Saturday, October 19, 2013

॥काठकोपनिषत्॥ श्रीमच्छंकरभगवत्पादविरचितेन भाष्येण सहिता। द्वितीयोऽध्यायः। षष्ठीवल्ली।


॥काठकोपनिषत्॥
श्रीमच्छंकरभगवत्पादविरचितेन भाष्येण सहिता।

द्वितीयोऽध्यायः।

षष्ठीवल्ली।

तूलावधारणेनैव मूलावधारणं वृक्षस्य यथा क्रियते लोके[1], एवं संसारकार्यवृक्षावधारणेन तन्मूलस्य ब्रह्मणः स्वरूपावदिधारयिषया इयं षष्ठी वल्ली आरभ्यते।
ऊर्ध्वमूलोऽवाक्शाख एषोऽश्वत्थः सनातनः ।
तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते ।
तस्मिँल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन । एतद्वै तत् ॥ २॰३॰१ ॥
ऊर्ध्वमूल ऊर्ध्वं मूलं यत् तद्विष्णोः परमं पदमस्येति सोऽयमव्यक्तादि-स्थावरान्तः संसारवृक्ष ऊर्ध्वमूलः । वृक्षश्च व्रश्चनात् [2]विनश्वरत्वात् । अविच्छिन्न जन्म-जरा-मरणशोकाद्यनेकानर्थात्मकः प्रतिक्षणमन्यथास्वभावः माया-मरीच्युदक-गन्धर्व-नगरादिवद्दृष्ट-नष्ट-स्वरूपत्वादवसाने च वृक्षवदभावात्मकः कदली-स्तम्भवन्निःसारः [3]अनेक-शत-पाषण्ड-बुद्धि-विकल्पास्पदः तत्त्व-विजिज्ञासुभिः अनिर्धारितेदं-तत्त्वः वेदान्त-निर्धारित-पर-ब्रह्म-मूलसारः अविद्या-काम-कर्माव्यक्त-बीज-प्रभवः अपर-ब्रह्म-विज्ञान-क्रिया-शक्ति-द्वयात्मक-हिरण्य-गर्भाङ्कुरः सर्व-प्राणि-लिङ्ग-भेद-स्कन्धः तत्तत्तृष्णा-जलासेकोद्भूत-दर्पो बुद्धीन्द्रिय-विषय-प्रवालाङ्कुरः श्रुतिस्मृतिन्यायविद्योपदेशपलाशो यज्ञ-दान-तप-आद्यनेक-क्रिया-सुपुष्पः सुखदुःखवेदनानेकरसः प्राण्युपजीव्यानन्तफलः तत्तृष्णा-सलिलावसेक-प्ररूढ-जटिलीकृत-दृढ-बद्ध-मूलः सत्यनामादि-सप्तलोक-ब्रह्मादिभूतपक्षिकृतनीडः प्राणि-सुख-दुःखोद्भूत-हर्ष-शोक-जात-नृत्य-गीत-वादित्रक्ष्वेलितास्फोटित-हसिताक्रुष्ट-रुदित-हाहा-मुञ्च-मुञ्चेत्याद्यनेक-शब्द-कृत-तुमुली-भूत-महारवो वेदान्त-विहित-ब्रह्मात्म-दर्शनासङ्ग-शस्त्र-कृतोच्छेदः एषः = संसारवृक्षः अश्वत्थः अश्वत्थवत्कामकर्म-वातेरित-नित्यप्रचलितस्वभावः । स्वर्ग-नरक-तिर्यक्प्रेतादिभिः शखाभिः अवाक्शाखः, [4]अवाञ्चः शाखा यस्य सः, सनातनः = अनादित्वाच्चिरप्रवृत्तः । यदस्य संसारवृक्षस्य मूलं तदेव शुक्रं = शुभ्रं = शुद्धं = ज्योतिष्मत् = चैतन्यात्मज्योतिःस्वभावं देव ब्रह्म सर्वमहत्त्वात् । तदेव अमृतम् अविनाशस्वभावम् उच्यते = कथ्यते सत्यत्वात् । वाचारम्भणं विकारो नामधेयमनृतमन्यदतो मर्त्यम् । तस्मिन् = परमार्थसत्ये ब्रह्मणि लोकाः = गन्धर्व-नगर-मरीच्युदकमायासमाः परमार्थदर्शनाभावावगमनाः श्रिताः = आश्रिताः सर्वे = समस्ताः उत्पत्तिस्थितिलयेषु। तदु तद्ब्रह्म नात्येति नातिवर्तते मृदादिकमिव घटादिकार्यं कश्चन = कश्चिदपि विकारः । एतद्वै तत् ॥ २॰३॰१ ॥
यद्विज्ञानादमृता भवन्तीत्युच्यते, जगतो मूलं तदेव नास्ति ब्रह्म; [5]असत एवेदं निःसृतमिति,
तन्न ---
यदिदं किं च जगत् सर्वं प्राण एजति निःसृतम् ।
महद्भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ति ॥ २॰३॰२ ॥
यदिदं किं च यत्किंचेदं जगत्सर्वं प्राणे = परस्मिन्ब्रह्मणि सति एजति = कम्पते, तत एव निःसृतं = निर्गतं सत् प्रचलति नियमेन चेष्टते । यदेवं जगदुत्पत्त्यादिकारणं ब्रह्म तत् महद्भयम्, महच्च तत् भयं च बिभेत्यस्मादिति महद्भयम्, वज्रमुद्यतम् = उद्यतमिव वज्रम्; यथा वज्रोद्यतकरं स्वामिनम् अभिमुखीभूतं दृष्ट्वा भृत्या नियमेन तच्छासने वर्तन्ते, तथेदं चन्द्रादित्यग्रहनक्षत्रतारकादिलक्षणं जगत्सेश्वरं नियमेन क्षणम् अप्यविश्रान्तं वर्तत इति उक्तं भवति । एतद्विदुः स्वात्मप्रवृत्तिसाक्षिभूतमेकं ब्रह्म अमृताः अमरणधर्माणः ते भवन्ति ॥ २॰३॰२ ॥
कथं तद्भयाज्जगद्वर्तत इति, आह ---
भयादस्याग्निस्तपति भयात्तपति सूर्यः ।
भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः ॥ २॰३॰३ ॥
भयात् = भीत्या अस्य = परमेश्वरस्य अग्निः तपति; भयात्तपति सूर्यः, भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः । न हि, ईश्वराणां लोकपालानां समर्थानां सतां नियन्ता चेद्वज्रोद्यतकरवन्न स्यात्, स्वामिभयभीतानामिव भृत्यानां नियता प्रवृत्तिरुपपद्यते ॥ २॰३॰३ ॥
तच्च ---
इह चेदशकद्बोद्धुं प्राक्शरीरस्य विस्रसः ।
ततः सर्गेषु लोकेषु शरीरत्वाय कल्पते ॥ २॰३॰४ ॥
