॥काठकोपनिषत्॥
श्रीमच्छंकरभगवत्पादविरचितेन भाष्येण
सहिता।
द्वितीयोऽध्यायः।
पञ्चमी वल्ली।
पुनरपि प्रकारान्तरेण
ब्रह्मतत्त्वनिर्धारणार्थोऽयमारम्भः, दुर्विज्ञेयत्वाद्ब्रह्मणः
---
पुरमेकादशद्वारमजस्यावक्रचेतसः ।
अनुष्ठाय न शोचति विमुक्तश्च विमुच्यते । एतद्वै
तत् ॥ २.२.१ ॥
शरीरस्य ब्रम्हपुरत्वम्
पुरं पुरमिव पुरम्
। द्वारपालाधिष्ठात्राद्यनेक-पुरोपकरण-संपत्ति-दर्शनात् शरीरं = पुरम्
। पुरं च सोपकरणं स्वात्मना असंहत-स्वतन्त्र-स्वाम्यर्थं दृष्टम् । तथेदं पुर-सामान्यादनेकोपकरण-संहतं शरीरं स्वात्मना असंहत-राज-स्थानीय-स्वाम्यर्थं भवितुमर्हति ।
तच्चेदं शरीराख्यं पुरम् एकादश-द्वारम्;
एकादश द्वाराण्यस्य --- सप्त शीर्षण्यानि,
नाभ्या सहार्वाञ्चि त्रीणि, शिरस्येकम्,
तैरेकादश-द्वारं पुरम् । कस्य?
अजस्य
जन्मादिविक्रियारहितस्यात्मनो राजस्थानीयस्य पुरधर्मविलक्षणस्य । अवक्रचेतसः = अवक्रम्
= अकुटिलमादित्य-प्रकाशवन्नित्यमेवावस्थितमेक-रूपं चेतो
विज्ञानमस्येति अवक्रचेताः तस्यावक्र-चेतसः राज-स्थानीयस्य = ब्रह्मणः ।
स्वात्मानुभवेन शोकादिनिवृत्तिः
यस्येदं पुरं तं परमेश्वरं पुर-स्वामिनम् अनुष्ठाय = ध्यात्वा । ध्यानं हि तस्यानुष्ठानं
सम्यग्विज्ञान-पूर्वकम् । तं सर्वैषणा-विनिर्मुक्तः सन्समं सर्व-भूतस्थं ध्यात्वा न शोचति ।
तद्विज्ञानादभय-प्राप्तेः शोकावसराभावात्कुतो भयेक्षा ।
इहैवाविद्या-कृत-काम-कर्म-बन्धनैर्विमुक्तो भवति । विमुक्तश्च सन् विमुच्यते;
पुनः शरीरं न गृह्णातीत्यर्थः ॥ २.२.१ ॥
स तु [1]नैकपुरवर्त्येवात्मा
किं तर्हि सर्व-पुरवर्ती । कथम्?
