । यत् अमुत्र = अमुष्मिन्नात्मनि स्थितम्, [23]तदनु इह तदेव इह कार्यकरणनामरूपोपाधिम् अनु विभाव्यमानं नान्यत् ।
तत्रैवं सति उपाधि-स्वभाव-भेद-दृष्टि-लक्षणया अविद्यया मोहितः सन् य इह ब्रह्मण्यनानाभूते परस्मादन्योऽहं मत्तोऽन्यत्परं ब्रह्मेति नानेव भिन्नमिव पश्यति = उपलभते, [24]मृत्योः मरणात् मृत्युं = मरणं पुनः [25]पुनः जनन-मरण-भावम् आप्नोति = प्रतिपद्यते । तस्मात्तथा न पश्येत् । विज्ञानैकरसं नैरन्तर्येणाकाशवत्परिपूर्णं ब्रह्मैवाहमस्मीति पश्येदिति वाक्यार्थः ।। २..१० ।।
प्रागेकत्व-विज्ञानादाचार्यागम-संस्कृतेन ---
मनसैवेदमाप्तव्यं नेह नानाऽस्ति किंचन ।
मृत्योः स मृत्युं गच्छति य इह नानेव पश्यति ।। २..११ ।।
[26]मनसैव इदं = ब्रह्मैकरसम् आप्तव्यम् आत्मैव नान्यदस्तीति । आप्ते च नानात्व-प्रत्युपस्थापिकाया अविद्याया निवृत्तत्वात् इह = ब्रह्मणि नाना नास्ति किञ्चन अणु-मात्रमपि । ः तु पुनरविद्या-तिमिर-दृष्टिं न मुञ्चति इह = ब्रह्मणि नानेव पश्यति, स मृत्योर्मृत्युं गच्छति एव स्वल्पमपि भेदमध्यारोपयन्नित्यर्थः ।। २..११ ।।
पुनः अपि तद्-एव प्रकृतं ब्रह्म आह ---
अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति ।
ईशानं भूतभव्यस्य न ततो विजुगुप्सते । एतद्वै तत् ।। २..१२ ।।
अङ्गुष्ठ-मात्रः = अङ्गुष्ठ-परिमाणः । अङ्गुष्ठ-परिमाणं हृदय-पुण्डरीकं तत्-छिद्रवर्त्यन्तःकरणोपाधिरङ्गुष्ठमात्रः अङ्गुष्ठमात्रवंशपर्वमध्यवर्त्यम्बरवत्पुरुषः पूर्णमनेन सर्वमितिमध्ये आत्मनि = शरीरे तिष्ठति यः तम् आत्मानम् ईशानं भूतभव्यस्य विदित्वा, न तत इत्यादि पूर्ववत् ।। २..१२ ।।
किं च,
अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः ।
ईशानो भूतभव्यस्य स एवाद्य स उ श्वः । एतद्वै तत् ।। २..१३ ।।
अङ्गुष्ठमात्रः पुरुषः ज्योतिरिव अधूमकः, अधूमकमिति युक्तं ज्योतिःपरत्वात् । यस्त्वेवं लक्षितो योगिभिर्हृदये ईशानः भूतभव्यस्य [27]स एव नित्यः कूटस्थः अद्य = इदानीं प्राणिषु वर्तमानः स उ श्वोऽपि वर्तिष्यते, नान्यस्तत्समोऽन्यश्च जनिष्यत इत्यर्थः। अनेन 'नायमस्तीति चैके' (क॰उ॰ १॰१॰२०) इत्ययं पक्षो न्यायतोऽप्राप्तोऽपि स्ववचनेन श्रुत्या प्रत्युक्तः, तथा क्षणभङ्गवादश्च ।। २..१३ ।।
पुनरपि भेददर्शनापवादं ब्रह्मण आह ---
यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति ।
एवं धर्मान् पृथक् पश्यंस्तानेवानुविधावति ।। २..१४ ।।
यथा उदकं दुर्गे = दुर्गमे देशे = उच्छ्रिते वृष्टं = सिक्तं पर्वतेषु = [28]पर्ववत्सु निम्न-प्रदेशेषु विधावति = विकीर्णं सद्विनश्यति, एवं धर्मान् आत्मनोऽभिन्नान् पृथक् पश्यन् = पृथगेव प्रतिशरीरं पश्यन् तानेव शरीर-भेदानुवर्तिनः अनुविधावति । शरीर-भेदमेव पृथक् पुनः पुनः प्रतिपद्यत इत्यर्थः ।। २..१४ ।।
[29]अस्य पुनर्विद्यावतो विध्वस्तोपाधिकृतभेददर्शनस्य [30]शुद्ध-विज्ञान-घनैकरसमद्वयमात्मानं पश्यतो विजानतो मुनेर्मनन-शीलस्यात्म-स्वरूपं कथं [31]संभवतीति, उच्यते ---
यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति ।
एवं मुनेर्विजानत आत्मा भवति गौतम ।। २..१५ ।।
यथा उदकं शुद्धे = प्रसन्ने शुद्धं = प्रसन्नम् आसिक्तं = प्रक्षिप्तम् एकरसमेव नान्यथा, तादृगेव भवति अत्माप्येवमेव भवति एकत्वं विजानतो मुनेः मनन-शीलस्य हे गौतम । तस्मात्कुतार्किक-भेद-दृष्टिं नास्तिक-कुदृष्टिं चोज्झित्वा मातृ-पितृ-सहस्रेभ्योऽपि हितैषिणा वेदेनोपदिष्टमात्मैकत्व-दर्शनं शान्त-दर्पैरादरणीयमित्यर्थः ।। २..१५ ।।
इति चतुर्थवल्लीभाष्यम् ।।
इति श्रीमत्परमहंस-परिव्राजकाचार्य-गोविन्द-भगवत्पूज्यपाद-शिष्य-
श्रीमदाचार्य-श्रीशङ्कर-भगवतः कृतौ कठोपनिषद्भाष्ये
द्वितीयाध्याये प्रथमवल्लीभाष्यम्समाप्तम् ॥


