॥काठकोपनिषत्॥
श्रीमच्छंकरभगवत्पादविरचितेन भाष्येण सहिता।
द्वितीयोऽध्यायः।
षष्ठीवल्ली।
तूलावधारणेनैव
मूलावधारणं वृक्षस्य यथा क्रियते लोके[1],
एवं संसारकार्यवृक्षावधारणेन
तन्मूलस्य ब्रह्मणः स्वरूपावदिधारयिषया इयं षष्ठी वल्ली आरभ्यते।
ऊर्ध्वमूलोऽवाक्शाख एषोऽश्वत्थः सनातनः ।
तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते ।
तस्मिँल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन
। एतद्वै तत् ॥ २॰३॰१ ॥
ऊर्ध्वमूल ऊर्ध्वं मूलं
यत् तद्विष्णोः परमं पदमस्येति सोऽयमव्यक्तादि-स्थावरान्तः संसारवृक्ष ऊर्ध्वमूलः
। वृक्षश्च व्रश्चनात् [2]विनश्वरत्वात्
। अविच्छिन्न जन्म-जरा-मरणशोकाद्यनेकानर्थात्मकः प्रतिक्षणमन्यथास्वभावः माया-मरीच्युदक-गन्धर्व-नगरादिवद्दृष्ट-नष्ट-स्वरूपत्वादवसाने
च वृक्षवदभावात्मकः कदली-स्तम्भवन्निःसारः [3]अनेक-शत-पाषण्ड-बुद्धि-विकल्पास्पदः
तत्त्व-विजिज्ञासुभिः अनिर्धारितेदं-तत्त्वः वेदान्त-निर्धारित-पर-ब्रह्म-मूलसारः
अविद्या-काम-कर्माव्यक्त-बीज-प्रभवः अपर-ब्रह्म-विज्ञान-क्रिया-शक्ति-द्वयात्मक-हिरण्य-गर्भाङ्कुरः
सर्व-प्राणि-लिङ्ग-भेद-स्कन्धः तत्तत्तृष्णा-जलासेकोद्भूत-दर्पो बुद्धीन्द्रिय-विषय-प्रवालाङ्कुरः
श्रुतिस्मृतिन्यायविद्योपदेशपलाशो यज्ञ-दान-तप-आद्यनेक-क्रिया-सुपुष्पः
सुखदुःखवेदनानेकरसः प्राण्युपजीव्यानन्तफलः तत्तृष्णा-सलिलावसेक-प्ररूढ-जटिलीकृत-दृढ-बद्ध-मूलः
सत्यनामादि-सप्तलोक-ब्रह्मादिभूतपक्षिकृतनीडः प्राणि-सुख-दुःखोद्भूत-हर्ष-शोक-जात-नृत्य-गीत-वादित्रक्ष्वेलितास्फोटित-हसिताक्रुष्ट-रुदित-हाहा-मुञ्च-मुञ्चेत्याद्यनेक-शब्द-कृत-तुमुली-भूत-महारवो
वेदान्त-विहित-ब्रह्मात्म-दर्शनासङ्ग-शस्त्र-कृतोच्छेदः एषः
= संसारवृक्षः अश्वत्थः
अश्वत्थवत्कामकर्म-वातेरित-नित्यप्रचलितस्वभावः । स्वर्ग-नरक-तिर्यक्प्रेतादिभिः
शखाभिः अवाक्शाखः, [4]अवाञ्चः शाखा यस्य सः, सनातनः = अनादित्वाच्चिरप्रवृत्तः
। यदस्य संसारवृक्षस्य मूलं तदेव शुक्रं = शुभ्रं = शुद्धं = ज्योतिष्मत्
= चैतन्यात्मज्योतिःस्वभावं तदेव
ब्रह्म सर्वमहत्त्वात् । तदेव
अमृतम् अविनाशस्वभावम् उच्यते = कथ्यते सत्यत्वात् । वाचारम्भणं विकारो नामधेयमनृतमन्यदतो मर्त्यम् । तस्मिन् = परमार्थसत्ये ब्रह्मणि लोकाः = गन्धर्व-नगर-मरीच्युदकमायासमाः
परमार्थदर्शनाभावावगमनाः श्रिताः = आश्रिताः सर्वे = समस्ताः
उत्पत्तिस्थितिलयेषु। तदु तद्ब्रह्म नात्येति नातिवर्तते मृदादिकमिव घटादिकार्यं कश्चन = कश्चिदपि विकारः । एतद्वै तत् ॥ २॰३॰१ ॥