हँ≍सः
शुचिषद्वसुरान्तरिक्षसद् होता वेदिषदतिथिर्दुरोणसत् ।
नृषद्वरसदृतसद्व्योमसद् अब्जा गोजा ऋतजा अद्रिजा
ऋतं बृहत् ॥ २.२.२ ॥
आत्मनः सर्वपुरान्तर्वर्त्तित्वम्
हंसः हन्ति गच्छतीति । शुचिषत्
शुचौ = दिवि आदित्यात्मना सीदतीति । वसुः वासयति सर्वानिति
। वाय्वात्मना अन्तरिक्षे सीदतीति अन्तरिक्षसत् । होता =
अग्निः, 'अग्निर्वै
होता' इति श्रुतेः । वेद्यां
पृथिव्यां सीदतीति वेदिषत्, 'इयं वेदिः परोऽन्तः पृथिव्याः' (ऋ॰सं॰ २॰३॰२०) [2]इति मन्त्र-वर्णात् । अतिथिः सोमः सन् दुरोणे कलशे सीदतीति दुरोणसत् / ब्राह्मणोऽतिथिरुपेण वा दुरोणेषु गृहेषु सीदतीति [3]दुरोणसत् ।
नृषत् नृषु मनुष्येषु
सीदतीति नृषत् । वरसत् वरेषु देवेषु सीदतीति
[4]वरसत्
। ऋतसत् ऋतं = सत्यं, यज्ञो वा, तस्मिन्
सीदतीति [5]ऋतसत् । व्योमसत् व्योम्नि
= आकाशे सीदतीति
व्योमसत् । अब्जाः अप्सु शङ्ख-शुक्ति-मकरादि-रूपेण जायत इति [6]अब्जाः । गोजाः गवि
पृथिव्यां व्रीहि-यवादि-रूपेण जायत इति [7]गोजाः । ऋतजाः यज्ञाङ्ग-रूपेण जायत इति [8]ऋतजाः । अद्रिजाः पर्वतेभ्यो
नद्यादि-रूपेण जायत इति [9]अद्रिजाः ।
सर्वात्मापि सन् ऋतम्
= अवितथ-स्वभाव एव । बृहत् =
महान्, सर्व-कारणत्वात् । यदाप्यादित्य एव
मन्त्रेणोच्यते [10]तदाप्यात्म-स्वरूपत्वमादित्यस्याङ्गीकृतमिति
ब्रह्मणि व्याख्याने अप्यविरोधः । [11]सर्वथाप्येक
एवात्मा जगतः, नात्मभेद इति मन्त्रार्थः ॥ २.२.२ ॥
आत्मनः स्वरूपाधिगमे लिङ्गमुच्यते ---
ऊर्ध्वं प्राणमुन्नयत्यपानं प्रत्यगस्यति ।
मध्ये वामनमासीनं विश्वे देवा उपासते ॥ २.२.३ ॥
आत्मनः प्राणापानयोरधिष्ठातृत्वम्
ऊर्ध्वं
हृदयात् प्राणं = प्राणवृत्तिं
वायुम् उन्नयति ऊर्ध्वं गमयति । तथा अपानं प्रत्यक् =
अधः अस्यति = क्षिपति
यः इति वाक्यशेषः । तं मध्ये = हृदय-पुण्डरीकाकाश आसीनं
= बुद्धावभिव्यक्तं विज्ञान-प्रकाशनं वामनं = [12]वननीयं = संभजनीयं विश्वे
= सर्वे देवाः = चक्षुरादयः प्राणाः रूपादि-विज्ञानं बलिमुपाहरन्तो
विश इव राजानम् उपासते = तादर्थ्येनानुपरतव्यापारा
भवन्तीत्यर्थः । यदर्था यत्प्रयुक्ताश्च सर्वे वायु-करण-व्यापाराः, सोऽन्यः सिद्ध इति वाक्यार्थः ॥ २.२.३ ॥
किं च,
अस्य विस्रंसमानस्य शरीरस्थस्य देहिनः ।
देहाद्विमुच्यमानस्य किमत्र परिशिष्यते । एतद्वै
तत् ॥ २.२.४ ॥
अस्य शरीर-स्थस्य आत्मनो विस्रंसमानस्य = अवस्रंसमानस्य =
भ्रंशमानस्य देहिनो देहवतः ।
विस्रंसन-शब्दार्थमाह --- देहाद्विमुच्यमानस्य इति । किमत्र
परिशिष्यते प्राणादि-कलापे न किञ्चन परिशिष्यते;
अत्र देहे [13]पुर-स्वामि-विद्रवण इव पुर-वासिनां