[1] प्रतिबन्धोऽग्‍र्याया – इति पाठान्तरम् ।
[2] तदुपलक्षितानि – इत्यपि पाठान्तरे ।
[3] स्वाभाविकानि – इत्यपि पाठान्तरे ।
[4] नान्यस्मिन् – इति पाठान्तरे ।
[5] स्वं स्वभाम् – इति पाठान्तरे ।
[6] किमर्थं पुनरित्थं – इति पाठान्तरे ।
[7] पराक्ष्वेवाविद्योपप्रदर्शितेषु/ पराक्ष्वेवाविद्योपदर्शितेषु – इति पाठान्तरे ।
[8] ध्रुवम् । - इति पाठान्तरे ।
[9] व्युत्तिष्ठन्त्येवेत्यर्थः । – इति पाठान्तरे ।
[10] मिथुननिमित्तान् – इति पाठान्तरम् ।
[11] न त्वेवं – इति पाठान्तरम् ।
[12] तर्हि  - इति अन्यपाठे नास्ति ।
[13] स्वप्नविज्ञेयमित्यर्थः – इति पाठान्तरे ।
[14] किं कः कुतो – इति पाठान्तरे ।
[15] योऽधियज्ञ – इति पाठान्तरे ।
[16] अन्तर्वत्नीभिरगर्हितान्नपानभोजनादिना – इति पाठान्तरे ।
[17] लोक इवेत्थमेव / लोक इतीतेथमेव – इति पाठान्तरम् ।
[18] जागरणशीलवद्भिः – इति पाठान्तरम् ।
[19] तिरोधानम् – इति अनयपाठे नास्ति ।
[20] सर्वे – इति अन्यपाठे नास्ति ।
[21] तदु – इति पाठान्तरे ।
[22] तत्तदुपाधिकत्वात् – इत्यपि पाठम् ।
[23] तदेवेह नामरूपकार्यकरणोपाधिं – इति पाठान्तरे ।
[24] मृत्योर्मरणान्मरणं मृत्युं – इति पाठान्तरे ।
[25] पुनर्जन्ममरणभावं – इति पाठान्तरे ।
[26] मनसेदम् – इति पाठान्तरम् ।
[27] स नित्यः – इति पाठान्तरम् ।
[28] पर्वतवत्सु – इति पाठान्तरम् ।
[29] यस्य – इति पाठान्तरे ।
[30] विशुद्धविज्ञान – इति पाठान्तरे ।
[31] भवति – इत्यपि पाठम् ।

No comments:

Post a Comment