इह = जीवन्नेव चेत् यद् अशकत् शक्नोति शक्तः सन् जानातीत्येतत्, भयकारणं ब्रह्म बोद्धुम् = अवगन्तुम्, प्राक् = पूर्वं शरीरस्य विस्रसः = अवस्रंसनात् पतनात् संसारबन्धनाद्विमुच्यते । न चेदशकद्बोद्धुम्, ततः = अनवबोधात् सर्गेषु, सृज्यन्ते येषु स्रष्टव्याः प्राणिन इति सर्गाः पृथिव्यादयो लोकाः तेषु सर्गेषु, लोकेषु शरीरत्वाय = शरीरभावाय कल्पते = समर्थो भवति; शरीरं गृह्णातीत्यर्थः । तस्माच्छरीरविस्रंसनात् प्रागात्मावबोधाय[6] यत्न आस्थेयः ॥ २॰३॰४ ॥
 यस्मादिहैवात्मनो दर्शनमादर्शस्थस्येव मुखस्य स्पष्टमुपपद्यते, न लोकान्तरेषु ब्रह्मलोकादन्यत्र । स च दुष्प्रापः । कथमिति, उच्यते ---
यथाऽऽदर्शे तथाऽऽत्मनि यथा स्वप्ने तथा पितृलोके ।
यथाऽप्सु परीव ददृशे तथा गन्धर्वलोके  छायातपयोरिव ब्रह्मलोके ॥ २॰३॰५ ॥
यथा आदर्शे प्रतिबिम्बभूतमात्मानं पश्यति लोकः अत्यन्तविविक्तम्, तथा इह आत्मनि स्वबुद्धावादर्शवन्निर्मलीभूतायां विविक्तमात्मनो दर्शनं भवतीत्यर्थः ।
यथा स्वप्ने अविविक्तं जाग्रद्वासनोद्भूतम्, तथा पितृलोके अविविक्तमेव दर्शनमात्मनः कर्मफलोपभोगासक्तत्वात् । यथाअप्सु [7]अविविक्तावयवमात्मस्वरूपं परीव ददृशे = परिदृश्यत इव, तथा गन्धर्वलोके अविविक्तमेव दर्शनमात्मनः । एवं च लोकान्तरेष्वपि शास्त्रप्रामाण्यादवगम्यते । छायातपयोरिव अत्यन्तविविक्तं ब्रह्मलोक एवैकस्मिन् । स च दुष्प्रापः, अत्यन्तविशिष्टकर्मज्ञानसाध्यत्वात् । तस्मादात्मदर्शनाय इहैव यत्नः कर्तव्य इत्यभिप्रायः ॥ २॰३॰५ ॥
कथमसौ बोद्धव्यः, किं वा तदवबोधे प्रयोजनमिति, उच्यते ---
इन्द्रियाणां पृथग्भावमुदयास्तमयौ च यत् ।
पृथगुत्पद्यमानानां मत्वा धीरो न शोचति ॥ २॰३॰६ ॥
इन्द्रियाणां श्रोत्रादीनां स्वस्वविषयग्रहणप्रयोजनेन स्वकारणेभ्य आकाशादिभ्यः पृथगुत्पद्यमानानाम् अत्यन्तविशुद्धात्केवलाच्चिन्मात्रात्मस्वरूपात् पृथग्भावं स्वभावविलक्षणात्मकताम्, तथा तेषामेवेन्द्रियाणाम् उदयास्तमयौ = उत्पत्तिप्रलयौ [8]जाग्रत्स्वप्नावस्थाप्रतिपत्त्या नात्मन इति मत्वा = ज्ञात्वा विवेकतो धीरः = धीमान् न शोचति, आत्मनो [9]नित्यैक-स्वभावत्व-अव्यभिचारात् शोक-कारणत्वानुपपत्तेः । तथा च श्रुत्यन्तरम् 'तरति शोकमात्मवित्' (छा॰उ॰ ७॰१॰३) इति ॥ २॰३॰६ ॥
यस्मादात्मनः इन्द्रियाणां पृथग्भाव उक्तो नासौ बहिरधिगन्तव्यः यस्मात्प्रत्यगात्मा स सर्वस्य; तत्कथमिति, उच्यते ---
इन्द्रियेभ्यः परं मनो मनसः सत्त्वमुत्तमम् ।
सत्त्वादधि महानात्मा महतोऽव्यक्तमुत्तमम् ॥ २॰३॰७ ॥
इन्द्रियेभ्यः परं मन इत्यादि । अर्थानाम् इह इन्द्रिय-समान-जातीयत्वाद् इन्द्रिय-ग्रहणेनैव ग्रहणम् । पूर्ववदन्यत् (क॰उ॰ १॰३॰१०)। सत्त्व-शब्दाद् बुद्धिः इहोच्यते ॥ २॰३॰७ ॥
अव्यक्तात्तु परः पुरुषो व्यापकोऽलिङ्ग एव च ।
यं ज्ञात्वा मुच्यते जन्तुरमृतत्वं च गच्छति ॥ २॰३॰८ ॥
अव्यक्तात्तु परः पुरुषः व्यापकः व्यापकस्याप्याकाशादेः सर्वस्य कारणत्वात् । अलिङ्गः लिङ्ग्यते गम्यते येन तल्लिङ्गं बुद्ध्यादि, तदविद्यमानं [10]यस्य सोऽयमलिङ्ग एव [11]; सर्वसंसारधर्मवर्जित इत्येतत् । यं ज्ञात्वा आचार्यतः शास्त्रतश्च मुच्यते जन्तुः अविद्यादिहृदयग्रन्थिभिर्जीवन्नेव; पतितेऽपि शरीरे अमृतत्वं च गच्छति । सोऽलिङ्गः परोऽव्यक्तात्पुरुष इति पूर्वेणैव संबन्धः ॥ २॰३॰८ ॥
कथं तर्हि [12]तस्य अलिङ्गस्य दर्शनमुपपद्यत इति, उच्यते ---
न सन्दृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम् ।
हृदा मनीषा मनसाऽभिक्लृप्तो य एतद्विदुरमृतास्ते भवन्ति ॥ २॰३॰९ ॥
न सन्दृशे = संदर्शनविषये न तिष्ठति प्रत्यगात्मनः अस्य रूपम् । अतः न चक्षुषा सर्वेन्द्रियेण, चक्षुर्ग्रहणस्योपलक्षणार्थत्वात्, पश्यति नोपलभते कश्चन = कश्चिदपि एनं = प्रकृतमात्मानम् ।
कथं तर्हि तं पश्येदिति, उच्यते --- हृदा = हृत्स्थया = बुद्ध्या, मनीषा मनसः संकल्पादिरूपस्य ईष्टे नियन्तृत्वेनेति मनीट् [13]तया मनीषा विकल्पवर्जितया बुद्ध्यामनसा = मननरूपेण सम्यग्दर्शनेन अभिक्लृप्तः = अभिसमर्थितः = अभिप्रकाशित इत्येतत् । आत्मा ज्ञातुं [14]शक्य इति वाक्यशेषः । तमात्मानं ब्रह्म एतत् ये विदुः अमृताः ते भवन्ति ॥ २॰३॰९ ॥
सा हृन्मनीट् कथं प्राप्यत इति तदर्थो योग उच्यते ---
यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह ।
बुद्धिश्च [15]न विचेष्टति तामाहुः परमां गतिम् ॥ २॰३॰१० ॥
यदा = यस्मिन्काले स्वविषयेभ्यो निवर्तितानि आत्मन्येव पञ्च ज्ञानानि ---ज्ञानार्थत्वाच्छ्रोत्रादीनीन्द्रियाणि ज्ञानान्युच्यन्ते --- अवतिष्ठन्ते सह मनसा यदनुगतानि, तेन संकल्पादिव्यावृत्तेनान्तःकरणेन । बुद्धिश्च अध्यवसायलक्षणा न विचेष्टति = स्वव्यापारेषु न विचेष्टते = न व्याप्रियते, तामाहुः परमां गतिम् ॥ २॰३॰१० ॥
तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम् ।
अप्रमत्तस्तदा भवति योगो हि प्रभवाप्ययौ ॥ २॰३॰११ ॥
ताम् = ईदृशीं [16]तदवस्थां योगमिति मन्यन्ते वियोगमेव सन्तम् । सर्वानर्थसंयोगवियोगलक्षणा हीयमवस्था योगिनः । एतस्यां ह्यवस्थायाम् [17]अविद्याध्यारोपणवर्जितस्वरूपप्रतिष्ठ आत्मा । स्थिरामिन्द्रियधारणां स्थिराम् = अचलाम् इन्द्रियधारणां = बाह्यान्तःकरणानां धारणमित्यर्थः ।
अप्रमत्तः = प्रमादवर्जितः = समाधानं प्रति नित्यं यत्नवान् तदा = तस्मिन्काले, यदैव प्रवृत्तयोगो भवति इति सामर्थ्यादवगम्यते । न हि बुद्ध्यादिचेष्टाभावे प्रमादसंभवोऽस्ति । तस्मात्प्रागेव बुद्ध्यादिचेष्टोपरमात् अप्रमादो विधीयते । अथवा, यदैव इन्द्रियाणां स्थिरा धारणा, तदानीमेव निरङ्कुशमप्रमत्तत्वमित्यतोऽभिधीयते अप्रमत्तस्तदा भवति इति । कुतः? योगो हि यस्मात् प्रभवाप्ययौ = उपजनापायधर्मक इत्यर्थः । अतः अपायपरिहारायाप्रमादः कर्तव्य इत्यभिप्रायः ॥ २॰३॰११ ॥
बुद्ध्यादिचेष्टाविषयं चेद्ब्रह्म इदं तदिति विशेषतो गृह्येत, बुद्ध्याद्युपरमे च ग्रहणकारणाभावादनुपलभ्यमानं नास्त्येव ब्रह्म । यद्धि करणगोचरं तदस्तीति प्रसिद्धं लोके विपरीतं चासदिति । अतश्चानर्थको योगोऽनुपलभ्यमानत्वाद्वा नास्तीत्युपलब्धव्यं ब्रह्मेत्येवं प्राप्ते, इदमुच्यते । सत्यम् ,
नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा ।
अस्तीति ब्रुवतोऽन्यत्र कथं तदुपलभ्यते ॥ २॰३॰१२ ॥
नैव वाचा न मनसा न चक्षुषा नान्यैरपीन्द्रियैः प्राप्तुं शक्यते इत्यर्थः । तथापि सर्वविशेषरहितोऽपि जगतो मूलमित्यवगतत्वादस्त्येव, कार्य-प्रविलापनस्य अस्तित्व-निष्ठत्वात् । तथा हीदं कार्यं [18]सौक्ष्म्यतारतम्यपारम्पर्येणानुगम्यमानं सद्बुद्धिनिष्ठामेवावगमयति । यदापि विषयप्रविलापनेन प्रविलाप्यमाना बुद्धिः, तदापि सा सत्प्रत्ययगर्भैव विलीयते । बुद्धिर्हि नः प्रमाणं सदसतोर्याथात्म्यावगमे ।
मूलं चेज्जगतो न स्यादसदन्वितमेवेदं कार्यमसदित्येव गृह्येत, न त्वेतदस्ति; सत्सदित्येव तु गृह्यते; यथा मृदादिकार्यं घटादि मृदाद्यन्वितम् । तस्माज्जगतो मूलमात्मा अस्तीत्येवोपलब्धव्यः । कस्मात्? अस्तीति ब्रुवतः = अस्तित्ववादिनः = आगमार्थानुसारिणः श्रद्दधानाद् अन्यत्र नास्तिकवादिनि[19] नास्ति जगतो मूलमात्मा निरन्वयमेवेदं कार्यमभावान्तं प्रविलीयत इति मन्यमाने विपरीतदर्शिनि, कथं तद् = ब्रह्म तत्त्वत उपलभ्यते; न कथंचनोपलभ्यत इत्यर्थः ॥ २॰३॰१२ ॥
तस्मादपोह्यासद्वादिपक्षमासुरम् ---
अस्तीत्येवोपलब्धव्यस्तत्त्वभावेन चोभयोः ।
अस्तीत्येवोपलब्धस्य तत्त्वभावः प्रसीदति ॥ २॰३॰१३ ॥
अस्तीत्येव आत्मा उपलब्धव्यः सत्कार्यबुद्ध्याद्युपाधिभिः । यदा तु तद्रहितोऽविक्रिय आत्मा कार्यं च कारणव्यतिरेकेण नास्ति 'वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्' (छा॰उ॰ ६॰१॰४) इति श्रुतेः, तदा य/तस्य निरुपाधिकस्यालिङ्गस्य सदसदादि-प्रत्यय-विषयत्व-वर्जितस्य आत्मनः तत्त्व-भावो भवति । तेन च रूपेणात्मोपलब्धव्य इत्यनुवर्तते ।
तत्रापि उभयोः = सोपाधिकनिरुपाधिकयोरस्तित्वतत्त्वभावयोः --- निर्धारणार्था षष्ठी --- पूर्वम् अस्तीत्येवोपलब्धस्य आत्मनः सत्कार्य-उपाधिकृत-अस्तित्व-प्रत्ययेन उपलब्धस्येत्यर्थः । पश्चात्प्रत्यस्तमितसर्वोपाधिरूप आत्मनः तत्त्वभावः = विदित-अविदिताभ्यामन्योऽद्वयस्वभावः नेति नेति (बृ॰उ॰ २॰३॰६, ३॰९॰२६) इति अस्थूलमनण्वह्रस्वम् (बृ॰उ॰ ३॰८॰८) अदृश्येऽनात्म्ये निरुक्तेऽनिलयने (तै॰उ॰ २॰७) इत्यादिश्रुतिनिर्दिष्टः प्रसीदति = अभिमुखी-भवति । आत्म-प्रकाशनाय पूर्वमस्तीत्युपलब्धवत इत्येतत् ॥ २॰३॰१३ ॥
[20]एवं परमार्थात्मदर्शिनः ---
यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः ।
अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते ॥ २॰३॰१४ ॥
कामत्यागेन अमृतत्वम्
यदा = यस्मिन्काले सर्वे कामाः कामयितव्यस्यान्यस्याभावात् प्रमुच्यन्ते = विशीर्यन्ते; ये अस्य प्राक्प्रतिबोधाद्विदुषो हृदि = बुद्धौ श्रिताः = आश्रिताः; बुद्धिर्हि कामानामाश्रयः नात्मा, 'कामः सङ्कल्पः' (बृ॰उ॰१॰५॰३) इत्यादिश्रुत्यन्तराच्च ।
अथ तदा मर्त्यः प्राक्प्रबोधादासीत् स प्रबोधोत्तरकालमविद्या-कामकर्म-लक्षणस्य मृत्योर्विनाशात् अमृतो भवति, गमनप्रयोजकस्य मृत्योर्विनाशाद् गमनानुपपत्तेः । अत्र इहैव प्रदीप-निर्वाणवत् सर्वबन्धनोपशमात् ब्रह्म समश्नुते = ब्रह्मैव भवतीत्यर्थः ॥ २॰३॰१४ ॥