यस्यात्मनोऽपगमे क्षण-मात्रात्कार्य-करण-कलाप-रूपं सर्वमिदं हत-बलं
विध्वस्तं भवति विनष्टं भवति, सोऽन्यः सिद्ध [14]आत्मा
॥ २.२.४ ॥
स्यान्मतं प्राणापानाद्यपगमादेवेदं विध्वस्तं
भवति न तु [15]व्यतिरिक्तात्मापगमात्,
प्राणादिभिरेवेह मर्त्यो जीवतीति; नैतदस्ति
---
न प्राणेन नापानेन मर्त्यो जीवति कश्चन ।
इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ ॥ २.२.५ ॥
न प्राणेन नापानेन चक्षुरादिना वा मर्त्यः = मनुष्यो देहवान् कश्चन जीवति = न कोऽपि जीवति । न ह्येषां परार्थानां
संहत्यकारित्वाज्जीवनहेतुत्वमुपपद्यते । स्वार्थेनासंहतेन परेण [16]संहतानामवस्थानं
न दृष्टं केनचिदप्रयुक्तं यथा गृहादीनां लोके; तथा
प्राणादीनामपि संहतत्वाद्भवितुमर्हति ।
अत [17]इतरेण तु = इतरेणैव संहत-प्राणादि-विलक्षणेन तु सर्वे संहताः सन्तो जीवन्ति = प्राणान्धारयन्ति । यस्मिन् = संहत-विलक्षण आत्मनि सति परस्मिन् एतौ =
प्राणापानौ चक्षुरादिभिः संहतौ = उपाश्रितौ यस्यासंहतस्यार्थे
प्राणापानादिः [18]सर्वं
व्यापारं कुर्वन्वर्तते संहतः सन् स ततोऽन्यः सिद्ध इत्यभिप्रायः ॥ २.२.५ ॥
हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम् ।
यथा च मरणं प्राप्य आत्मा भवति गौतम ॥ २.२.६ ॥
हन्त इदानीं
पुनरपि ते तुभ्यम् इदं
गुह्यं = गोप्यं ब्रह्म सनातनं = चिरन्तनं प्रवक्ष्यामि । यद्विज्ञानात्सर्वसंसारोपरमो भवति,
अविज्ञानाच्च यस्य मरणं प्राप्य [19]यथा च आत्मा भवति =
यथा आत्मा संसरति तथा श्रृणु हे गौतम
॥ २.२.६ ॥
योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः ।
स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम् ॥ २.२.७ ॥
योनिं =
योनि-द्वारं शुक्र-बीज-समन्विताः सन्तो अन्ये = केचिदविद्यावन्तः = मूढाः प्रपद्यन्ते
शरीरत्वाय शरीर-ग्रहणार्थं देहिनः देहवन्तः योनिं प्रविशन्तीत्यर्थः । स्थाणुं = वृक्षादि-स्थावर-भावम् अन्ये =
अत्यन्ताधमा मरणं प्राप्य अनुसंयन्ति
= अनुगच्छन्ति । यथाकर्म =
यद्यस्य कर्म तद्यथाकर्म यैर्यादृशं कर्म इह
जन्मनि कृतं तद्वशेनेत्येतत् । [20]तथा
यथाश्रुतं = यादृशं च विज्ञानमुपार्जितं तदनुरूपमेव शरीरं प्रतिपद्यन्त
इत्यर्थः; 'यथाप्रज्ञं हि
संभवाः' (ए॰आ॰ २॰३॰२) इति श्रुत्यन्तरात् ॥ २.२.७ ॥
यत्प्रतिज्ञातं गुह्यं ब्रह्म प्रवक्ष्यामीति
तदाह ---
य एष सुप्तेषु जागर्ति कामं कामं पुरुषो
निर्मिमाणः ।
तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते ।
तस्मिँल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन
। एतद्वै तत् ॥ २.२.८ ॥
य एष सुप्तेषु प्राणादिषु जागर्ति = न स्वपिति; कथम्? कामं कामं तं तमभिप्रेतं