तन्न
---
यदिदं किं च जगत् सर्वं प्राण एजति निःसृतम् ।
महद्भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ति ॥
२॰३॰२ ॥
यदिदं किं च यत्किंचेदं जगत्सर्वं प्राणे = परस्मिन्ब्रह्मणि सति एजति = कम्पते, तत एव निःसृतं
= निर्गतं सत् प्रचलति नियमेन चेष्टते । यदेवं
जगदुत्पत्त्यादिकारणं ब्रह्म तत् महद्भयम्,
महच्च तत् भयं च बिभेत्यस्मादिति महद्भयम्,
वज्रमुद्यतम् = उद्यतमिव वज्रम्; यथा वज्रोद्यतकरं स्वामिनम्
अभिमुखीभूतं दृष्ट्वा भृत्या नियमेन तच्छासने वर्तन्ते, तथेदं
चन्द्रादित्यग्रहनक्षत्रतारकादिलक्षणं जगत्सेश्वरं नियमेन क्षणम् अप्यविश्रान्तं
वर्तत इति उक्तं भवति । य एतद्विदुः स्वात्मप्रवृत्तिसाक्षिभूतमेकं ब्रह्म अमृताः अमरणधर्माणः ते भवन्ति
॥ २॰३॰२ ॥
कथं
तद्भयाज्जगद्वर्तत इति, आह ---
भयादस्याग्निस्तपति भयात्तपति सूर्यः ।
भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः ॥ २॰३॰३
॥
भयात् =
भीत्या अस्य = परमेश्वरस्य अग्निः तपति; भयात्तपति सूर्यः, भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः ।
न हि, ईश्वराणां लोकपालानां समर्थानां सतां नियन्ता
चेद्वज्रोद्यतकरवन्न स्यात्, स्वामिभयभीतानामिव भृत्यानां
नियता प्रवृत्तिरुपपद्यते ॥ २॰३॰३ ॥
तच्च
---
इह चेदशकद्बोद्धुं प्राक्शरीरस्य विस्रसः ।
ततः सर्गेषु लोकेषु शरीरत्वाय कल्पते ॥ २॰३॰४ ॥
इह =
जीवन्नेव चेत् यद् अशकत् शक्नोति शक्तः सन् जानातीत्येतत्, भयकारणं ब्रह्म बोद्धुम् = अवगन्तुम्, प्राक् = पूर्वं शरीरस्य विस्रसः
= अवस्रंसनात् पतनात् संसारबन्धनाद्विमुच्यते । न
चेदशकद्बोद्धुम्, ततः = अनवबोधात् सर्गेषु,
सृज्यन्ते येषु स्रष्टव्याः प्राणिन इति
सर्गाः पृथिव्यादयो लोकाः तेषु सर्गेषु, लोकेषु
शरीरत्वाय = शरीरभावाय कल्पते = समर्थो भवति; शरीरं गृह्णातीत्यर्थः । तस्माच्छरीरविस्रंसनात् प्रागात्मावबोधाय[6]
यत्न आस्थेयः ॥ २॰३॰४ ॥
यस्मादिहैवात्मनो दर्शनमादर्शस्थस्येव मुखस्य
स्पष्टमुपपद्यते, न लोकान्तरेषु ब्रह्मलोकादन्यत्र । स च दुष्प्रापः । कथमिति, उच्यते ---
यथाऽऽदर्शे तथाऽऽत्मनि यथा स्वप्ने तथा पितृलोके
।
यथाऽप्सु परीव ददृशे तथा गन्धर्वलोके छायातपयोरिव ब्रह्मलोके ॥ २॰३॰५ ॥
यथा आदर्शे प्रतिबिम्बभूतमात्मानं पश्यति लोकः अत्यन्तविविक्तम्, तथा इह आत्मनि
स्वबुद्धावादर्शवन्निर्मलीभूतायां विविक्तमात्मनो दर्शनं भवतीत्यर्थः ।
यथा स्वप्ने अविविक्तं जाग्रद्वासनोद्भूतम्, तथा