कदा पुनः कामानां मूलतो विनाश इति, उच्यते ---
यथा सर्वे प्रभिद्यन्ते हृदयस्येह ग्रन्थयः ।
अथ मर्त्योऽमृतो भवत्येतावद्ध्यनुशासनम् ॥ २॰३॰१५ ॥
ग्रन्थिभेद एव अमृतत्वम्
यदा सर्वे प्रभिद्यन्ते = भेदमुपयान्ति = विनश्यन्ति हृदयस्य = बुद्धेः इह जीवत एव ग्रन्थयो = ग्रन्थिवद्दृढबन्धनरूपा = अविद्याप्रत्यया इत्यर्थः । अहमिदं शरीरं ममेदं धनं सुखी दुःखी चाहमित्येवमादिलक्षणाः [21]तद्विपरीतात् ब्रह्मात्म-प्रत्यय- उपजननात् ब्रह्मैवाहमस्म्यसंसारीति विनष्टेष्वविद्याग्रन्थिषु तन्निमित्ताः कामा मूलतो विनश्यन्ति । अथ मर्त्योऽमृतो भवति एतावद्धि = तावदेवैतावन्मात्रं नाधिकमस्तीत्याशङ्का कर्तव्या । अनुशासनम् = अनुशिष्टिः = उपदेशः सर्ववेदान्तानामिति वाक्यशेषः ॥ २॰३॰१५ ॥
निरस्ताशेषविशेषव्यापिब्रह्मात्मप्रतिपत्त्या प्रभिन्नसमस्ताविद्यादिग्रन्थेः जीवत एव ब्रह्मभूतस्य विदुषो न गतिर्विद्यते[22], 'अत्र ब्रह्म समश्नुते' इत्युक्तत्वात् । 'न तस्य प्राणा उत्क्रामन्ति ब्रह्मैव सन्ब्रह्माप्येति' (बृ॰उ॰ ४॰४॰६) इति श्रुत्यन्तराच्च ।
ये पुनर्मन्दब्रह्मविदो विद्यान्तरशीलिनश्च ब्रह्मलोकभाजः ये च तद्विपरीताः संसारभाजः, तेषामेष गतिविशेष उच्यते --- प्रकृतोत्कृष्टब्रह्मविद्याफलस्तुतये ।
किं चान्यत्, अग्निविद्या पृष्टा प्रत्युक्ता च । तस्याश्च फलप्राप्तिप्रकारो वक्तव्य इति मन्त्रारम्भः । तत्र ---
शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका ।
तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भवन्ति ॥ २॰३॰१६ ॥
सुषुम्नाभेदेन अमृतत्वम्
शतं च = शतसंख्याकाः एका च = सुषुम्ना नाम पुरुषस्य हृदयाद् विनिःसृताः नाड्यः = शिराः; तासां मध्ये मूर्धानं [23]भित्त्वो अभिनिःसृता = निर्गता एका[24] = सुषुम्ना नाम । तया अन्तकाले हृदये आत्मानं वशीकृत्य योजयेत् ।
तया नाड्या ऊर्ध्वम् = उपरि आयन् = गच्छन् आदित्यद्वारेण अमृतत्वम् = अमरणधर्मत्वमापेक्षिकम् --- 'आभूतसम्प्लवं स्थानममृतत्वं [25]हि भाष्येत' (वि॰पु॰ २॰८॰९७) इति स्मृतेः । ब्रह्मणा वा सह कालान्तरेण मुख्यममृतत्वमेति भुक्त्वा भोगाननुपमान्ब्रह्मलोकगतान् । विष्वङ् = नानागतयः[26] अन्या नाड्यः उत्क्रमणे = [27]उत्क्रमणनिमित्तं भवन्ति संसारप्रतिपत्त्यर्था एव भवन्तीत्यर्थः ॥ २॰३॰१६ ॥
इदानीं सर्ववल्ल्यर्थोपसंहारार्थमाह ---
अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये सन्निविष्टः ।
तं स्वाच्छरीरात्प्रवृहेन्मुञ्जादिवेषीकां धैर्येण । तं विद्याच्छुक्रममृतं तं विद्याच्छुक्रममृतमिति ॥ २॰३॰१७ ॥
अङ्गुष्ठमात्रः पुरुषः अन्तरात्मा सदा जनानां संबन्धिनि हृदये सन्निविष्टः यथाव्याख्यातः; तं स्वात् = आत्मीयात् शरीरात् प्रवृहेत् = उद्यच्छेत् = निष्कर्षेत् = पृथक्कुर्यादित्यर्थः । किमिवेति, उच्यते --- मुञ्जादिवेषीकाम् अन्तःस्थां धैर्येण = अप्रमादेन । तं = शरीरान्निष्कृष्टं चिन्मात्रं विद्यात् = विजानीयात् शुक्रं = [28]शुद्धम् अमृतं यथोक्तं ब्रह्मेति । द्विर्वचनमुपनिषत्परिसमाप्त्यर्थम्, इतिशब्दश्च ॥ २॰३॰१७ ॥
विद्यास्तुत्यर्थोऽयमाख्यायिकार्थोपसंहारः अधुनोच्यते ---
मृत्युप्रोक्तां नचिकेतोऽथ लब्ध्वा विद्यामेतां योगविधिं च कृत्स्नम् ।
ब्रह्मप्राप्तो विरजोऽभूद्विमृत्युरन्योऽप्येवं यो विदध्यात्ममेव ॥ २॰३॰१८ ॥
मृत्युप्रोक्ताम् [29]एतां यथोक्तां ब्रह्मविद्यां योगविधिं च कृत्स्नं = समस्तं सोपकरणं सफलमित्येतत् । [30]नचिकेताः अथ वरप्रदानान्मृत्योः लब्ध्वा = प्राप्येत्यर्थः । किम्? ब्रह्मप्राप्तोऽभूत् मुक्तोऽभवदित्यर्थः ।
कथम्? विद्याप्राप्त्या विरजः = विगतरजाः[31] = विगतधर्माधर्मः विमृत्युः = विगतकामाविद्यश्च सन् पूर्वमित्यर्थः ।
न केवलं [32]नचिकेता एव, अन्योऽपि [33]य एवं [34]नचिकेतोवदात्मवित् अध्यात्ममेव निरुपचरितं प्रत्यक्स्वरूपं प्राप्य तत्त्वमेवेत्यभिप्रायः । नान्यद्रूपमप्रत्यग्रूपम् । तदेवमध्यात्मम् एवम् [35]उक्तेन प्रकारेण वेद विजानातीति एवंवित्, सोऽपि विरजः सन् ब्रह्म [36]प्राप्य विमृत्युर्भवतीति वाक्यशेषः ॥ २॰३॰१८ ॥
[37]अथ शिष्याचार्ययोः प्रमादकृतान्यायेन विद्याग्रहणप्रतिपादननिमित्तदोषप्रशमनार्थेयं शान्तिरुच्यते ---
ॐ स॒ह ना॑-ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । ते॒ज॒स्विना॒वधी॑त-मस्तु॒ मा वि॑द्विषा॒वहै ।
ॐ शान्ति॒ शान्तिः॒ शान्तिः॑ ॥