स्त्र्याद्यर्थमविद्यया निर्मिमाणः = निष्पादयन्, जागर्ति पुरुषः यः, तदेव शुक्रं = शुभ्रं = शुद्धं तद्ब्रह्म
नान्यद्गुह्यं ब्रह्मास्ति । तदेव अमृतम् =
अविनाशि उच्यते सर्व-शास्त्रेषु । किं च, पृथिव्यादयो लोकास्तस्मिन् एव सर्वे [21]ब्रह्मणि
श्रिताः = आश्रिताः, सर्वलोककारणत्वात्तस्य । तदु नात्येति कश्चन इत्यादि
पूर्ववदेव ॥ २.२.८ ॥
[22]अतः कुतार्किकपाषण्डबुद्धिविचालितान्तःकरणानां [23]प्रमाणोपपन्नमप्यात्मैकत्व-विज्ञानमसकृदुच्यमानमप्यनृजुबुद्धीनां ब्राह्मणानां चेतसि नाधीयत इति
तत्प्रतिपादन आदरवती पुनः पुनराह श्रुतिः ---
अग्निर्यथैको भुवनं प्रविष्टो रूपं रूपं
प्रतिरूपो बभूव ।
एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो
बहिश्च ॥ २.२.९ ॥
अग्निः यथा एक एव प्रकाशात्मा सन् भुवनम्,
= भवन्त्यस्मिन्भूतानीति भुवनम्, = अयं लोकः, तमिमं प्रविष्टः
= अनुप्रविष्टः, रूपं
रूपं प्रति, दार्वादि-दाह्य-भेदं प्रतीत्यर्थः, प्रतिरूपः तत्र तत्र प्रतिरूपवान् दाह्य-भेदेन बहुविधो बभूव; एक एव तथा
सर्व-भूतान्तरात्मा [24]रूपं
रूपं सर्वेषां भूतानामभ्यन्तर आत्मा
अतिसूक्ष्मत्वाद्दार्वादिष्विव सर्व-देहं प्रति
प्रविष्टत्वात् प्रतिरूपो बभूव बहिश्च स्वेनाविकृतेन रूपेण[25]
आकाशवत् ॥ २.२.९ ॥
तथान्यो दृष्टान्तः
---
वायुर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो
बभूव ।
एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो
बहिश्च ॥ २.२.१० ॥
वायुर्यथैक इत्यादि। प्राणात्मना देहेष्वनुप्रविष्टः। रूपं
रूपं प्रतिरूपो बभूवेत्यादि समानम् ।। २.२.१० ॥
सूर्यो यथा सर्वलोकस्य चक्षुः न लिप्यते
चाक्षुषैर्बाह्यदोषैः ।
एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन
बाह्यः ॥ २.२.११॥
सूर्यः यथा चक्षुष आलोकेनोपकारं कुर्वन्मूत्र-पुरीषाद्यशुचि-प्रकाशनेन तद्दर्शिनः सर्वलोकस्य चक्षुः अपि
सन् न लिप्यते चाक्षुषैः अशुच्यादि-दर्शन-निमित्तैराध्यात्मिकैः पाप-दोषैः बाह्यैश्च अशुच्यादि-संसर्गदोषैः एकः
सन्, तथा सर्व-भूतान्तरात्मा न लिप्यते लोक-दुःखेन बाह्यः ।
लोको ह्यविद्यया स्वात्मन्यध्यस्तया काम-कर्मोद्भवं दुःखमनुभवति । न तु सा परमार्थतः स्वात्मनि । यथा [27]रज्जु-शुक्तिकोषर-गगनेषु सर्प-रजतोदक-मलानि न रज्ज्वादीनां स्वतो दोष-रूपाणि सन्ति,
[28]संसर्गिणि विपरीत-बुद्ध्यध्यास-निमित्तात्तु तद्दोषवद्विभाव्यन्ते; न तद्दोषैस्तेषां
लेपः, विपरीत-बुद्ध्यध्यास-बाह्या हि ते;
तथा आत्मनि सर्वो लोकः क्रिया-कारक-फलात्मकं विज्ञानं सर्पादि-स्थानीयं विपरीतमध्यस्य तन्निमित्तं जन्म-मरणादि-दुःखमनुभवति; न त्वात्मा सर्व-लोकात्मापि