पितृलोके अविविक्तमेव दर्शनमात्मनः कर्मफलोपभोगासक्तत्वात् ।
यथा च अप्सु [7]अविविक्तावयवमात्मस्वरूपं
परीव ददृशे = परिदृश्यत इव,
तथा गन्धर्वलोके
अविविक्तमेव दर्शनमात्मनः । एवं च लोकान्तरेष्वपि शास्त्रप्रामाण्यादवगम्यते । छायातपयोरिव अत्यन्तविविक्तं ब्रह्मलोक
एवैकस्मिन् । स च दुष्प्रापः, अत्यन्तविशिष्टकर्मज्ञानसाध्यत्वात्
। तस्मादात्मदर्शनाय इहैव यत्नः कर्तव्य इत्यभिप्रायः ॥ २॰३॰५ ॥
कथमसौ
बोद्धव्यः, किं
वा तदवबोधे प्रयोजनमिति, उच्यते ---
इन्द्रियाणां पृथग्भावमुदयास्तमयौ च यत् ।
पृथगुत्पद्यमानानां मत्वा धीरो न शोचति ॥ २॰३॰६ ॥
इन्द्रियाणां श्रोत्रादीनां स्वस्वविषयग्रहणप्रयोजनेन स्वकारणेभ्य आकाशादिभ्यः पृथगुत्पद्यमानानाम् अत्यन्तविशुद्धात्केवलाच्चिन्मात्रात्मस्वरूपात्
पृथग्भावं स्वभावविलक्षणात्मकताम्, तथा तेषामेवेन्द्रियाणाम् उदयास्तमयौ च = उत्पत्तिप्रलयौ [8]जाग्रत्स्वप्नावस्थाप्रतिपत्त्या
नात्मन इति मत्वा = ज्ञात्वा
विवेकतो धीरः = धीमान् न शोचति, आत्मनो [9]नित्यैक-स्वभावत्व-अव्यभिचारात्
शोक-कारणत्वानुपपत्तेः । तथा च श्रुत्यन्तरम् 'तरति शोकमात्मवित्' (छा॰उ॰ ७॰१॰३) इति ॥ २॰३॰६ ॥
यस्मादात्मनः
इन्द्रियाणां पृथग्भाव उक्तो नासौ बहिरधिगन्तव्यः यस्मात्प्रत्यगात्मा स सर्वस्य;
तत्कथमिति, उच्यते ---
इन्द्रियेभ्यः परं मनो मनसः सत्त्वमुत्तमम् ।
सत्त्वादधि महानात्मा महतोऽव्यक्तमुत्तमम् ॥ २॰३॰७
॥
इन्द्रियेभ्यः परं मन इत्यादि । अर्थानाम् इह इन्द्रिय-समान-जातीयत्वाद् इन्द्रिय-ग्रहणेनैव
ग्रहणम् । पूर्ववदन्यत् (क॰उ॰ १॰३॰१०)। सत्त्व-शब्दाद् बुद्धिः इहोच्यते ॥ २॰३॰७ ॥
अव्यक्तात्तु परः पुरुषो व्यापकोऽलिङ्ग एव च ।
यं ज्ञात्वा मुच्यते जन्तुरमृतत्वं च गच्छति ॥ २॰३॰८
॥
अव्यक्तात्तु परः पुरुषः
व्यापकः व्यापकस्याप्याकाशादेः सर्वस्य कारणत्वात् । अलिङ्गः लिङ्ग्यते गम्यते
येन तल्लिङ्गं बुद्ध्यादि, तदविद्यमानं [10]यस्य
सोऽयमलिङ्ग एव [11]च;
सर्वसंसारधर्मवर्जित इत्येतत् । यं
ज्ञात्वा आचार्यतः शास्त्रतश्च मुच्यते जन्तुः अविद्यादिहृदयग्रन्थिभिर्जीवन्नेव; पतितेऽपि शरीरे अमृतत्वं च गच्छति ।
सोऽलिङ्गः परोऽव्यक्तात्पुरुष इति पूर्वेणैव संबन्धः ॥ २॰३॰८ ॥
कथं
तर्हि [12]तस्य
अलिङ्गस्य दर्शनमुपपद्यत इति, उच्यते ---
न सन्दृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति
कश्चनैनम् ।
हृदा मनीषा मनसाऽभिक्लृप्तो य एतद्विदुरमृतास्ते
भवन्ति ॥ २॰३॰९ ॥
न सन्दृशे = संदर्शनविषये न तिष्ठति