सह नौ = आवाम् अवतु = पालयतु विद्यास्वरूपप्रकाशनेन । कः? स एव परमेश्वरः उपनिषत्प्रकाशितः । किं च, सह नौ भुनक्तु = तत्फलप्रकाशनेन नौ पालयतु । सह एव = आवां विद्याकृतं वीर्यं = सामर्थ्यं करवावहै = निष्पादयावहै । किं च, तेजस्विनौ = तेजस्विनोरावयोः यत् अधीतं तत्स्वधीतम् अस्तु । अथवा, तेजस्वि नौ = आवाभ्यां यत् अधीतं तदतीव तेजस्वि = वीर्यवद् अस्तु इत्यर्थः । मा विद्विषावहै = शिष्याचार्यावन्योन्यं प्रमाद-कृतान्यायाध्ययनाध्यापन-दोष-निमित्तं द्वेषं मा करवावहै इत्यर्थः । शान्तिः शान्तिः शान्तिरिति त्रिर्वचनं सर्वदोषोपशमनार्थम् इति ॥
इति षष्ठीवल्लीभाष्यम् ॥
कठोपनिषद्भाष्ये द्वितीयाध्यायं समाप्तम् ॥
इति श्रीमत्परमहंस-परिव्राजकाचार्य-गोविन्द-भगवत्पूज्यपाद-शिष्य-
श्रीमदाचार्य-श्रीशङ्कर-भगवतः कृतौ कठोपनिषद्भाष्ये
द्वितीयाध्याये तृतीयवल्लीभाष्यम्समाप्तम् ॥



[1] क्रियते लोके यथा – इति पाठान्तरे ।
[2] विनश्वरत्वात् । अविच्छिन्न – इति पाठान्तरे नास्ति ।
[3] अनेक-शत-पाखण्ड-बुद्धि-विकल्पास्पदः – इति पाठान्तरे ।
[4] अवाञ्चः शाखा यस्य सः – इति अन्यत्र पाठे नास्ति ।
[5] असत् – इति पाठान्तरम् ।
[6] प्रागात्मबोधाय – इति पाठान्तरे ।
[7] अविविक्तावयवमात्मरूपं – इति पाठान्तरे नास्ति ।
[8] जाग्रत्स्वापावस्थापेक्षया – इति पाठान्तरे ।
[9] नित्यैक-स्वभावस्य-अव्यभिचारात् – इति पाठान्तरे ।
[10] अस्य – इति पाठान्तरम् ।
[11] च – इति अन्यपाठे नास्ति ।
[12] तस्य – इति पाठान्तरे नास्ति ।
[13] तया हृदा मनीषा(ऽ)विकल्पयित्र्या । – इति पाठान्तरम् ।
[14] शक्यत – इति पाठान्तरम् ।
[15] न विचेष्टते – इत्यपि पाठम्  - मन्त्रपुष्पे ।
[16] अवस्थां – इति पाठान्तरम् ।
[17] अविद्याध्यारोपणवर्जितः स्वरूपप्रतिष्ठ – इत्यपि पाठम् ।
[18] सूक्ष्मतारतम्यपारम्पर्येणानुगम्यमानं – इति पाठान्तरे ।
[19] नास्तित्ववादिनि – इत्यपि पाठम् ।
[20] एवं परमार्थदर्शिनः – इति पाठान्तरे ।
[21] तद्विपरीत – इति पाठान्तरे ।
[22] इत्युक्तम् – इति पाठान्तरे ।
[23] भित्त्वा – इति पाठान्तरे ।
[24] एका – इति पाठान्तरे नास्ति ।
[25] विभाव्यते/ हि भाष्यते – इति पाठान्तरम् ।
[26] नानाविधगतयः – इति पाठान्तरे ।
[27] निमित्तं – इति पाठान्तरे ।
[28] शुद्धम् – इति अन्यपाठे नास्ति ।
[29] यथोक्तामेतां – इति पाठान्तरे ।
[30] नाचिकोतो वरप्रदानात्/ नचिकेता वरप्रदानात् – इति पाठान्तरम् ।
[31] विगतरजाः – इति पाठान्तरे नास्ति ।
[32] नाचिकेत – इति पाठान्तरम् ।
[33] य एवम् – इति पाठान्तरे नास्ति ।
[34] नाचिकेतवद् – इति पाठान्तरम् ।
[35] उक्तप्रकारेण यो वेद – इति पाठान्तरम् । उक्तप्रकारेण वेद – इति पाठान्तरम् ।
[36] प्राप्त्या – इति पाठान्तरे ।
[37] अथ – अन्यपाठे नास्ति ।

॥काठकोपनिषत्॥ । द्वितीयोऽध्यायः। पञ्चमी वल्ली।


॥काठकोपनिषत्॥
श्रीमच्छंकरभगवत्पादविरचितेन भाष्येण सहिता।

द्वितीयोऽध्यायः।

पञ्चमी वल्ली।

पुनरपि प्रकारान्तरेण ब्रह्मतत्त्वनिर्धारणार्थोऽयमारम्भः, दुर्विज्ञेयत्वाद्ब्रह्मणः ---
पुरमेकादशद्वारमजस्यावक्रचेतसः ।
अनुष्ठाय न शोचति विमुक्तश्च विमुच्यते । एतद्वै तत् ॥ २..१ ॥
शरीरस्य ब्रम्हपुरत्वम्
पुरं पुरमिव पुरम्द्वारपालाधिष्ठात्राद्यनेक-पुरोपकरण-संपत्ति-दर्शनात् शरीरं = पुरम् । पुरं च सोपकरणं स्वात्मना असंहत-स्वतन्त्र-स्वाम्यर्थं दृष्टम् । तथेदं पुर-सामान्यादनेकोपकरण-संहतं शरीरं स्वात्मना असंहत-राज-स्थानीय-स्वाम्यर्थं भवितुमर्हति ।
तच्चेदं शरीराख्यं पुरम् एकादश-द्वारम्; एकादश द्वाराण्यस्य --- सप्त शीर्षण्यानि, नाभ्या सहार्वाञ्चि त्रीणि, शिरस्येकम्, तैरेकादश-द्वारं पुरम् । कस्य?
अजस्य जन्मादिविक्रियारहितस्यात्मनो राजस्थानीयस्य पुरधर्मविलक्षणस्य । अवक्रचेतसः = अवक्रम् = अकुटिलमादित्य-प्रकाशवन्नित्यमेवावस्थितमेक-रूपं चेतो विज्ञानमस्येति अवक्रचेताः तस्यावक्र-चेतसः राज-स्थानीयस्य = ब्रह्मणः
स्वात्मानुभवेन शोकादिनिवृत्तिः
यस्येदं पुरं तं परमेश्वरं पुर-स्वामिनम् अनुष्ठाय = ध्यात्वा । ध्यानं हि तस्यानुष्ठानं सम्यग्विज्ञान-पूर्वकम् । तं सर्वैषणा-विनिर्मुक्तः सन्समं सर्व-भूतस्थं ध्यात्वा न शोचति । तद्विज्ञानादभय-प्राप्तेः शोकावसराभावात्कुतो भयेक्षा । इहैवाविद्या-कृत-काम-कर्म-बन्धनैर्विमुक्तो भवति । विमुक्तश्च सन् विमुच्यते; पुनः शरीरं न गृह्णातीत्यर्थः ॥ २..१ ॥
स तु [1]नैकपुरवर्त्येवात्मा किं तर्हि सर्व-पुरवर्ती । कथम्?