सन् विपरीताध्यारोप-निमित्तेन लिप्यते लोक-दुःखेन । कुतः? बाह्यः रज्ज्वादिवदेव विपरीत-बुद्ध्यध्यास-बाह्यो हि स इति ॥ २.२.११ ॥
किं च,
एको वशी सर्वभूतान्तरात्मा एकं रूपं बहुधा यः
करोति ।
तमात्मस्थं येऽनुपश्यन्ति धीराः तेषां सुखं
शाश्वतं नेतरेषाम् ॥ २.२.१२ ॥
स हि परमेश्वरः सर्वगतः स्वतन्त्रः एकः, न तत्समोऽभ्यधिको वान्योऽस्ति
। वशी, सर्वं ह्यस्य जगद्वशे
वर्तते । कुतः? सर्वभूतान्तरात्मा
। यत एकमेव सदैकरसमात्मानं [29]विशुद्ध-विज्ञान-घन-रूपं नाम-रूपाद्यशुद्धोपाधि-भेद-वशेन बहुधा [30]अनेक-प्रकारेण यः करोति स्वात्म-सत्ता-मात्रेण अचिन्त्य-शक्तित्वात्,
तम् आत्मस्थं स्वशरीर-हृदयाकाशे = बुद्धौ चैतन्याकारेणाभिव्यक्तमित्येतत् ।
न हि शरीरस्याधारत्वमात्मनः, आकाशवदमूर्तत्वात्; आदर्शस्थं मुखमिति यद्वत् ।
तमेतमीश्वरमात्मानं ये = निवृत्त-बाह्य-वृत्तयो अनुपश्यन्ति = आचार्यागमोपदेशमनु साक्षादनुभवन्ति धीराः =
विवेकिनः, तेषां = परमेश्वरभूतानां शाश्वतं
= नित्यं सुखम् = आत्मानन्द-लक्षणं भवति, नेतरेषां बाह्यासक्त-बुद्धीनामविवेकिनां
स्वात्मभूतमपि, अविद्याव्यवधानात् ॥ २.२.१२ ॥
किं च,
नित्योऽनित्यानां चेतनश्चेतनानाम् एको बहूनां यो
विदधाति कामान् ।
तमात्मस्थं येऽनुपश्यन्ति धीराः तेषां शान्तिः शाश्वती
नेतरेषाम् ॥ २.२.१३ ॥
नित्यः =
अविनाशी अनित्यानाम् = विनाशिनाम् । चेतनः चेतनानां = चेतयितॄणां = ब्रह्मादीनां प्राणिनाम् । अग्नि-निमित्तमिव दाहकत्वम् अनग्नीनाम् उदकादीनामात्मचैतन्यनिमित्तमेव
चेतयितृत्वमन्येषाम् । किं च, स सर्वज्ञः सर्वेश्वरः कामिनां
संसारिणां कर्मानुरूपं कामान् = कर्म-फलानि स्वानुग्रहनिमित्तांश्च [31]कामान्
य एको बहूनाम् अनेकेषाम् अनायासेन विदधाति = प्रयच्छतीत्येतत् । तम् आत्मस्थं ये अनुपश्यन्ति धीराः, तेषां शान्तिः =
उपरतिः शाश्वती = नित्या स्वात्मभूतैव स्यात् । न इतरेषाम् =
अनेवंविधानाम् ॥ २.२.१३ ॥
तदेतदिति मन्यन्तेऽनिर्देश्यं परमं सुखम् ।
कथं नु तद्विजानीयां किमु भाति विभाति वा ॥ २.२.१४ ॥
यत्तदात्मविज्ञानसुखम्
अनिर्देश्यं = निर्देष्टुमशक्यं परमं प्रकृष्टं प्राकृत-पुरुष-वाङ्मनसयोरगोचरमपि सन्निवृत्तैषणा ये ब्राह्मणास्ते तदेतत्प्रत्यक्षमेवेति
मन्यन्ते, कथं नु =
केन प्रकारेण तत् सुखमहं विजानीयाम् इदमित्यात्मबुद्धिविषयमापादयेयं यथा [32]निवृत्तविषयैषणा
यतयः । किमु तत् भाति
= दीप्यते प्रकाशात्मकं तत् यतोऽस्मद्बुद्धिगोचरत्वेन विभाति = विस्पष्टं दृश्यते किं वा नेति ॥ २.२.१४ ॥
अत्रोत्तरमिदं भाति च
विभाति चेति । कथम्? ---