प्रत्यगात्मनः अस्य रूपम् । अतः न चक्षुषा सर्वेन्द्रियेण, चक्षुर्ग्रहणस्योपलक्षणार्थत्वात्,
पश्यति नोपलभते कश्चन = कश्चिदपि एनं = प्रकृतमात्मानम् ।
कथं तर्हि तं पश्येदिति, उच्यते
--- हृदा = हृत्स्थया =
बुद्ध्या, मनीषा मनसः संकल्पादिरूपस्य ईष्टे नियन्तृत्वेनेति
मनीट् [13]तया
मनीषा विकल्पवर्जितया बुद्ध्या । मनसा =
मननरूपेण सम्यग्दर्शनेन अभिक्लृप्तः
= अभिसमर्थितः = अभिप्रकाशित इत्येतत् ।
आत्मा ज्ञातुं [14]शक्य
इति वाक्यशेषः । तमात्मानं ब्रह्म एतत् ये विदुः अमृताः
ते भवन्ति ॥ २॰३॰९ ॥
सा
हृन्मनीट् कथं प्राप्यत इति तदर्थो योग उच्यते ---
यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह ।
बुद्धिश्च [15]न
विचेष्टति तामाहुः परमां गतिम् ॥ २॰३॰१० ॥
यदा =
यस्मिन्काले स्वविषयेभ्यो निवर्तितानि आत्मन्येव पञ्च ज्ञानानि ---ज्ञानार्थत्वाच्छ्रोत्रादीनीन्द्रियाणि
ज्ञानान्युच्यन्ते --- अवतिष्ठन्ते सह मनसा यदनुगतानि, तेन
संकल्पादिव्यावृत्तेनान्तःकरणेन । बुद्धिश्च
अध्यवसायलक्षणा न विचेष्टति = स्वव्यापारेषु न विचेष्टते = न व्याप्रियते, तामाहुः परमां गतिम् ॥ २॰३॰१० ॥
तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम् ।
अप्रमत्तस्तदा भवति योगो हि प्रभवाप्ययौ ॥ २॰३॰११
॥
ताम् =
ईदृशीं [16]तदवस्थां
योगमिति मन्यन्ते वियोगमेव सन्तम् । सर्वानर्थसंयोगवियोगलक्षणा
हीयमवस्था योगिनः । एतस्यां ह्यवस्थायाम् [17]अविद्याध्यारोपणवर्जितस्वरूपप्रतिष्ठ
आत्मा । स्थिरामिन्द्रियधारणां स्थिराम् = अचलाम् इन्द्रियधारणां = बाह्यान्तःकरणानां
धारणमित्यर्थः ।
अप्रमत्तः = प्रमादवर्जितः = समाधानं
प्रति नित्यं यत्नवान् तदा = तस्मिन्काले, यदैव प्रवृत्तयोगो भवति इति सामर्थ्यादवगम्यते । न हि बुद्ध्यादिचेष्टाभावे
प्रमादसंभवोऽस्ति । तस्मात्प्रागेव बुद्ध्यादिचेष्टोपरमात् अप्रमादो विधीयते ।
अथवा, यदैव इन्द्रियाणां स्थिरा धारणा, तदानीमेव निरङ्कुशमप्रमत्तत्वमित्यतोऽभिधीयते अप्रमत्तस्तदा
भवति इति । कुतः? योगो हि यस्मात् प्रभवाप्ययौ = उपजनापायधर्मक इत्यर्थः । अतः अपायपरिहारायाप्रमादः कर्तव्य इत्यभिप्रायः ॥
२॰३॰११ ॥
बुद्ध्यादिचेष्टाविषयं
चेद्ब्रह्म इदं तदिति विशेषतो गृह्येत, बुद्ध्याद्युपरमे च ग्रहणकारणाभावादनुपलभ्यमानं नास्त्येव
ब्रह्म । यद्धि करणगोचरं तदस्तीति प्रसिद्धं लोके विपरीतं चासदिति । अतश्चानर्थको
योगोऽनुपलभ्यमानत्वाद्वा नास्तीत्युपलब्धव्यं ब्रह्मेत्येवं प्राप्ते, इदमुच्यते । सत्यम् ,
नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा ।
अस्तीति ब्रुवतोऽन्यत्र कथं तदुपलभ्यते ॥ २॰३॰१२ ॥
नैव वाचा न मनसा न चक्षुषा नान्यैरपीन्द्रियैः प्राप्तुं शक्यते
इत्यर्थः । तथापि सर्वविशेषरहितोऽपि जगतो मूलमित्यवगतत्वादस्त्येव, कार्य-प्रविलापनस्य अस्तित्व-निष्ठत्वात् । तथा हीदं कार्यं [18]सौक्ष्म्यतारतम्यपारम्पर्येणानुगम्यमानं
सद्बुद्धिनिष्ठामेवावगमयति । यदापि विषयप्रविलापनेन प्रविलाप्यमाना बुद्धिः,
तदापि सा सत्प्रत्ययगर्भैव विलीयते । बुद्धिर्हि नः प्रमाणं
सदसतोर्याथात्म्यावगमे ।
मूलं चेज्जगतो न स्यादसदन्वितमेवेदं
कार्यमसदित्येव गृह्येत, न त्वेतदस्ति; सत्सदित्येव तु गृह्यते; यथा मृदादिकार्यं घटादि
मृदाद्यन्वितम् । तस्माज्जगतो मूलमात्मा अस्तीत्येवोपलब्धव्यः । कस्मात्? अस्तीति ब्रुवतः = अस्तित्ववादिनः = आगमार्थानुसारिणः श्रद्दधानाद् अन्यत्र नास्तिकवादिनि[19]
नास्ति जगतो मूलमात्मा निरन्वयमेवेदं कार्यमभावान्तं प्रविलीयत इति मन्यमाने
विपरीतदर्शिनि, कथं तद् = ब्रह्म तत्त्वत उपलभ्यते; न कथंचनोपलभ्यत
इत्यर्थः ॥ २॰३॰१२ ॥
तस्मादपोह्यासद्वादिपक्षमासुरम्
---
अस्तीत्येवोपलब्धव्यस्तत्त्वभावेन चोभयोः ।
अस्तीत्येवोपलब्धस्य तत्त्वभावः प्रसीदति ॥ २॰३॰१३
॥
अस्तीत्येव आत्मा उपलब्धव्यः
सत्कार्यबुद्ध्याद्युपाधिभिः । यदा तु तद्रहितोऽविक्रिय आत्मा कार्यं च
कारणव्यतिरेकेण नास्ति 'वाचारम्भणं
विकारो नामधेयं मृत्तिकेत्येव सत्यम्' (छा॰उ॰ ६॰१॰४) इति श्रुतेः, तदा य/तस्य निरुपाधिकस्यालिङ्गस्य
सदसदादि-प्रत्यय-विषयत्व-वर्जितस्य आत्मनः तत्त्व-भावो भवति । तेन च
रूपेणात्मोपलब्धव्य इत्यनुवर्तते ।
तत्रापि उभयोः =
सोपाधिकनिरुपाधिकयोरस्तित्वतत्त्वभावयोः
--- निर्धारणार्था षष्ठी --- पूर्वम् अस्तीत्येवोपलब्धस्य
आत्मनः सत्कार्य-उपाधिकृत-अस्तित्व-प्रत्ययेन उपलब्धस्येत्यर्थः ।
पश्चात्प्रत्यस्तमितसर्वोपाधिरूप आत्मनः तत्त्वभावः
= विदित-अविदिताभ्यामन्योऽद्वयस्वभावः नेति नेति (बृ॰उ॰
२॰३॰६, ३॰९॰२६) इति अस्थूलमनण्वह्रस्वम् (बृ॰उ॰
३॰८॰८) अदृश्येऽनात्म्ये निरुक्तेऽनिलयने (तै॰उ॰ २॰७)
इत्यादिश्रुतिनिर्दिष्टः प्रसीदति = अभिमुखी-भवति । आत्म-प्रकाशनाय पूर्वमस्तीत्युपलब्धवत इत्येतत् ॥ २॰३॰१३ ॥
[20]एवं परमार्थात्मदर्शिनः ---
यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः
।
अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते ॥ २॰३॰१४
॥
कामत्यागेन अमृतत्वम्