हँसः शुचिषद्वसुरान्तरिक्षसद् होता वेदिषदतिथिर्दुरोणसत् ।
नृषद्वरसदृतसद्व्योमसद् अब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् ॥ २..२ ॥
आत्मनः सर्वपुरान्तर्वर्त्तित्वम्
हंसः हन्ति गच्छतीतिशुचिषत् शुचौ = दिवि आदित्यात्मना सीदतीतिवसुः वासयति सर्वानितिवाय्वात्मना अन्तरिक्षे सीदतीति अन्तरिक्षसत्होता = अग्निः, 'अग्निर्वै होता' इति श्रुतेः । वेद्यां पृथिव्यां सीदतीति वेदिषत्, 'इयं वेदिः परोऽन्तः पृथिव्याः' (ऋ॰सं॰ २॰३॰२०) [2]इति मन्त्र-वर्णात् । अतिथिः सोमः सन् दुरोणे कलशे सीदतीति दुरोणसत् / ब्राह्मणोऽतिथिरुपेण वा दुरोणेषु गृहेषु सीदतीति [3]दुरोणसत्
नृषत् नृषु मनुष्येषु सीदतीति नृषत्वरसत् वरेषु देवेषु सीदतीति [4]वरसत्ऋतसत् ऋतं = सत्यं,  यज्ञो वा, तस्मिन् सीदतीति [5]ऋतसत्व्योमसत् व्योम्नि = आकाशे सीदतीति व्योमसत्अब्जाः अप्सु शङ्ख-शुक्ति-मकरादि-रूपेण जायत इति [6]अब्जाःगोजाः गवि पृथिव्यां व्रीहि-यवादि-रूपेण जायत इति [7]गोजाःऋतजाः यज्ञाङ्ग-रूपेण जायत इति [8]ऋतजाःअद्रिजाः पर्वतेभ्यो नद्यादि-रूपेण जायत इति [9]अद्रिजाः
सर्वात्मापि सन् ऋतम् = अवितथ-स्वभाव एव । बृहत् = महान्, सर्व-कारणत्वात् । यदाप्यादित्य एव मन्त्रेणोच्यते [10]तदाप्यात्म-स्वरूपत्वमादित्यस्याङ्गीकृतमिति ब्रह्मणि व्याख्याने अप्यविरोधः । [11]सर्वथाप्येक एवात्मा जगतः, नात्मभेद इति मन्त्रार्थः ॥ २..२ ॥
आत्मनः स्वरूपाधिगमे लिङ्गमुच्यते ---
ऊर्ध्वं प्राणमुन्नयत्यपानं प्रत्यगस्यति ।
मध्ये वामनमासीनं विश्वे देवा उपासते ॥ २..३ ॥
आत्मनः प्राणापानयोरधिष्ठातृत्वम्
ऊर्ध्वं हृदयात् प्राणं = प्राणवृत्तिं वायुम् उन्नयति ऊर्ध्वं गमयति । तथा अपानं प्रत्यक् = अधः अस्यति = क्षिपति यः इति वाक्यशेषः । तं मध्ये = हृदय-पुण्डरीकाकाश आसीनं = बुद्धावभिव्यक्तं विज्ञान-प्रकाशनं वामनं = [12]वननीयं = संभजनीयं विश्वे = सर्वे देवाः = चक्षुरादयः प्राणाः रूपादि-विज्ञानं बलिमुपाहरन्तो विश इव राजानम् उपासते = तादर्थ्येनानुपरतव्यापारा भवन्तीत्यर्थः । यदर्था यत्प्रयुक्ताश्च सर्वे वायु-करण-व्यापाराः, सोऽन्यः सिद्ध इति वाक्यार्थः ॥ २..३ ॥
किं च,
अस्य विस्रंसमानस्य शरीरस्थस्य देहिनः ।
देहाद्विमुच्यमानस्य किमत्र परिशिष्यते । एतद्वै तत् ॥ २..४ ॥
अस्य शरीर-स्थस्य आत्मनो विस्रंसमानस्य = अवस्रंसमानस्य = भ्रंशमानस्य देहिनो देहवतः । विस्रंसन-शब्दार्थमाह --- देहाद्विमुच्यमानस्य इति । किमत्र परिशिष्यते प्राणादि-कलापे न किञ्चन परिशिष्यते; अत्र देहे [13]पुर-स्वामि-विद्रवण इव पुर-वासिनां यस्यात्मनोऽपगमे क्षण-मात्रात्कार्य-करण-कलाप-रूपं सर्वमिदं हत-बलं विध्वस्तं भवति विनष्टं भवति, सोऽन्यः सिद्ध [14]आत्मा ॥ २..४ ॥
स्यान्मतं प्राणापानाद्यपगमादेवेदं विध्वस्तं भवति न तु [15]व्यतिरिक्तात्मापगमात्, प्राणादिभिरेवेह मर्त्यो जीवतीति; नैतदस्ति ---
न प्राणेन नापानेन मर्त्यो जीवति कश्चन ।
इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ ॥ २..५ ॥
न प्राणेन नापानेन चक्षुरादिना वा मर्त्यः = मनुष्यो देहवान् कश्चन जीवति = न कोऽपि जीवति । न ह्येषां परार्थानां संहत्यकारित्वाज्जीवनहेतुत्वमुपपद्यते । स्वार्थेनासंहतेन परेण [16]संहतानामवस्थानं न दृष्टं केनचिदप्रयुक्तं यथा गृहादीनां लोके; तथा प्राणादीनामपि संहतत्वाद्भवितुमर्हति ।
अत [17]इतरेण तु = इतरेणैव संहत-प्राणादि-विलक्षणेन तु सर्वे संहताः सन्तो जीवन्ति = प्राणान्धारयन्ति । यस्मिन् = संहत-विलक्षण आत्मनि सति परस्मिन् एतौ = प्राणापानौ चक्षुरादिभिः संहतौ = उपाश्रितौ यस्यासंहतस्यार्थे प्राणापानादिः [18]सर्वं व्यापारं कुर्वन्वर्तते संहतः सन् स ततोऽन्यः सिद्ध इत्यभिप्रायः ॥ २..५ ॥
हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम् ।
यथा च मरणं प्राप्य आत्मा भवति गौतम ॥ २..६ ॥
हन्त इदानीं पुनरपि ते तुभ्यम् इदं गुह्यं = गोप्यं ब्रह्म सनातनं = चिरन्तनं प्रवक्ष्यामि । यद्विज्ञानात्सर्वसंसारोपरमो भवति, अविज्ञानाच्च यस्य मरणं प्राप्य [19]यथा च आत्मा भवति = यथा आत्मा संसरति तथा श्रृणु हे गौतम ॥ २..६ ॥
योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः ।
स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम् ॥ २..७ ॥