न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो
भान्ति कुतोऽयमग्निः ।
तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं
विभाति ॥ २.२.१५ ॥
न तत्र
तस्मिन्स्वात्मभूते ब्रह्मणि सर्वावभासकोऽपि सूर्यः भाति
तद्ब्रह्म न प्रकाशयतीत्यर्थः । तथा न चन्द्रतारकम्,
नेमा विद्युतो भान्ति, कुतः अयम् =
[33]अस्मद्दृष्टिगोचरः अग्निः । किं बहुना? यदिदमादित्यादिकं सर्वं भाति तत् तमेव परमेश्वरं भान्तं =
दीप्यमानम् अनुभाति = अनुदीप्यते । यथा जलोल्मुकादि अग्नि-संयोगादग्निं दहन्तमनुदहति
न स्वतः, तद्वत् । तस्य एव भासा = दीप्त्या सर्वमिदं = सूर्यादि विभाति ।
यत् एवं तदेव ब्रह्म भाति च विभाति च ।
कार्यगतेन विविधेन भासा तस्य ब्रह्मणो भारूपत्वं स्वतोऽवगम्यते । न हि
स्वतोऽविद्यमानं भासनमन्यस्य कर्तुं शक्यम्, घटादीनामन्यावभासकत्वादर्शनात्
[34]भारूपाणां
च आदित्यादीनां तद्दर्शनात् ॥ २.२.१५ ॥
इति
पञ्चमवल्लीभाष्यम् ॥
इति श्रीमत्परमहंस-परिव्राजकाचार्य-गोविन्द-भगवत्पूज्यपाद-शिष्य-
श्रीमदाचार्य-श्रीशङ्कर-भगवतः कृतौ कठोपनिषद्भाष्ये
द्वितीयाध्याये
द्वितीयवल्लीभाष्यम्समाप्तम् ॥
[1] नैकशरीरपुरवर्त्त्येवात्मा
– इति पाठान्तरे ।
[2] इत्यादि
– इति पाठान्तरे ।
[3] दुरोणसत्
– इति अन्यपाठयोः नास्ति ।
[4] वरसत्
– इति अन्यपाठयोः नास्ति ।
[10] तदाप्यस्यात्मस्वरूपत्वमादित्यस्येत्यङ्गीकृतत्वाद्ब्रह्मणव्याख्याने/ तदाप्यस्यात्मस्वरूपत्वमादित्यस्याङ्गी(त्यस्येत्यङ्गी)कृतत्वात्
ब्रह्मणव्याख्याने
[11] सर्वव्याप्येक
– इति पाठान्तरे ।
[12] वननीयम्
– इति पाठान्तरे नास्ति ।
[13] पुरस्वामिनो विद्रवण
इव – इति पाठान्तरम् ।
[14] आत्मा
– इति पाठान्तरे नास्ति ।
[15] तत्व्यतिरिक्तात्मापगमात्
– इति पाठान्तरे ।
[16] केनचिदप्रयुक्तं
संहतानामवस्थानं न दृष्टं – इति पाठान्तरम् ।
[17] इतरेण
तु – इति पाठान्तरे नास्ति ।
[18] स्वव्यापारं
– इति पाठान्तरे नास्ति ।
[19] यथात्मा
भवति यथा संसरति – इति पाठान्तरे नास्ति ।
[20] तथा
च – इति पाठान्तरे ।
[21] ब्रह्मण्याश्रिताः
– इति पाठान्तरे ।
[24] रूपं
रूपं – इति पाठान्तरे नास्ति ।
[25] स्वरूपेण
– इत्यपि पाठन्तरे ।
[27] रज्जु-शुक्तिकोखर-गगनेषु – इत्यपि पाठम् ।
[28] संसर्गिणि
विपरीत-बुद्ध्यध्यास-निमित्तात्तद्दोषवद्विभाव्यन्ते
– इति पाठान्तरे ।
[29] विशुद्धविज्ञानरूपं
– इति पाठान्तरे ।
[30] अनेकप्रकारं
– इति पाठान्तरे ।
[31] कामन् – इति
पाठान्तरम् ।
[32] निवृत्तैषणा
– इति पाठान्तरे ।
[33] अस्मद्गोचरोग्निः –
इति पाठान्तरम् ।
[34] भासनरूपाणां
– इति पाठान्तरे ।
No comments:
Post a Comment