यदा =
यस्मिन्काले सर्वे कामाः
कामयितव्यस्यान्यस्याभावात् प्रमुच्यन्ते =
विशीर्यन्ते; ये अस्य प्राक्प्रतिबोधाद्विदुषो हृदि = बुद्धौ श्रिताः = आश्रिताः;
बुद्धिर्हि कामानामाश्रयः नात्मा, 'कामः सङ्कल्पः' (बृ॰उ॰१॰५॰३) इत्यादिश्रुत्यन्तराच्च ।
अथ तदा मर्त्यः प्राक्प्रबोधादासीत् स प्रबोधोत्तरकालमविद्या-कामकर्म-लक्षणस्य
मृत्योर्विनाशात् अमृतो भवति, गमनप्रयोजकस्य
मृत्योर्विनाशाद् गमनानुपपत्तेः । अत्र इहैव
प्रदीप-निर्वाणवत् सर्वबन्धनोपशमात् ब्रह्म समश्नुते
= ब्रह्मैव भवतीत्यर्थः ॥ २॰३॰१४ ॥
कदा
पुनः कामानां मूलतो विनाश इति, उच्यते ---
यथा सर्वे प्रभिद्यन्ते हृदयस्येह ग्रन्थयः ।
अथ मर्त्योऽमृतो भवत्येतावद्ध्यनुशासनम् ॥ २॰३॰१५
॥
ग्रन्थिभेद एव अमृतत्वम्
यदा सर्वे प्रभिद्यन्ते = भेदमुपयान्ति = विनश्यन्ति हृदयस्य = बुद्धेः इह जीवत एव ग्रन्थयो =
ग्रन्थिवद्दृढबन्धनरूपा = अविद्याप्रत्यया
इत्यर्थः । अहमिदं शरीरं ममेदं धनं सुखी दुःखी चाहमित्येवमादिलक्षणाः
[21]तद्विपरीतात्
ब्रह्मात्म-प्रत्यय- उपजननात् ब्रह्मैवाहमस्म्यसंसारीति विनष्टेष्वविद्याग्रन्थिषु
तन्निमित्ताः कामा मूलतो विनश्यन्ति । अथ मर्त्योऽमृतो
भवति एतावद्धि = तावदेवैतावन्मात्रं
नाधिकमस्तीत्याशङ्का कर्तव्या । अनुशासनम् =
अनुशिष्टिः = उपदेशः सर्ववेदान्तानामिति
वाक्यशेषः ॥ २॰३॰१५ ॥
निरस्ताशेषविशेषव्यापिब्रह्मात्मप्रतिपत्त्या
प्रभिन्नसमस्ताविद्यादिग्रन्थेः जीवत एव ब्रह्मभूतस्य विदुषो न गतिर्विद्यते[22],
'अत्र ब्रह्म समश्नुते' इत्युक्तत्वात् । 'न तस्य प्राणा उत्क्रामन्ति
ब्रह्मैव सन्ब्रह्माप्येति' (बृ॰उ॰ ४॰४॰६) इति श्रुत्यन्तराच्च ।
ये
पुनर्मन्दब्रह्मविदो विद्यान्तरशीलिनश्च ब्रह्मलोकभाजः ये च तद्विपरीताः संसारभाजः,
तेषामेष गतिविशेष उच्यते ---
प्रकृतोत्कृष्टब्रह्मविद्याफलस्तुतये ।
किं चान्यत्,
अग्निविद्या पृष्टा
प्रत्युक्ता च । तस्याश्च फलप्राप्तिप्रकारो वक्तव्य इति मन्त्रारम्भः । तत्र ---
शतं चैका च हृदयस्य नाड्यस्तासां
मूर्धानमभिनिःसृतैका ।
तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे
भवन्ति ॥ २॰३॰१६ ॥
सुषुम्नाभेदेन अमृतत्वम्
शतं च =
शतसंख्याकाः एका च = सुषुम्ना नाम पुरुषस्य हृदयाद् विनिःसृताः
नाड्यः = शिराः; तासां मध्ये मूर्धानं [23]भित्त्वो
अभिनिःसृता = निर्गता एका[24]
= सुषुम्ना नाम । तया अन्तकाले हृदये आत्मानं वशीकृत्य
योजयेत् ।
तया
नाड्या ऊर्ध्वम् = उपरि आयन् = गच्छन् आदित्यद्वारेण अमृतत्वम् = अमरणधर्मत्वमापेक्षिकम्