योनिं = योनि-द्वारं शुक्र-बीज-समन्विताः सन्तो अन्ये = केचिदविद्यावन्तः = मूढाः प्रपद्यन्ते शरीरत्वाय शरीर-ग्रहणार्थं देहिनः देहवन्तः योनिं प्रविशन्तीत्यर्थः । स्थाणुं = वृक्षादि-स्थावर-भावम् अन्ये = अत्यन्ताधमा मरणं प्राप्य अनुसंयन्ति = अनुगच्छन्ति । यथाकर्म = यद्यस्य कर्म तद्यथाकर्म यैर्यादृशं कर्म इह जन्मनि कृतं तद्वशेनेत्येतत्[20]तथा यथाश्रुतं = यादृशं च विज्ञानमुपार्जितं तदनुरूपमेव शरीरं प्रतिपद्यन्त इत्यर्थः; 'यथाप्रज्ञं हि संभवाः' (ए॰आ॰ २॰३॰२)  इति श्रुत्यन्तरात् ॥ २..७ ॥
यत्प्रतिज्ञातं गुह्यं ब्रह्म प्रवक्ष्यामीति तदाह ---
य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः ।
तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते ।
तस्मिँल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन । एतद्वै तत् ॥ २..८ ॥
य एष सुप्तेषु प्राणादिषु जागर्ति = न स्वपिति; कथम्? कामं कामं तं तमभिप्रेतं स्त्र्याद्यर्थमविद्यया निर्मिमाणः = निष्पादयन्, जागर्ति पुरुषः यः, तदेव शुक्रं = शुभ्रं = शुद्धं तद्ब्रह्म नान्यद्गुह्यं ब्रह्मास्ति । तदेव अमृतम् = अविनाशि उच्यते सर्व-शास्त्रेषु । किं च, पृथिव्यादयो लोकास्तस्मिन् एव सर्वे [21]ब्रह्मणि श्रिताः = आश्रिताः, सर्वलोककारणत्वात्तस्य । तदु नात्येति कश्चन इत्यादि पूर्ववदेव ॥ २..८ ॥
[22]अतः कुतार्किकपाषण्डबुद्धिविचालितान्तःकरणानां [23]प्रमाणोपपन्नमप्यात्मैकत्व-विज्ञानमसकृदुच्यमानमप्यनृजुबुद्धीनां ब्राह्मणानां चेतसि नाधीयत इति तत्प्रतिपादन आदरवती पुनः पुनराह श्रुतिः ---
अग्निर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव ।
एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च ॥ २..९ ॥
अग्निः यथा एक एव प्रकाशात्मा सन् भुवनम्, = भवन्त्यस्मिन्भूतानीति भुवनम्, = अयं लोकः, तमिमं प्रविष्टः = अनुप्रविष्टः, रूपं रूपं प्रति, दार्वादि-दाह्य-भेदं प्रतीत्यर्थः, प्रतिरूपः तत्र तत्र प्रतिरूपवान् दाह्य-भेदेन बहुविधो बभूव; एक एव तथा सर्व-भूतान्तरात्मा [24]रूपं रूपं सर्वेषां भूतानामभ्यन्तर आत्मा अतिसूक्ष्मत्वाद्दार्वादिष्विव सर्व-देहं प्रति प्रविष्टत्वात् प्रतिरूपो बभूव बहिश्च स्वेनाविकृतेन रूपेण[25] आकाशवत् ॥ २..९ ॥
तथान्यो दृष्टान्तः ---
वायुर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव ।
एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च ॥ २..१० ॥
वायुर्यथैक इत्यादि। प्राणात्मना देहेष्वनुप्रविष्टः। रूपं रूपं प्रतिरूपो बभूवेत्यादि समानम् ।। ..१० ॥
एकस्य सर्वात्मत्वे संसार-दुःखित्वं परस्यैव [26]स्यादिति प्राप्ते, इदमुच्यते ---
सूर्यो यथा सर्वलोकस्य चक्षुः न लिप्यते चाक्षुषैर्बाह्यदोषैः ।
एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः ॥ २..११॥
सूर्यः यथा चक्षुष आलोकेनोपकारं कुर्वन्मूत्र-पुरीषाद्यशुचि-प्रकाशनेन तद्दर्शिनः सर्वलोकस्य चक्षुः अपि सन् न लिप्यते चाक्षुषैः अशुच्यादि-दर्शन-निमित्तैराध्यात्मिकैः पाप-दोषैः बाह्यैश्च अशुच्यादि-संसर्गदोषैः एकः सन्, तथा सर्व-भूतान्तरात्मा न लिप्यते लोक-दुःखेन बाह्यः
लोको ह्यविद्यया स्वात्मन्यध्यस्तया काम-कर्मोद्भवं दुःखमनुभवति । न तु सा परमार्थतः स्वात्मनि । यथा [27]रज्जु-शुक्तिकोषर-गगनेषु सर्प-रजतोदक-मलानि न रज्ज्वादीनां स्वतो दोष-रूपाणि सन्ति, [28]संसर्गिणि विपरीत-बुद्ध्यध्यास-निमित्तात्तु तद्दोषवद्विभाव्यन्ते; न तद्दोषैस्तेषां लेपः, विपरीत-बुद्ध्यध्यास-बाह्या हि ते;
तथा आत्मनि सर्वो लोकः क्रिया-कारक-फलात्मकं विज्ञानं सर्पादि-स्थानीयं विपरीतमध्यस्य तन्निमित्तं जन्म-मरणादि-दुःखमनुभवति; न त्वात्मा सर्व-लोकात्मापि सन् विपरीताध्यारोप-निमित्तेन लिप्यते लोक-दुःखेन । कुतः? बाह्यः रज्ज्वादिवदेव विपरीत-बुद्ध्यध्यास-बाह्यो हि स इति ॥ २..११ ॥
किं च,
एको वशी सर्वभूतान्तरात्मा एकं रूपं बहुधा यः करोति ।
तमात्मस्थं येऽनुपश्यन्ति धीराः तेषां सुखं शाश्वतं नेतरेषाम् ॥ २..१२ ॥
स हि परमेश्वरः सर्वगतः स्वतन्त्रः एकः, न तत्समोऽभ्यधिको वान्योऽस्ति । वशी, सर्वं ह्यस्य जगद्वशे वर्तते । कुतः? सर्वभूतान्तरात्मा । यत एकमेव सदैकरसमात्मानं [29]विशुद्ध-विज्ञान-घन-रूपं नाम-रूपाद्यशुद्धोपाधि-भेद-वशेन बहुधा [30]अनेक-प्रकारेण यः करोति स्वात्म-सत्ता-मात्रेण अचिन्त्य-शक्तित्वात्, तम् आत्मस्थं स्वशरीर-हृदयाकाशे = बुद्धौ चैतन्याकारेणाभिव्यक्तमित्येतत् ।
न हि शरीरस्याधारत्वमात्मनः, आकाशवदमूर्तत्वात्; आदर्शस्थं मुखमिति यद्वत् । तमेतमीश्वरमात्मानं ये = निवृत्त-बाह्य-वृत्तयो अनुपश्यन्ति = आचार्यागमोपदेशमनु साक्षादनुभवन्ति धीराः = विवेकिनः, तेषां = परमेश्वरभूतानां शाश्वतं = नित्यं सुखम् = आत्मानन्द-लक्षणं भवति, नेतरेषां बाह्यासक्त-बुद्धीनामविवेकिनां स्वात्मभूतमपि, अविद्याव्यवधानात् ॥ २..१२ ॥
किं च,
नित्योऽनित्यानां चेतनश्चेतनानाम् एको बहूनां यो विदधाति कामान् ।
तमात्मस्थं येऽनुपश्यन्ति धीराः तेषां शान्तिः शाश्वती नेतरेषाम् ॥ २..१३ ॥
नित्यः = अविनाशी अनित्यानाम् = विनाशिनाम् । चेतनः चेतनानां = चेतयितॄणां = ब्रह्मादीनां प्राणिनाम् । अग्नि-निमित्तमिव दाहकत्वम् अनग्नीनाम् उदकादीनामात्मचैतन्यनिमित्तमेव चेतयितृत्वमन्येषाम् । किं च, स सर्वज्ञः सर्वेश्वरः कामिनां संसारिणां कर्मानुरूपं कामान् = कर्म-फलानि स्वानुग्रहनिमित्तांश्च [31]कामान् य एको बहूनाम् अनेकेषाम् अनायासेन विदधाति = प्रयच्छतीत्येतत् । तम् आत्मस्थं ये अनुपश्यन्ति धीराः, तेषां शान्तिः = उपरतिः शाश्वती = नित्या स्वात्मभूतैव स्यात् । न इतरेषाम् = अनेवंविधानाम् ॥ २..१३ ॥
तदेतदिति मन्यन्तेऽनिर्देश्यं परमं सुखम् ।
कथं नु तद्विजानीयां किमु भाति विभाति वा ॥ २..१४ ॥
यत्तदात्मविज्ञानसुखम् अनिर्देश्यं = निर्देष्टुमशक्यं परमं प्रकृष्टं प्राकृत-पुरुष-वाङ्मनसयोरगोचरमपि सन्निवृत्तैषणा ये ब्राह्मणास्ते तदेतत्प्रत्यक्षमेवेति मन्यन्ते, कथं नु = केन प्रकारेण तत् सुखमहं विजानीयाम् इदमित्यात्मबुद्धिविषयमापादयेयं यथा [32]निवृत्तविषयैषणा यतयः । किमु तत् भाति = दीप्यते प्रकाशात्मकं तत् यतोऽस्मद्बुद्धिगोचरत्वेन विभाति = विस्पष्टं दृश्यते किं वा नेति ॥ २..१४ ॥
अत्रोत्तरमिदं भाति च विभाति चेति । कथम्? ---
न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः ।
तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ॥ २..१५ ॥
न तत्र तस्मिन्स्वात्मभूते ब्रह्मणि सर्वावभासकोऽपि सूर्यः भाति तद्ब्रह्म न प्रकाशयतीत्यर्थः । तथा न चन्द्रतारकम्, नेमा विद्युतो भान्ति, कुतः अयम् = [33]अस्मद्दृष्टिगोचरः अग्निः । किं बहुना? यदिदमादित्यादिकं सर्वं भाति तत् तमेव परमेश्वरं भान्तं = दीप्यमानम् अनुभाति = अनुदीप्यते । यथा जलोल्मुकादि अग्नि-संयोगादग्निं दहन्तमनुदहति न स्वतः, तद्वत् । तस्य एव भासा = दीप्त्या सर्वमिदं = सूर्यादि विभाति
यत् एवं तदेव ब्रह्म भाति च विभाति च । कार्यगतेन विविधेन भासा तस्य ब्रह्मणो भारूपत्वं स्वतोऽवगम्यते । न हि स्वतोऽविद्यमानं भासनमन्यस्य कर्तुं शक्यम्, घटादीनामन्यावभासकत्वादर्शनात् [34]भारूपाणां च आदित्यादीनां तद्दर्शनात् ॥ २..१५ ॥
इति पञ्चमवल्लीभाष्यम् ॥
इति श्रीमत्परमहंस-परिव्राजकाचार्य-गोविन्द-भगवत्पूज्यपाद-शिष्य-
श्रीमदाचार्य-श्रीशङ्कर-भगवतः कृतौ कठोपनिषद्भाष्ये
द्वितीयाध्याये द्वितीयवल्लीभाष्यम्समाप्तम् ॥




[1] नैकशरीरपुरवर्त्त्येवात्मा – इति पाठान्तरे ।
[2] इत्यादि – इति पाठान्तरे ।
[3] दुरोणसत् – इति अन्यपाठयोः नास्ति ।
[4] वरसत् – इति अन्यपाठयोः नास्ति ।
[5] ऋतसत् – इति अन्यपाठयोः नास्ति ।
[6] अब्जा – इति अन्यपाठयोः नास्ति ।
[7] गोजा – इति अन्यपाठयोः नास्ति ।
[8] ऋतजा – इति अन्यपाठयोः नास्ति ।
[9] अद्रिजा – इति अन्यपाठयोः नास्ति ।
[10] तदाप्यस्यात्मस्वरूपत्वमादित्यस्येत्यङ्गीकृतत्वाद्ब्रह्मणव्याख्याने/ तदाप्यस्यात्मस्वरूपत्वमादित्यस्याङ्गी(त्यस्येत्यङ्गी)कृतत्वात् ब्रह्मणव्याख्याने
[11] सर्वव्याप्येक – इति पाठान्तरे ।
[12] वननीयम् – इति पाठान्तरे नास्ति ।
[13] पुरस्वामिनो विद्रवण इव – इति पाठान्तरम् ।
[14] आत्मा – इति पाठान्तरे नास्ति ।
[15] तत्व्यतिरिक्तात्मापगमात् – इति पाठान्तरे ।
[16] केनचिदप्रयुक्तं संहतानामवस्थानं न दृष्टं इति पाठान्तरम् ।
[17] इतरेण तु – इति पाठान्तरे नास्ति ।
[18] स्वव्यापारं – इति पाठान्तरे नास्ति ।
[19] यथात्मा भवति यथा संसरति – इति पाठान्तरे नास्ति ।
[20] तथा च – इति पाठान्तरे ।
[21] ब्रह्मण्याश्रिताः – इति पाठान्तरे ।
[22] अनेकतार्किककुबुद्धिविचालितान्तःकरणानां – इति पाठान्तरे ।
[23] प्रमाणोपपन्नमप्यात्मैकत्वविज्ञानमसकृदुच्यमानमृजुबुद्धीनां - इति पाठान्तरम् ।
[24] रूपं रूपं – इति पाठान्तरे नास्ति ।
[25] स्वरूपेण – इत्यपि पाठन्तरे ।
[26] तदिति प्राप्तमत, इदमुच्यते  - इत्यपि पाठन्तरे ।
[27] रज्जु-शुक्तिकोखर-गगनेषु – इत्यपि पाठम् ।
[28] संसर्गिणि विपरीत-बुद्ध्यध्यास-निमित्तात्तद्दोषवद्विभाव्यन्ते – इति पाठान्तरे ।
[29] विशुद्धविज्ञानरूपं – इति पाठान्तरे ।
[30] अनेकप्रकारं – इति पाठान्तरे ।
[31] कामन् – इति पाठान्तरम् ।
[32] निवृत्तैषणा – इति पाठान्तरे ।
[33] अस्मद्गोचरोग्निः – इति पाठान्तरम् ।
[34] भासनरूपाणां – इति पाठान्तरे ।