--- 'आभूतसम्प्लवं
स्थानममृतत्वं [25]हि
भाष्येत' (वि॰पु॰ २॰८॰९७) इति स्मृतेः । ब्रह्मणा वा सह कालान्तरेण
मुख्यममृतत्वमेति भुक्त्वा भोगाननुपमान्ब्रह्मलोकगतान् । विष्वङ्
= नानागतयः[26]
अन्या नाड्यः उत्क्रमणे
= [27]उत्क्रमणनिमित्तं भवन्ति
संसारप्रतिपत्त्यर्था एव भवन्तीत्यर्थः ॥ २॰३॰१६ ॥
इदानीं
सर्ववल्ल्यर्थोपसंहारार्थमाह ---
अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये
सन्निविष्टः ।
तं स्वाच्छरीरात्प्रवृहेन्मुञ्जादिवेषीकां
धैर्येण । तं विद्याच्छुक्रममृतं तं विद्याच्छुक्रममृतमिति ॥ २॰३॰१७ ॥
अङ्गुष्ठमात्रः पुरुषः
अन्तरात्मा सदा जनानां संबन्धिनि हृदये
सन्निविष्टः यथाव्याख्यातः; तं
स्वात् = आत्मीयात् शरीरात् प्रवृहेत् =
उद्यच्छेत् = निष्कर्षेत् = पृथक्कुर्यादित्यर्थः । किमिवेति, उच्यते --- मुञ्जादिवेषीकाम् अन्तःस्थां धैर्येण
= अप्रमादेन । तं = शरीरान्निष्कृष्टं चिन्मात्रं विद्यात् =
विजानीयात् शुक्रं = [28]शुद्धम् अमृतं यथोक्तं ब्रह्मेति ।
द्विर्वचनमुपनिषत्परिसमाप्त्यर्थम्, इतिशब्दश्च ॥ २॰३॰१७ ॥
विद्यास्तुत्यर्थोऽयमाख्यायिकार्थोपसंहारः
अधुनोच्यते ---
मृत्युप्रोक्तां नचिकेतोऽथ लब्ध्वा विद्यामेतां
योगविधिं च कृत्स्नम् ।
ब्रह्मप्राप्तो विरजोऽभूद्विमृत्युरन्योऽप्येवं
यो विदध्यात्ममेव ॥ २॰३॰१८ ॥
मृत्युप्रोक्ताम् [29]एतां यथोक्तां ब्रह्मविद्यां योगविधिं च कृत्स्नं
= समस्तं सोपकरणं सफलमित्येतत् । [30]नचिकेताः अथ वरप्रदानान्मृत्योः लब्ध्वा = प्राप्येत्यर्थः । किम्? ब्रह्मप्राप्तोऽभूत्
मुक्तोऽभवदित्यर्थः ।
कथम्? विद्याप्राप्त्या विरजः = विगतरजाः[31]
= विगतधर्माधर्मः विमृत्युः = विगतकामाविद्यश्च सन् पूर्वमित्यर्थः ।
न केवलं [32]नचिकेता
एव, अन्योऽपि [33]य
एवं [34]नचिकेतोवदात्मवित् अध्यात्ममेव
निरुपचरितं प्रत्यक्स्वरूपं प्राप्य तत्त्वमेवेत्यभिप्रायः ।
नान्यद्रूपमप्रत्यग्रूपम् । तदेवमध्यात्मम् एवम् [35]उक्तेन
प्रकारेण वेद विजानातीति एवंवित्, सोऽपि विरजः सन् ब्रह्म [36]प्राप्य
विमृत्युर्भवतीति वाक्यशेषः ॥ २॰३॰१८ ॥
[37]अथ शिष्याचार्ययोः
प्रमादकृतान्यायेन विद्याग्रहणप्रतिपादननिमित्तदोषप्रशमनार्थेयं शान्तिरुच्यते ---
ॐ स॒ह
ना॑-ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । ते॒ज॒स्विना॒वधी॑त-मस्तु॒ मा
वि॑द्विषा॒वहै॥ ।
ॐ शान्ति॒ शान्तिः॒ शान्तिः॑ ॥
सह नौ =
आवाम् अवतु = पालयतु
विद्यास्वरूपप्रकाशनेन । कः? स एव परमेश्वरः
उपनिषत्प्रकाशितः । किं च, सह नौ भुनक्तु = तत्फलप्रकाशनेन नौ पालयतु । सह एव = आवां विद्याकृतं वीर्यं = सामर्थ्यं करवावहै = निष्पादयावहै । किं च,
तेजस्विनौ = तेजस्विनोरावयोः यत् अधीतं तत्स्वधीतम् अस्तु । अथवा, तेजस्वि
नौ = आवाभ्यां यत् अधीतं तदतीव तेजस्वि = वीर्यवद् अस्तु इत्यर्थः । मा
विद्विषावहै = शिष्याचार्यावन्योन्यं प्रमाद-कृतान्यायाध्ययनाध्यापन-दोष-निमित्तं
द्वेषं मा करवावहै इत्यर्थः । शान्तिः शान्तिः शान्तिरिति
त्रिर्वचनं सर्वदोषोपशमनार्थम् इति ॥
इति षष्ठीवल्लीभाष्यम् ॥
कठोपनिषद्भाष्ये द्वितीयाध्यायं समाप्तम् ॥
इति श्रीमत्परमहंस-परिव्राजकाचार्य-गोविन्द-भगवत्पूज्यपाद-शिष्य-
श्रीमदाचार्य-श्रीशङ्कर-भगवतः कृतौ कठोपनिषद्भाष्ये
द्वितीयाध्याये
तृतीयवल्लीभाष्यम्समाप्तम् ॥
[1] क्रियते
लोके यथा – इति पाठान्तरे ।
[2] विनश्वरत्वात्
। अविच्छिन्न – इति पाठान्तरे नास्ति ।
[3] अनेक-शत-पाखण्ड-बुद्धि-विकल्पास्पदः
– इति पाठान्तरे ।
[4] अवाञ्चः
शाखा यस्य सः – इति अन्यत्र पाठे नास्ति ।
[5] असत् – इति पाठान्तरम् ।
[6] प्रागात्मबोधाय
– इति पाठान्तरे ।
[7] अविविक्तावयवमात्मरूपं
– इति पाठान्तरे नास्ति ।
[8] जाग्रत्स्वापावस्थापेक्षया
– इति पाठान्तरे ।
[9] नित्यैक-स्वभावस्य-अव्यभिचारात्
– इति पाठान्तरे ।
[10] अस्य
– इति पाठान्तरम् ।
[11] च
– इति अन्यपाठे नास्ति ।
[12] तस्य
– इति पाठान्तरे नास्ति ।
[13] तया
हृदा मनीषा(ऽ)विकल्पयित्र्या । – इति पाठान्तरम् ।
[14] शक्यत
– इति पाठान्तरम् ।
[15] न
विचेष्टते – इत्यपि पाठम् - मन्त्रपुष्पे
।
[16] अवस्थां – इति
पाठान्तरम् ।
[17] अविद्याध्यारोपणवर्जितः
स्वरूपप्रतिष्ठ – इत्यपि पाठम् ।
[18] सूक्ष्मतारतम्यपारम्पर्येणानुगम्यमानं
– इति पाठान्तरे ।
[19] नास्तित्ववादिनि –
इत्यपि पाठम् ।
[21] तद्विपरीत
– इति पाठान्तरे ।
[22] इत्युक्तम्
– इति पाठान्तरे ।
[23] भित्त्वा
– इति पाठान्तरे ।
[24] एका
– इति पाठान्तरे नास्ति ।
[25] विभाव्यते/ हि भाष्यते – इति पाठान्तरम् ।
[26] नानाविधगतयः
– इति पाठान्तरे ।
[27] निमित्तं
– इति पाठान्तरे ।
[28] शुद्धम्
– इति अन्यपाठे नास्ति ।
[29] यथोक्तामेतां
– इति पाठान्तरे ।
[31] विगतरजाः
– इति पाठान्तरे नास्ति ।
[32] नाचिकेत
– इति पाठान्तरम् ।
[33] य
एवम् – इति पाठान्तरे नास्ति ।
[34] नाचिकेतवद्
– इति पाठान्तरम् ।
[36] प्राप्त्या
– इति पाठान्तरे ।
[37] अथ
– अन्यपाठे नास्ति ।